________________
मयामृततरक्षिणी-सरहिणीतरणिभ्यो समतो मयोपदेशः।
देश-कालोपपन्नेन विनयः कार्य इति चत्वारो भेदाः, अष्टसु स्थानेषु प्रत्येक मिलिता द्वात्रिंशदितिः सर्व. सण्या पुनरेतेषां पाखण्डिनां त्रीणि शतानि त्रिषष्ट्यधिकानि सिद्धानि, अन्यत्राप्युक्तम्
आस्तिकमत आत्माद्या नित्याऽनित्यात्मका नव हि सन्ति । काल-नियत स्वभावेश्वरा-ऽऽत्मकृतितः स्व-परसंस्थाः ॥ १॥ काल-यहच्छा-नियति-स्वभावेश्वरा-ऽऽत्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः स्व-परसंस्थाः ॥ २ ॥ अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्वैतावाच्याश्च को वेत्ति ।। ३ ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः ।
सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽधम-मातृ-पितृषु सदा ॥ ४ ॥" [ नन्वेवमास्तिकगणस्यापि पाखण्डपक्षनिक्षेपे स्वरूपेणात्मास्त्येवेत्यादिनयवादिनो जैना अपि पाखण्डिनः स्युः तद्वादस्य क्रियावादभेदस्वरूपत्वादिति चेद् ? एकान्ते न तथाश्रद्धा, अत एवैकान्तेन षट्कायादिश्रद्धानेऽपि तत्त्वतः सम्यक्त्वाभावः सम्मतौ प्रतिपादितः, तथाहि"णियमेण सद्दहन्तो छक्काए भावओ ण सद्दहइ । हंदी अपजसु वि सद्दहणा होइ अविभत्ता ॥"
[स० तु. गा० २८ ]
सङ्खचकाः। भेदाः विकल्पाः, कायिकविनयः, वाचिकविनयः, मानसिकविनयः, दानविनयश्चेति चत्वारो मेदा इति यावत् , ते चत्वारो भेदाः प्रत्यकमष्टसु स्थानेषु सुरे कायिकविनयादयश्चत्वारः, नपतौ निरुक्तचत्वारः, यतिषु ते चत्वारः, ज्ञातिषु ते चत्वारः, स्थविरेषु ते चत्वारः, अधमेषु ते चत्वारः, मातरि ते चत्वारः, पितरि ते चत्वार इत्येवं प्रत्येकमष्टसु स्थानेषु चत्वारो मिलिताः सन्तोद्वात्रिंशद्भेदा भवन्तीत्यर्थः । सर्वसङ्खयेति-क्रियावादिनामशीत्युत्तरं शतम् ,अक्रियावादिनां चतुरशीतिः, अज्ञानिकानां सप्तषष्टिः, वैनयिकानां द्वात्रिंशत् , ताश्च सर्वा मिलिताः सर्वसङ्ख्या तयेत्यर्थः। एतेषां क्रियावाद्यादीनाम् । निरुतक्रियावाद्यादिसंख्याभेदे ग्रन्थान्तरसंवादमुपदर्शयति-अन्यत्राप्युक्तमिति । आस्तिकमते क्रियावादिमते, अन्यत् स्पष्टम् , प्रथमपद्ये क्रियावादिनामशीत्युत्तरशतभेदाः कण्ठतोऽनुक्ता अप्युपायोपदर्शनेन सूचिताः ।
कालेत्यादिद्वितीयपोनाक्रियावादिनां चतुरशीतिभेदा भाविताः, नास्तिकवादिगणमते अक्रियावादिबौद्धादिमते । अज्ञानिकवादिमतमित्यादितृतीयपधेनाज्ञानिकानां सप्तषष्टिर्भेदाः कण्ठतोऽनुक्ता अप्युपायोपदर्शनेन सूचिताः। एवं वैनयिकमतमित्यादि-तुरीयपद्ये कण्ठतोऽनुक्ता अप्युपायदर्शनेन द्वात्रिंशद्भेदाः सूचिताः, चतुर्णामपि पद्यानामर्थः पूर्वग्रन्थतः स्पष्टीकृत इति न तेषां व्याख्या आदता । शङ्कते- नन्विति । एवं क्रियावादिनः पाखण्डिमध्ये परिगणनं कृत्वा तत्सङ्ख्याभिधानप्रकारेण । अस्त्येवत्यादीत्यत्रादिपदेन पररूपेणात्मा नास्त्येवेत्यादीनामुपग्रहः। तद्वादस्य जैनाभिमतस्यावादात्मवादस्य । उत्तरयति- एकान्त इति । न तथाश्रद्धा यथाऽनेकान्तवादे जैनानां श्रद्धा तेषामेकान्तवादे तथा श्रद्धा न । अत एव यत एवैकान्तवादे श्रद्धा न तत एव । एकान्तेन षट्कायश्रद्धाने सम्यक्त्वाभावावेदिकां सम्मतिगाथामुग्लिखति--णियमेण इति-नियमेन श्रद्दधानः षट् कायान् भावतो न श्रद्धते। हन्दि अपर्यायेध्वपि श्रद्दधाना भवन्ति अविभक्ता ।" इति संस्कृतम् । उक्तगाथाया अर्थमुपदर्शयति- अस्या अर्थ इति । नियमेनेत्यस्य विवरणम्- अवधारणेनेति । अवधारण कीदृशमित्यपेक्षायामाह- षडेवैते जीवाः कायाश्चेत्येवमिति- षटकायानित्यस्य षट जीवान् षट् कायाश्चेत्यर्थः । कथं भावतः षट् कायान्न श्रद्धत्ते ? इत्यपेक्षायां तत्र हेतुमुपदर्शयति-जीवराश्यपेक्षयेति। तेषां जीवानाम् , जीवत्वसामान्यापेक्षया जीवानामेकत्वेन घट्दैकान्तस्य तत्राभावादित्यर्थः । कायेष्वपि