________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समाहतो मयोपदेशः ।
ar
न्तरग्रहस्तासामेव वा विशेषव्याप्तीनां वतिनिरूपितधूमनिष्ठव्याप्तित्वेनानुगतीकृतानां धूमत्ववतित्वावच्छेदेन ग्रहः कारणमास्थीयत इत्येतावत् , एवमिहाप्यसिद्धसाध्यविशेषाय साधनविशेषे प्रवर्त्तमानस्य तत्तद्व्यक्ति विशेषावच्छिन्न कार्यकारणभावग्रहः सम्भवतीति सामान्यावच्छेदेन कारणताग्रहप्रवृत्त्यर्थमिष्यते, न तु प्रतिव्यक्तिविशेषकारणत्वं त्यज्यते । अत एव गङ्गेशेनापि तत्तन्नतित्वेन तत्तद्विघ्नध्वंसे हेतुत्वमुक्तमित्यनु. पपत्त्यभावात् ! केवलमेकत्रर्जुसूत्रादिशुद्धनयस्य अपरत्र व्यवहारनयस्य प्रवृत्तिः, व्यवहारे च “ जो तुलसाहणाणं" [
] इत्यायुक्तोपपत्त्या पूर्वकृतस्यानन्यथासिद्धस्यान्वय-व्यतिरेकाभ्यां पूर्वपुरुषकारस्य च हेतुत्वमिष्यते, पुरुषकारपदं च स्व-स्वविषयान्यतरपरतया दण्डादेरप्युपलक्षणमिति न तद साह, तथा च सकलनयदृष्ट्या मुद्पत्यादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सातिमङ्गति, तत्पक्षस्य सर्वन यमत्वेन सम्यगुरूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिध्यारूपस्वात् , तदाहुराचार्याःव्याप्तित्वेन ग्रहो न सम्भवतीत्यतः- वह्निनिरूपितेति- वहिनिरूपिता धूमनिष्ठा या व्याप्तिः । तत्र वह्नित्वेन सर्वेषा वहिनां धूमत्वेन सर्वेषां धूमानामनुगमनात् सर्वा अपि तत्तद्वहिनिरूपितास्तत्तद्धमनिष्ठा व्याप्तय इति तत्वेन तादृशव्याप्ति. त्वेनानुगतीकृतानामेकीकृतानाम् , यद्यपि तत्तद्वयातित्वेन तासां तत्तद्वयक्तिष्वेव सत्त्वतो धूमत्व-वहिरवावच्छेदेन ग्रहो न सम्भवति तथापि यद्रुपेणकीकृतास्तास्तद्रपेण तासां धूमत्व-वह्नित्वावच्छेदेन प्रहः सम्भवतीति तथाग्रहः कारणमास्थीयते स्वीक्रियते इति । एवं चोक्कदिशा प्रकृते इष्टसाधनस्वग्रहः सम्भवतीति ततः साध्यविशेषार्थ साधनविशेषे प्रवृत्तिः सम्भवतीत्याह- एवमिहापीति । “ग्रहप्रवृत्यर्थ" इत्यस्य स्थाने "प्रहः प्रवृत्त्यर्थ'' इति पाठो युक्तः । न स्वित्यस्य त्यज्यत
न्वयः, प्रवृत्त्यर्थ सामान्यावच्छेदेन कारणताग्रहस्य स्वीकारेऽपि प्रतिव्यक्तिविशेषकारणत्वं न तु त्यग्यते इत्यर्थः । विशेषरूपेण कार्यकारणभावे चिन्तामणिकृत्सम्मतिमुपदर्शयति-अत एवेति-विशेषरूपेण कार्यकारणभावस्याभ्युपगमादेवेत्यर्थः । गलेशेनापि चिन्तामणिकृता ग शोपाध्यायेनापि, अस्योक्तमित्यनेनान्वयः। एवं सति चिन्तामणिकृन्मतर्जुसूत्रमतयोः को विशेष इत्यपेक्षायामाह-केवलमिति- एकत्र तत्तत्क्षणत्वेन हेतुत्वमिति कालत्वेन हेतुत्वमिति प्रागभावसमवाथिकारणविधया हेतुत्वमिति तथाभव्यत्वस्य तत्तकार्य प्रति हेतुत्वमिति च मतेषु । ऋजुसूत्रादीति- आदिपदात् संग्रहैवम्भूतनययोः परिग्रहः । अपरत्र सामान्यतोऽपि च कार्यकारणभावो विशेषतोऽपि च कार्यकारणभाव इति चिन्तामणिकृन्मते। व्यवहारे चेत्यस्य हेतुत्वमिष्यते इत्यनेनान्वयः । जो तुल्ल० इति- “ यस्तुल्यसाधनानाम् ' इति संस्कृतम् । इत्याधुक्तोपपत्त्या इस्याद्यागमोक्तोपपत्तितः । पूर्वकृतस्येत्यस्य हेतुत्वमित्यनेनान्वयः, 'पूर्वजन्मार्जितं कर्म देवमित्यभिधीयते' इत्यादिवचनाद् दैवापराभिधानस्य पूर्वजन्मार्जितस्य पुण्य-पापान्यतरात्मकस्य कर्मण इत्यर्थः । तस्य नियतपूर्ववर्तित्वं निर्विवादमेवानन्यथासिद्धत्वमपि तस्येत्यावेदनाय तद्विशेषणम् -- अनन्यथासिद्धस्येति । एवं चानन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वलक्षणं कारणत्वं तत्र सङ्गतिमञ्चतीति पूर्वकृतस्य कर्मणोजीन्द्रियत्वात् तत्रोक्तदिशैव कारणत्वलक्षणाक्रान्तत्वात् कारणत्वम्, पुरुषकारस्य तु प्रयत्नविशेषरूपस्य प्रत्यक्षविषयत्वात् तत्रान्वय-व्यतिरेकयोः सम्भवेन ताभ्यामप्यवधार्यते कारणत्वमित्याशयेनाह- अन्वय-व्यतिरेकाभ्यामिति कार्याव्यवहितपूर्ववर्तिन एव पुरुषकारस्य कारणत्वमित्यावेदनाय पूर्वेति । ननु दैव-पुरुषकारयोरेवेत्थं कारणत्वमायाति न तु दण्डादेरित्यत आह-पुरुषकारपदं चेति। स्व-स्वविषयान्यतरपरतयेत्यत्र स्वपदं स्वसम्बन्धिपरम् , प्रयत्न विशेषश्च पुरुषकारपदस्य वाच्यत्वात् सम्बन्धी भवतीति स्वं प्रयत्नविशेषः, स्वविषयश्च प्रयत्नविशेषविषयश्च तदन्यतरपरतयेत्यर्थः । न तदसङहान दण्डादेरसङ्ग्रहः । पञ्चकारणीतिपश्चाना कारणानां समाहारः पन्चकारणी, काल स्वभाव नियति-पूर्वकृत-पुरुषकारभेदेन पञ्चकारणानि । तत्पक्षस्य सिद्धान्तसिद्धपचकारणाभ्युपगमपक्षस्य । पककारणपरिशेषपक्षस्य चेति- काल एव कारणे स्वभाव एव कारणं नियतिरेव