Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 218
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सर्व , अनाकलने वा कमाश्रित्य व्यभिचारः शङ्कयेत, तथा च सुतरामनुमानस्वीकारः, एवं च देशान्तरेऽपि वक्तव्यम्, स्वीकृतमनुमानं सुहृद्भावेन पृच्छामः कथमाशङ्का निवर्तनीयेति चेत् ? न- यावदाशङ्कं तर्कप्रवृत्तेः तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टभुपनयतेच्छा विच्छिद्यते, विच्छिन्न विपक्षेच्छश्च प्रमाता भूयो दर्शनोपलब्धसाहचर्य लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् । ननु तर्कोऽप्यविनाभाचमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम्, न शङ्काया व्याघातावधित्वात् तदेव ह्याशङ्कयते यस्मिन्नाशङ्कयमाने स्वकियाव्याघातादयो नावतरन्तीति लोकमर्यादा, नहि हेतुफलभावो न भविष्यतीति शङ्कितुमपि शक्यते, तथा सति शङ्कव न स्यात् मिथ्या भविष्यतीत्यादिवत्, तथाप्यतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् ? न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम् केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते, ततः शचैव फलतः स्वरूपतश्व निवर्तनीया, तत्र फलमस्याविपक्षस्यापि जिज्ञासा तर्कादाहृत्य निवर्तते, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्व सुस्थम्, न तदागमम् न्यायाङ्गतया तर्क व्युत्पादयतः सूत्रकारस्याभिमतत्वात्, अन्यथा तद्वयुत्पादनवैयर्थ्यादिति । अनुमानस्य प्रामाण्ये तत एव संवादिप्रवृत्तिजनकत्वहेतुना शब्दजधियोऽपि प्रामाण्यं सिद्धयत्येव प्रमाणं भवतु शब्दः किन्तु तस्यानुमानेऽन्तर्भाव इति न पृथक् प्रमाणमिति वैशेषिकमतं चाशङ्कय कुसुमाञ्जलावेव दूषितम्, तद्रन्थश्चायम् - " शब्दोऽपि न बाधकमनुमानानतिरेकादिति वैशेषिकादयः, तथाहि - यद्यप्येते पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणम्, पदार्थत्वादिति चानैकान्तिकम्, पदैः स्मारितत्वादित्यपि तथा, यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभाव:, नात्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषण- विशेष्यभावो वा संभवति, शाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भाववादिभिर्नेष्यते, न च लिङ्गतया ज्ञापकत्वम्, यलिङ्गस्य विषयस्तदेव तस्य परस्पराश्रयप्रसङ्गात् तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति, तथाप्याकाङ्क्षादिमद्भिः पदैः स्मारितत्वात् गामभ्याजेति पदार्थवदिति स्यात् न च विशेषासिद्धिर्दोषः, संसर्गस्य संसृज्यमानविशेषादेव विशिष्टत्वात् यद्वा एतानि पदानि स्मारितार्थ संसर्गज्ञानपूर्वकानि आकाङ्क्षादिमत्त्वे सति तत्स्मारकत्वात्, गामभ्याजेतिपदवत् न चैवमर्थासिद्धिः ज्ञानावच्छेदकतयैव तत्सिद्धेः, तस्य च संसृज्यमानोपहितस्यैवावच्छेदकत्वान्न विशेषाप्रतिलम्भ इति, अत्रोच्यते - " अनेकान्तः परिच्छेदे सम्भवे च न निश्चयः । आकाङ्क्षासत्तया हेतुर्योग्यासत्तिरबन्धना ।। १ ।। " एते पदार्थों मिथः संसर्गवन्त इति संसृष्टा एवेति नियमो वा साध्यः ? सम्भावितसंसर्गा वा ? न प्रथम :- अनाप्तपदकदम्बस्मारितैरनेकान्तात्, आप्तोक्त्या विशेषणीयमिति चेत् ? न - वाक्यार्थप्रतीतेः प्राक् तदसिद्धेः न च विप्रलम्भकत्वमिहाप्तिशब्देन विवक्षितम्, तदुक्तेरपि पदार्थ संसर्गव्यभिचारात्, अपि तु तदनुभव प्रामाण्यमपि न चैतच्छक्यमसर्वज्ञेन सर्वदा सर्वविषये सत्यज्ञानवानयमिति निश्चेतुम्, भ्रान्तेः पुरुषधर्मत्वात् यत्र कचिदाप्तत्वमनाप्तस्याप्यस्तीति न तेनोपयोगः, ततोऽस्मिन्नर्थेऽयमभ्रान्त इति केनचिदुपायेन ग्राह्यम्, न चैतत् संसर्गविशेषमप्रतीत्य शक्यम् बुद्धेरर्थभेदमन्तरेण निरूपयितुमशक्यात्, पदार्थमात्रे चाभ्रान्तत्वसिद्धौ न किञ्चित्, अनातसाधारण्यात्, एतेषां संसर्गेऽयमभ्रान्त इति शक्यमिति चेत् ? न एतेषां संसर्गे इत्यस्या एव बुद्धेरसिद्धेः, अननुभूतचरे स्मरणायोगात् तदनुभवस्य लिङ्गाधीनतया तस्य च विशेषणासिद्धत्वेनानुपपत्तेरिति । नापि द्वितीय:- योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः, अन्यथा तदसिद्धावासन्नसा कालपदस्मारितत्वादित्येव हेतुः स्यात्, तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनेकान्तः, तथाविधानां सर्वथा संसर्गायोग्यत्वादिति । द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति तत्र केयमाकाङ्क्षा नाम, न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् नापि तद्योग्यता, योग्यतयेव गतार्थत्वात् ?, नाप्यविनाभावः, नीलं सरोज मित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् तत्रापि सामान्य। क्षिप्तविशेषयोरविनाभावोऽस्तीति चेत् ?, न- अहो विमलं जलं नद्या:, कच्छे महिषश्चरतीत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् ?, नापि प्रतिपत्तुर्जिज्ञासा, पटो भवतीत्यादौ शुक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत् सर्वदा वाक्यापर्यवसानप्रसङ्गात्, गुण- क्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाल्ला, पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा, तत्र भवतीत्युक्ते किं करोतीत्येषैव परस्मारितविषया, न तु किंरूप इत्यादिपि, यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्नमिति चेत् ? एवं तर्हि चक्षुषी निमील्य, परिभावयतु भवान् किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति, तत्र प्रथमे नानया व्यभिचार ३६८

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274