Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 220
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः । किरणता विरोधाभावात् । अवच्छेदकरूपानुपस्थितौ कथमवच्छेयकारणतामहः कारणताया ससम्बन्धिकपदार्थत्वेन तत्प्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादिति चेत् ? न- " अयं घटः " इति समवाय प्रत्यक्षे व्यभिचारात् । अथ येन समवायत्वादिना रूपेण ससम्बन्धिकता तेन रूपेण तत्प्रत्यक्षे तस्य हेतुत्वान्न व्यभिचार इति चेत् ? न तथापि ससम्बन्धिकतावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वमित्यत्र सम्बन्धिमात्रवृत्तित्वस्यैवावच्छेदकपदार्थत्वात् प्रकृते च इयं वह्निव्यक्तिस्तृणजन्येति कारणताप्रत्यक्ष. स्यापि तृणकार्यताश्रयमात्रवृत्यैतद्वद्दित्वप्रकारक ज्ञान साध्यत्वसम्भवात् यद्वा इयं वह्निव्यक्तिस्तृणजन्येति प्रत्यक्षस्यैतद्वह्नित्वावच्छिन्न कार्यतावगाहित्वेऽप्यवच्छेदकत्वांशे भ्रमत्वेऽपि कार्यतांशे प्रमात्वान्न कोऽपि दोषः । अथान्वयव्यतिरेकामहाप्रकारकजात्या कार्यत्वकल्पनाsनौचित्यात् तथाभूतशक्त्या कारणत्वमेव ससम्बन्धिकपदार्थप्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादवच्छेद करूप सम्बन्धिज्ञाने सत्येवावच्छेद्यकारणत्वप्रहो नान्यथेत्यवच्छेदक - धर्मानुपस्थितौ कारणत्वप्रहो न सम्भवतीत्याशङ्कते - अवच्छेदकरूपानुपस्थिताविति । समाधत्ते नेति- अयं घट इति प्रत्यक्षे घटत्वप्रकारकेदविशेष्य के समवायोऽपि संसर्गतया भासत इति समवायस्यापि तत् प्रत्यक्षं भवति, न च ततः प्राग् घटत्वेन घटस्य सम्बन्धिनः प्रत्यक्षं समस्ति यत् कारणं भवेदिति सम्बन्धिप्रत्यक्षमन्तराऽपि ससम्बन्धिकसमवायज्ञानस्य भावेन व्यभिचाराभिरुक्तकार्य कारणभावस्थासम्भवादित्यर्थः । नन्वयं घट इति प्रत्यक्षे समवायः संसर्गतयैव भासते न नित्यसम्बन्धत्वलक्षणसमवायत्वेन, निरुक्तसमवायस्वेनैव च तस्य ससम्बन्धिकपदार्थस्वमतस्तेन रूपेण तत्प्रत्यक्षत्वावच्छिन्नं प्रत्येव सम्बन्धिज्ञानस्य हेतुत्वादयं घट इति प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचार इत्याशङ्कते - अथेति । तेन रूपेण समवायत्वेन रूपेण । तत्प्रत्यक्षे समवाय प्रत्यक्षे । तस्य सम्बन्धिज्ञानस्य । समाधत्ते-नेति । तथापि उक्तप्रकारेण कार्यकारणभावाश्रयणेनायं घट इति समवाय प्रत्यक्षे व्यभिचारपरिहारेऽपि । "ससम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन " इत्यस्य स्थाने " ससम्बन्धिकतावच्छेदकप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन " इति पाठो युक्तः । सम्बन्धिमात्रेति तथा च