Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 228
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो नयोपदेशः । on . " कालो सहावणियई पुवकयं पुरिसकारेणेगन्ता । मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं ॥" [सम्मति, का. ३, गाथा-५३ ] . न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शङ्कनीयम् , तथापदार्थकुनावेवेतरकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योऽन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिद्भयप्रदर्शकस्वात् , अत एव-"जं जहा भगवया दिदं तं तहा विपरिणमइ" [ इति भगव. द्वचनं सुष्टु सङ्गच्छते, तथापदेनैव तत्रेतरकारणोपसङ्ग्रहात्, इत्थमेव सर्वत्र दृष्ट्रा-दृष्टकारणात्मकपुरुष. दैवजन्योक्तिरपि न्याय्यैव, तदिदमुक्तं हरिभद्रसूरिभिः"तहमवत्तं जं काल-णियइ-पुवकय पुरिस-किरियाओ। आखिवइ तहसहावं ता तदधीणं तथं पि भवे ॥१॥ एवं जेणेव जहा होयचं तं तहेव होइ त्ति । ण य दिवपुरिसकारा वि हंदि एवं विरुज्झन्ति ॥ २॥" [बीजादिविंशतिकायाम् ] __ यद्येवं सर्वत्र दैव-पुरुषकारोभयव्यापारस्तदा किञ्चित् कार्य दैवजन्यमेव किञ्चिच्च पुरुषकारजन्यमेवेति विभागः सार्वजनीनः कथमिति चेत् ? कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे तद्विभागः, अन्यतरस्वल्प-बहुव्यापारवत्वस्यैव नियामकत्वकल्पनादिति गृहाण, स्वल्प-बहुव्यापारवत्वं चानुत्कटोत्कटकारणं पूर्वकृतमेव कारणं पुरुषकार एक कारणमित्येवमेककारणपरिशेवपक्षस्य चेत्यर्थः । पञ्च कारणाभ्युपगमपक्षस्य सम्य. स्वम् , एककारणपरिशेषपक्षस्य व मिथ्यात्वमित्यत्र संमति गाथासंवादमाह - तदाहुरिति । आचार्याः सिद्धसेनदिवाकर. सूरयः । कालो० इति-"कालः स्वभावो नियतिः पूर्वकृतं पुरुषकार इत्येकान्ताः । मिथ्यात्वं ते एव समासतो भवन्ति सम्यक्त्वम् ॥" इति संस्कृतम् । न चेत्यस्य शकुनीयमित्यनेनान्वयः। तथाभव्यत्वेनैव तथाभव्यत्वलक्षणकारणेनैव । इसरान्यथासिद्धेः तथाभव्यत्वभिन्न कारणानामन्यथासिद्धत्वात् । समुदायपक्षः समुदितकालादिपञ्चकं कारणमिति पक्षः । अनतिप्रयोजनः न किञ्चित्प्रयोजनकः । निषेधे हेतुमाह- तथेति- तथाभव्यत्वघटक यत् तथापदं, तदर्थकुक्षावित्यर्थः । न च तत्र तथाशकोऽन्यकारणान्यथासिद्यपदर्शकः किन्तु कार्यव्यक्तिविशेषस्य भव्यत्वनिरूपकस्य परिवायकः, व्यक्तिविशेषरूपकार्य-मव्यत्वरूपकारणयोरितरकारण भव्यत्वात्मककारणयोश्च परस्परव्याप्तेः, तथाभव्यत्वं यत्र तत्र निरुक्तकार्यव्यक्तिः, निरुक्तकार्यव्यक्तियत्र तत्र तथामव्यवम्' इति । 'तथाभव्यत्वं यत्र तत्रान्याखिलानि कारणानि, यत्रान्यान्यखिलानि कारणानि तत्र तथाभव्यत्वमित्याकारायाः परिचायक श्चेत्याह-व्यक्तिविशेषेति । तस्य तथाशब्दस्य । उक्तार्थ भगवदचनं प्रमाणयति- अत एवेति- अस्य सङ्गच्छते' इत्यनेनान्वयः। जे. इति- "यद् यथा भगवता दृष्टं तत् तथाविपरिणमति" इति संस्कृतम्। तथापदेनैवेति- तथा विपरिगमतीत्यत्रोतनथापदेनवेत्यर्थः । इत्थमेव उक्त प्रकारेणैव । अत्र श्रीहरिभद्रसूरिक्चनं प्रमाणयति- तदिदमुक्तमिति । तहमवत्तमिति- " तथाभव्यत्वं यत् काल-निर्यात-पूर्वकृत-पुरुषकारादीन् । आक्षिपति तथास्वभावं तत् तदीनं तदपि भवेत् ॥ एवं यनव यथा भवितव्य तत् तथैव भवतीति । न च दैव-पुरुषकारा अपि हन्दि एवं विद्धयन्ते ॥” इति संस्कृतम्। पृच्छति- यद्येवमिति । उत्तरयति- कार्यत्वावच्छेदेनेति । तयोः देव-पुरुषकारयोः। तद्विभागः किञ्चित् कार्य देवजन्यमेव, किञ्चिच पुरुषकारजन्यमेवेति विभागः । नन्वेवं कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे सर्व कार्य दैवजन्यं पुरुषकारजन्यं चेति सुतरां तद्विभागोऽसङ्गत इत्यत आई- अन्यतरेति-देव-पुरुषकारयोरन्यतरस्मिन् यत् स्वल्पबहुव्यापारवत्त्वं तस्यैव तद्विभागे नियामकत्वस्य कल्पनादिति जानीहि, अर्थाद् यस्मिन् कार्ये देवस्य स्वल्पव्यापारः पुरुषकारस्य बहुव्यापारस्तत् कार्य पुरुषकारजन्यमेवेति, यस्मिन् कार्ये तु पुरुषकारस्य स्वल्पव्यापारो देवस्य बहुव्यापारस्तत्कार्य दैवजन्यमेवेसेवं विभागस्तयोः कार्यत्वावच्छेदेन कारणत्वप्रहेऽपि सम्भवतीत्यर्थः । अस्मिन् कार्ये देवस्य बहुव्यापारवत्वं पुरुष कारस्थाल्पम्यापारवत्त्वमिति, एतस्मिन् कायें पुनः पुरुषकारस्य बहुव्यापारवत्वं देवस्य व स्वल्पव्यापारवत्त्वमिति केन प्रमाणेन कल्प.

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274