Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
३७१
कल्प्यतां लाघवात् इति चेत् ? न- तृणादेः फूत्कारादिसहकारिनियमानुपपत्तेर्मणिफूत्कारादिनापि वह्नयाद्युत्पत्तिप्रसङ्गात्, तथा च फूत्कारादिजन्यविजातीयवहौ तृणवादिना हेतुत्वस्यावश्यकत्वात् , न च तृणफूत्कारादिसंयोगेष्वेव शक्तिरिति न तन्नियमानुपपत्तिः, तर्हि तृणत्वादिना तृणादीनामहेतुत्वेऽकारणत्वेनैव सामयिकशक्तिविशेषकल्पनप्रसङ्गात्, तथाभूताभावविशेषस्यैव वा तत्रौचित्यान्नायमपि । वह्नौ जातिभेदस्यानुभविकत्वादेव तत्तदवच्छिन्ने तृणत्वादिना हेतुत्वमित्यन्ये, वशित्वावच्छिन्ने विलक्षणोकूलशक्त्या । लाघवादिति- तथाभूता शक्तिरेकैवेत्यनेकजातिकल्पनाऽपेक्षयकशक्तिकल्पने लाघवादित्यर्थः । फूत्कार सहकृतात् तृणादेव वहयुत्पत्तिनिर्मन्थनसहकृतादरणेरेव वधुत्पत्तिः सूर्यकिरणसंयोगसहकृतान्मणेरेव वहयुत्पत्तिरिति तृणादेः फूत्कारायेव सहकारीति नियमो न भवेत् , फूत्कारादीनां वड्यनुकूलशक्तिमत एवं सहकारित्वेन फूत्कारसचिवारण्यादितोऽपि वह्निरुत्पद्ये तेति समाधत्ते-नेति । तथा च वहिं प्रत्येकशक्तिमत्त्वेन तणादीनां कारणत्वस्य कल्पयितमशक्यत्वे च ।। पदान्निर्मन्थनरविकिरणसंयोगयोरुपग्रहः, तृणस्वादिनेत्यत्रादिपदादरणित्वमणित्वयोरुपग्रहः, एवं च फूत्कारजन्यविजातीयवाद प्रति तृणत्वेन तृणस्य, निर्मन्यनजन्यविजातीयवति प्रति अरगित्वेनारणेः, तरणिकिरणप्रतिफलन जन्यविजातीयवहि प्रति मणित्वेन. मणेश्च हेतुत्वस्याऽऽवश्यकत्वादित्यर्थः । ननु तृणफूत्कारसंयोगे निर्मन्थनारणिसंबन्धे तरणिकिरणमणिसंयोग च वड्यनु. कूलशक्तिरेकोपेयते, तादृशशक्तिमत्त्वेन तृणफूत्कारसंयोगादीनां वहिं प्रति कारणत्वे नोक्तदोषप्रसङ्ग इत्याशङ्कय प्रतिक्षिपतिन चेति। न तन्नियमानुपपत्तिः न सहकारिनियमानुपपत्तिः। यत् कारणं तत् कार्यानुकूलशक्तिमत् , यच्च न कारणं न तत् कार्यानुकूलशक्तिमदिति कार्यकारणेषु कार्यानुकूलशक्वेरिव कार्याकारणेषु कार्याननुकूलशक्तरपि स्वसमयसिद्धायाः कल्पनं स्याद, एवं च सुणत्वादिना तृणादीनां वहिकारणत्वाभावे तेव्वकारणत्वेन स्वसमयसिद्धस्य शक्तिविशेषस्य कल्पन प्रसज्येतेति समाधत्ते- तीति ! तथाभूतति- तृणफूत्कारसंयोगभिन्नत्वे सति अरणिनिर्मन्धनसम्बन्धभिन्नत्वे सति तरणिकिरणसंयोगभिन्नो यस्तद्भिन्नत्वरूपान्यतमत्वात्मकाभावविशेषस्यैव वा तत्र तृणफूत्कारसंयोगादिषु वहिकारणतावच्छेदकतया कल्पनौचित्य प्रसङ्गादित्यर्थः । भवत्वन्यतमत्वेनैव कारणत्वं किं नश्छिन्नमित्यत