ससम्बन्धिपदार्थवृत्तिप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धिवृत्तिप्रकारकज्ञानत्वेन कारणत्वमित्यत्रैवोक्त कार्यकारणभावपर्यवसानम्, सम्बन्धत्वस्य ससम्बन्धिसमवाय मात्रवृत्तित्वाभावात् संसर्गस्य संसर्गतयैव मानम् तद्विशेषणस्य विशेषणत्वमेव न प्रकारत्वमिति सम्वन्धत्वस्यायं घट इति प्रत्यक्ष प्रकारत्वाभावात् ससम्बन्धिकसमवायमात्रवर्तिनः समवायत्वस्यापि तत्र प्रकारत्वाभावादयं घट इति समवाय प्रत्यक्षस्य कार्यतावच्छेदकघर्मानाकान्तत्वात् तत्र व्यभिचारः परिहृत एव भवति । वह्नितॄणयोः कार्यकारणभावे तृणनिष्टकारणताया आश्रयतया सम्बन्धि तृणं निरूपकतया वह्निव्यक्तिर्न तु वह्निमात्रं व्यभिचारेण तृणनिष्ठकारणताया वह्निनात्रनिरूपितत्वाभावात् एवं च निरुक्तकारणताप्रत्यक्ष मियं वहिव्यक्तिस्तृणजन्येत्याकारकं तस्य तृणकार्यताश्रयवह्निव्यक्तिरूपसम्बन्धिमात्रवृत्त्येतद्वह्नित्वप्रकारक ज्ञानजन्यत्वेन व्यभिचाराभावादित्याह - प्रकृते चेति । इयं वहिव्यक्तिस्तृणजन्येति वहि-तृणयोः कार्यकारणभावप्रत्यक्षं तृणत्वावच्छिन्नकारणतानिरूपितैतद्वद्वित्वावच्छिन्नकार्यतावती वह्निव्यक्तिरिय मिस्याकारकत्वेन तृगनिरूपितवह्निनिष्ठकार्यतायामेतद्वह्नित्वावच्छिन्नत्वस्याभावेऽप्येतद्वह्रित्वावच्छिन्नत्वस्यावगाहनात् तदेशे भ्रमत्वेऽप्येतद्वह्निव्यतौ तृणनिरूपित कार्यतायाः सत्त्वात् तदंशे प्रमात्मकमेव, तस्य च वह्निनिष्ठयक्तित्वप्रकारकज्ञानजन्यत्वमस्त्येवेति न कश्चिद् दोष इति कल्पान्तरमाह- यद्वेति । ननु तृणसत्त्वे एतद्वद्विसत्त्वं तृणाभाव एतद्वहृयभाव इत्येवमन्वयव्यतिरेकप्रहो नात्र सम्भवति एतद्वह्निव्यक्तेरपूर्वत्वेन तस्याः कदाचिदपि पूर्व तृणतोऽभावाद् वढ्धन्तरस्य तृणान्तरात् पूर्वं भावेऽपि तत्रैतद्वह्रित्वस्याभावादिति नैतद्वह्रित्वेन तृणत्वेन कार्यकारणभावग्रहः सम्भवति, तृणजन्यवह्निमात्रवर्तिवद्वित्वावान्तरजातेश्च नान्वयव्यतिरेकग्रह प्रकारत्वमिति न तया कार्यकारणभावकल्पना युक्तेति तृणा-ऽरणि-मणिष्वेका वचनुकूला शक्तिरस्ति, तयैव तृणादीनां वहित्वावच्छिन्नं प्रति कारणत्वमिति तृणनिष्ठनिरुक्तशक्त्यवच्छिन्नकारणतानिरूपित कार्यतावच्छेदकं वह्नित्वमेवेत्या रेकते - अथेति । " अथान्वयव्यतिरेकाग्रद्दाप्रकारकजात्या ' इत्यस्य स्थाने " अथान्वयव्यतिरेक हा प्रकारजात्या " इति पाठो युक्तः, तथाकल्पनाऽनौचित्यं वाप्रत्यक्षीभूतस्य बह्नित्वावान्तरजातित्रयस्य कल्पने गौरवादेव । तथाभूतशक्त्या अन्वयव्यतिरेकप्रहाप्रकारीभूत तृणारणिमण्यनुगतवह्वयतु " ३७०

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274