________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः ।
-
करवं तु तेषां निःश्रेयसे जनयितव्ये न तावच्छब्द एव बोधयति, तत्र तस्योदासीनत्वात् । न च साक्षात् साधनताव्या( वि )धेः साधनताऽप्रतीतेः परम्पराघटकव्यापारमविषयीकृत्य न घटत इत्यपूर्ववाच्यतान्यायेन शब्द एव वस्तुतः तत्त्वज्ञानव्यापारकतां बोधयितुं प्रगल्भत इति शङ्कापदं हृदि निधेयम् , सामान्यशब्दोऽन्यतमविशेषबाधे तं त्यजति, न तु विशेषान्तरमुपादित्सितमपि विशिष्य बोधयतीति स्वभावात् दृष्टान्तस्यैवासम्प्रतिपत्तेः, न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयस्तत्र दृष्टेन तत्त्वज्ञानेनैवोपपत्ताव दृष्टकल्पनाया अन्याय्यत्वात् , लाघव सहकृतानुपपत्तिरेव तत्त्वज्ञानव्यापारकत्वे मानमिति वाच्यम्, तत्त्वज्ञानस्यापि व्यवहितत्वेन तत्रापि कर्मणोऽदृष्टद्वारावश्यकत्वाद् निःश्रेयसे द्वारद्वयकल्पने गौरवात् , निःश्रेयसे कर्मणामदृष्टद्वारा हेतुत्वे तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाधनुष्ठानं स्यादिति चेत् ? स्यादेव, तदानीमपि मुमुक्षाया अधिकारस्यामतेः, न च तत्त्वज्ञानत्वेनैव निषेधकोटिः मुमुक्षुकर्मध्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीति निषेधकोटिः। तत्र विप्रतिपत्तौ सत्या निषेधकोटिसाधने । अयं तीर्थविशेषस्नानेत्यादिना वक्ष्यमाणः। तेषां तीर्थविशेषस्नान महादान-यम-नियमादिकर्मणाम् । तत्र तीर्थविशेष स्नानादिकर्मणां तत्त्वज्ञानव्यापारकत्वे । तस्य शब्दस्य । न चेत्यस्य विधेयमित्यनेनान्वयः। "साक्षात साधनताव्या(वि)धेः साघनताऽप्रतीतेः" इत्यस्य स्थाने "साक्षात् साधनताबाधे विधेः साधनताप्रतीतिः" इति पाठो युक्तः, तथा च तीर्थविशेषस्नानादिकर्मण मोक्ष प्रति कारणत्वं विधिवाक्यात् प्रतीयते, किन्तु तीर्थस्नानादिकर्मणां चिर. विनष्टत्वेन मोक्षाव्यवहितपूर्वेक्षणेऽभावात् साक्षान्मोक्ष प्रति कारणत्वं न सम्भवतीत्येवं तेषां मोक्षं प्रति साक्षात् साधनताया बाधे सति विधेः-विधिवाक्यात् तेषां मोक्ष प्रति साधनताप्रतीतिः परम्परया कारणत्वविषयिणी, परम्पराकारणत्वं नाम स्वजनकव्यापारजनकत्वमिति परम्पराघटकव्यापारमविषयीकृत्य न घटते न सम्भवतीत्येवम्भूतार्थप्रतिपादनपरो योऽपर्ववाच्यतान्यायो यथा स्वर्गकामो यजेतेत्यत्र विधेरिष्टसाधनत्वार्थकत्वपक्षे यागस्य चिरविनष्टस्य कालान्तरभाविस्वर्गरूपेष्टं प्रति साक्षात् साधनत्वं न सम्भवतीति