आह- नायमपीति- अन्यतमत्वेन कारणस्वमपि न सम्भवति, अन्यतमत्वस्य भेदकूटावच्छिन्नभेदरूपतया तत्र कूटत्वस्यकविशिष्टापरत्वात्मकत्वेन विशेष्य-विशेषणभावे विनिगमनाविरहादन्यतमत्वस्यानेकरूपतया तदवच्छिन्न कारणवस्याप्यनेकत्वप्रसङ्गादित्यर्थः। एवं च पहित्वावान्तरजातित्रयस्य प्रत्यक्षसिद्धस्यैव तणादिजन्यतावच्छेदकत्वमिति विजायतीयवहित्वावच्छिन्नं प्रति तृणत्वेन, विजातीयवहित्वावच्छिनं प्रति अरणित्वेन, विजातीयवाहित्वावच्छिन्नं प्रति मणित्वेन कारणत्वमित्येवं कार्यकारणभावत्रयकल्पनमेव ज्याय इत्याइवहौ जातिभेदस्यति । अन्ये इति- उदयनाचार्याः, तथा च तन्द्रथः- "फूत्कारेण तृणादेरेव, निर्मन्थनेनारणेरैव.. प्रतिफलिततरणिकिरणैर्मणेरेवेति प्रकारनियमवत् तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् , दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरच्यापकमालोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो नितरां च कारीषः । यस्तु तं नाकलयेत् स कार्यसामान्येन कारणमात्रमनुमिनुयादिति किमनुपपन्नम् , एवं तर्हि धूमादावपि कश्चिदनुपलक्षणीयो विशेषः स्यात् , यस्य दहनापेक्षेति न धूमादिसामान्याद् वह्निसामान्यादिसिद्धिः, एतेन व्यतिरेको व्याख्यातः, तथा च कार्यानुपलब्धि. लिङ्गभङ्गे स्वभावस्याप्य सिद्धेर्गतमनुमानेनेति चेत् ? प्रत्यक्षानुपलम्भगोचरो जातिभेदो न कार्यप्रयोजक इति वदतो बौद्धस्य शिरस्येष प्रहारः, अस्माकं तु यत्सामान्याकान्तयोर्ययोरन्वय-व्यतिरेकवत्ता तयोस्तथैव हेतुहेतुमद्भावनिश्चयः, तथा चावान्तरविशेषसद्भावेऽपि न नो विरोधः, किं पुनस्तार्णादौ दहनसामान्यस्य प्रयोजक तृणादीनां विशेष एव नियतत्वादिति चेत् ? तेजोमात्रोत्पत्तौ पवनो निमित्तम्, अवयवसंयोगोऽसमवायी, तेजोऽवयवाः समवायिनः, इयमेव सामग्री गुरुत्ववद् द्रव्यसहिता पिण्डितस्य, इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम् , तत्रापि जलं प्राप्य दिव्यम् , पार्थिवं प्राप्य भौमम् , उमय प्राप्यौदर्यमारभत इति स्वयमूहनीयमिति ।” अनन्तरमुल्लिखिते उदयनाचार्यप्रन्थ एव "इयमेव तेजोगतमुद्भूतस्पर्शमपेक्ष्य दहनम्" इत्युक्त्या प्राचीननैयायिकानामुदयनाचार्यप्रभृतीनामेव मतमेतत्, यदुत- वहित्वावच्छिन्ने विलक्षणोष्णवत्तेजः कारणमिति, युक्तं चैतत्, अन्यमतोपदर्शने वहिवावान्तरजात्यवच्छिन्ने तृणत्वादिना कारगत्वोपदर्शनेऽपि वह्नित्वावच्छिन्ने

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274