________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रायः सम्भवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो, ज्ञाने चारित्रवर्जिते ॥ १३७ ॥ क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न । तावन्नाविर्भवेद् यावच्छैलेश्यां शुद्धसंयमः ॥ १३८ ।। व्यवहारे तपो-ज्ञान-संयमा मुक्तिहेतवः । एकः शब्दर्जुसूत्रेषु, संयमो मोक्षकारणम् ॥ १३९ ॥ सङ्ग्रहस्तु नयः प्राह, जीवो मुक्तः सदाशिवः । अनवाप्तिभ्रमात् कण्ठस्वर्णन्यायात् क्रिया पुनः ॥ १४० ॥ अनन्तमर्जितं ज्ञानं, त्यक्ताश्चानन्तविभ्रमाः। न चित्रं कलयाप्यात्मा, हीनोऽभूदधिकोऽपि वा ॥ १४१ ।। धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः।
चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥ १४२ ॥ सुनिपुणमतिगम्यं मन्दधीदुष्प्रवेशं, प्रवचनवचनं न क्वापि हीनं नयौधेः । गुरुचरणकृपातो योजयंस्तान् पदे यः, परिणमयति शिष्यांस्तं वृणीते यश:श्रीः॥
गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गुणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः । तत्सातीर्थंभृतां नयादिविजयप्राज्ञोत्तमानां शिशु
स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ १४४॥ नयामृत०-"क्रियानयः" क्रियानय इत्यादयः श्लोकाः प्रायः स्पष्टाः । अत्र ज्ञान-कर्मसमुच्चयवादे स्व-परसमयविचारः कश्चिल्लिख्यते- तत्र मुमुक्षुकर्मव्यापारतन्त्रं तत्त्वज्ञानवृत्ति नवेति विप्रतिपत्तिः, विधिकोटिरुदयनाचार्याणां निषेधकोटि स्करीयाणाम् , तत्र भास्करीयाणामयमाशय:- तीर्थविशेषस्नान महादान-यम-नियमादिकर्मणां निःश्रेयसकारणत्वं तावच्छन्दबलादेवावगम्यते, तत्त्वज्ञानव्यापार•
एकोनत्रिंशदुत्तरशततमात् "क्रियानयः" इत्यादि पद्यादारभ्य चतुश्चत्वारिंशदुत्तरशततमं- " गच्छे.” इत्याद्यन्तिमश्लोकं यावत् षोडशसङ्ख्यकपदकदम्बकं स्पष्टार्थत्वान्न व्याख्यानमपेक्षत इत्याह- क्रियानयः इत्यादय इति । अत्र अस्मिन् प्रकरणे । स्व-परसमयविचारः जैनसिद्धान्त-नैयायिकादिसिद्धान्तविचारः । तत्र स्व-परसमयविचारे। "तन्त्रं" इत्यस्य स्थाने "तत्त्वं" इति पाठो युक्तः । विधिकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीति विधिकोटिः।