स्वर्गजनकव्यापारजनकत्वलक्षणपरम्पराकारणत्वमभ्युपेयमिति तदुघटकतयाऽपूर्वस्यादृष्टात्मकव्यापारस्य विधिवाच्यतेति तेन न्यायेन, शब्द एवं विधिस्वरूपशब्द एव, वस्तुत. परमार्थतः. तीर्थविशेषस्नानादिकमणां तत्त्वज्ञान व्यापारकता बोधषितं ज्ञापयितुं प्रगल्भते समर्थो भवतीत्येवस्वरूपं शापदं इडि मानसे, न विधेयं न कर्तव्यमित्यर्थः । निषेधहेतुमाह- सामान्यशब्द इति- सामान्यवाचकशब्द इत्यर्थः । अन्यतमविशेषवाघे सामान्यधर्माकान्तयत्किञ्चिद्विशेषस्य बाधे सति । तं विशेषम् । त्यजति तदसाधारणरूपेण तं न बोधयति । न स्वित्यस्य बोधयतीत्यनेनान्वयः । विशेषान्तरं बाधितविशेषभिन्नविशेषम् । तं विशिष्टि- उपादिलितमपीतिउपादातमिष्टमपीत्यर्थः। विशिष्य न तु बोधयति तदसाधारणरूपेण न बोधयति । कथं न बोधयतीत्यपेक्षायामाहइति स्वभावादिति- यस्य शब्दस्य यत्रार्थे येन रूपेण शक्तिः स शब्दस्तेनैव रूपेण तस्य बोधक इति सम्भवादि. त्यर्थः। दृष्टान्तस्यैवासम्प्रतिपत्तेरिति-स्वर्गकामो यजेतेत्यत्रापि यागस्य स्वर्ग प्रति साक्षावनकरवस्य बाधे साक्षाबनकस्वरूपेण तमेव विधिन बोधयति, न तु परम्पराजनकत्वरूपेण परम्पराजनकत्वं बोधयति, उक्तस्वभावादित्यपूर्ववाच्यता. दृष्टान्तस्यानभ्युपगमादित्यर्थः । न चेत्यस्य वाच्यमित्यनेनान्वयः। कर्मणां तीर्थविशेषस्नानादिकर्मणाम । व्यापार: मोक्षरूपकार्यजनने व्यापारः। तत्र व्यापारस्थावश्यकत्वे । लाघवेति - उपस्थितिलाघवेत्यर्थः । निषेधे हेतुमाह-तत्त्वमानस्यापीति- तत्त्वज्ञानान्तरमेव मुक्तिन भवति किन्तु तत्त्वज्ञानेन मिथ्याज्ञानस्य सञ्चितकर्मणां च क्षये सत्यपि भोगमात्रविनाश्यप्रारब्धकर्मणां भोगाद् विनाशे सति मुक्तिभवतीत्येवं तत्वज्ञानस्यापि व्यवहितत्वेनेत्यर्थः। अथवा तत्त्वज्ञानलक्षणव्यापारात्मककार्यस्यापि तीर्थविशेषस्नानादिकर्मणोऽनन्तरमेवानुत्पत्तेः, किन्तु कालान्तरमुत्पत्त्या तन्मध्यपतितकालप्रयुक्तव्यवधानाश्रयत्वेनेत्यर्थः, अयमेवार्थ उत्तरप्रन्थसङ्गत्याऽऽदरणीयः। तत्रापि तत्त्वज्ञानोत्पत्तावपि । निःश्रेयसे मोक्षरूपकायें । द्वारद्वयकल्पने तत्त्वज्ञानरूपव्यापार एकः, अपरश्च तत्त्वज्ञानार्थमदृष्टरूपव्यापार इत्येवं व्यापारद्वयकल्पने गौरवात् , अतोSEटद्वारेच कर्मणा मोक्ष प्रति कारणस्वमित्यर्थः । ननु तत्त्वज्ञानद्वारा मोक्ष प्रति कर्मणां कारणत्वे तत्त्वज्ञानान्तरं न कर्माण्यनुष्ठेयानि तत्वज्ञानपूर्ववर्तिकर्मभ्य एव तत्त्वज्ञानद्वारा मोक्षो.