________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो नयोपदेशः ।
on
.
" कालो सहावणियई पुवकयं पुरिसकारेणेगन्ता । मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं ॥"
[सम्मति, का. ३, गाथा-५३ ] . न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शङ्कनीयम् , तथापदार्थकुनावेवेतरकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योऽन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिद्भयप्रदर्शकस्वात् , अत एव-"जं जहा भगवया दिदं तं तहा विपरिणमइ" [
इति भगव. द्वचनं सुष्टु सङ्गच्छते, तथापदेनैव तत्रेतरकारणोपसङ्ग्रहात्, इत्थमेव सर्वत्र दृष्ट्रा-दृष्टकारणात्मकपुरुष. दैवजन्योक्तिरपि न्याय्यैव, तदिदमुक्तं हरिभद्रसूरिभिः"तहमवत्तं जं काल-णियइ-पुवकय पुरिस-किरियाओ। आखिवइ तहसहावं ता तदधीणं तथं पि भवे ॥१॥ एवं जेणेव जहा होयचं तं तहेव होइ त्ति । ण य दिवपुरिसकारा वि हंदि एवं विरुज्झन्ति ॥ २॥"
[बीजादिविंशतिकायाम् ] __ यद्येवं सर्वत्र दैव-पुरुषकारोभयव्यापारस्तदा किञ्चित् कार्य दैवजन्यमेव किञ्चिच्च पुरुषकारजन्यमेवेति विभागः सार्वजनीनः कथमिति चेत् ? कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे तद्विभागः, अन्यतरस्वल्प-बहुव्यापारवत्वस्यैव नियामकत्वकल्पनादिति गृहाण, स्वल्प-बहुव्यापारवत्वं चानुत्कटोत्कटकारणं पूर्वकृतमेव कारणं पुरुषकार एक कारणमित्येवमेककारणपरिशेवपक्षस्य चेत्यर्थः । पञ्च कारणाभ्युपगमपक्षस्य सम्य. स्वम् , एककारणपरिशेषपक्षस्य व मिथ्यात्वमित्यत्र संमति गाथासंवादमाह - तदाहुरिति । आचार्याः सिद्धसेनदिवाकर. सूरयः । कालो० इति-"कालः स्वभावो नियतिः पूर्वकृतं पुरुषकार इत्येकान्ताः । मिथ्यात्वं ते एव समासतो भवन्ति सम्यक्त्वम् ॥" इति संस्कृतम् । न चेत्यस्य शकुनीयमित्यनेनान्वयः। तथाभव्यत्वेनैव तथाभव्यत्वलक्षणकारणेनैव । इसरान्यथासिद्धेः तथाभव्यत्वभिन्न कारणानामन्यथासिद्धत्वात् । समुदायपक्षः समुदितकालादिपञ्चकं कारणमिति पक्षः । अनतिप्रयोजनः न किञ्चित्प्रयोजनकः । निषेधे हेतुमाह- तथेति- तथाभव्यत्वघटक यत् तथापदं, तदर्थकुक्षावित्यर्थः । न च तत्र तथाशकोऽन्यकारणान्यथासिद्यपदर्शकः किन्तु कार्यव्यक्तिविशेषस्य भव्यत्वनिरूपकस्य परिवायकः, व्यक्तिविशेषरूपकार्य-मव्यत्वरूपकारणयोरितरकारण भव्यत्वात्मककारणयोश्च परस्परव्याप्तेः, तथाभव्यत्वं यत्र तत्र निरुक्तकार्यव्यक्तिः, निरुक्तकार्यव्यक्तियत्र तत्र तथामव्यवम्' इति । 'तथाभव्यत्वं यत्र तत्रान्याखिलानि कारणानि, यत्रान्यान्यखिलानि कारणानि तत्र तथाभव्यत्वमित्याकारायाः परिचायक श्चेत्याह-व्यक्तिविशेषेति । तस्य तथाशब्दस्य । उक्तार्थ भगवदचनं प्रमाणयति- अत एवेति- अस्य सङ्गच्छते' इत्यनेनान्वयः। जे. इति- "यद् यथा भगवता दृष्टं तत् तथाविपरिणमति" इति संस्कृतम्। तथापदेनैवेति- तथा विपरिगमतीत्यत्रोतनथापदेनवेत्यर्थः । इत्थमेव उक्त प्रकारेणैव । अत्र श्रीहरिभद्रसूरिक्चनं प्रमाणयति- तदिदमुक्तमिति । तहमवत्तमिति- " तथाभव्यत्वं यत् काल-निर्यात-पूर्वकृत-पुरुषकारादीन् । आक्षिपति तथास्वभावं तत् तदीनं तदपि भवेत् ॥ एवं यनव यथा भवितव्य तत् तथैव भवतीति । न च दैव-पुरुषकारा अपि हन्दि एवं विद्धयन्ते ॥” इति संस्कृतम्। पृच्छति- यद्येवमिति । उत्तरयति- कार्यत्वावच्छेदेनेति । तयोः देव-पुरुषकारयोः। तद्विभागः किञ्चित् कार्य देवजन्यमेव, किञ्चिच पुरुषकारजन्यमेवेति विभागः । नन्वेवं कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे सर्व कार्य दैवजन्यं पुरुषकारजन्यं चेति सुतरां तद्विभागोऽसङ्गत इत्यत आई- अन्यतरेति-देव-पुरुषकारयोरन्यतरस्मिन् यत् स्वल्पबहुव्यापारवत्त्वं तस्यैव तद्विभागे नियामकत्वस्य कल्पनादिति जानीहि, अर्थाद् यस्मिन् कार्ये देवस्य स्वल्पव्यापारः पुरुषकारस्य बहुव्यापारस्तत् कार्य पुरुषकारजन्यमेवेति, यस्मिन् कार्ये तु पुरुषकारस्य स्वल्पव्यापारो देवस्य बहुव्यापारस्तत्कार्य दैवजन्यमेवेसेवं विभागस्तयोः कार्यत्वावच्छेदेन कारणत्वप्रहेऽपि सम्भवतीत्यर्थः । अस्मिन् कार्ये देवस्य बहुव्यापारवत्वं पुरुष कारस्थाल्पम्यापारवत्त्वमिति, एतस्मिन् कायें पुनः पुरुषकारस्य बहुव्यापारवत्वं देवस्य व स्वल्पव्यापारवत्त्वमिति केन प्रमाणेन कल्प.