________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
प्रवादस्य सङ्ग्रहनयाभिप्रायेणैव समर्थयितुं शक्यत्वात् , तथा च देशतया कालतया चैकस्यैवाहेतुत्वं लाघवादयुक्तमित्येवम्भूतमयाभिप्रायेण ताहगवस्थं भव्यस्वमेव तथाभव्यत्वनामशालि ताशतत्तत्कार्यजनकमवश्यमास्थेयम् , इस्थमेव सकलातिप्रसङ्गभङ्गसम्भवात् । अथैवमतिविशेषेण कार्यकारणभाव. विश्रामे असिद्धसाध्यविशेषार्थ [ साधनविशेषार्थ ] साधनविशेष प्रवृत्त्यनुपपत्तिस्तादृशतव्यक्तिविशेषावच्छिन्नकारणतायाः पूर्व दुर्महत्वात् , इष्टसाधनताज्ञानस्य च प्रवृत्ति हेतुत्वादिति चेत् ? मैवम्- कार्य कारणभावो हि व्याप्तिविशेष एव, सा च सामान्यतो विशेषतश्चास्त्येव किन्त्वगृहीत साध्यसाधनविशेषावछिन्नायास्तस्या अबुभुक्षितानुमानस्थले दुर्घहत्वेनानुमित्यप्रयोजकतया सामान्यावच्छिन्नव्याय. "चैकस्यैवाहतुवं" इत्यस्य स्थाने " चैकस्यैव हेतुत्वं " इति पाठो युक्तः, लाघवाद् देशतया कालतया चैकस्यैव हेतुत्वं यत् सङ्कहनयाभिप्रेतं तद्युक्तमित्याकारको य एवम्भूतनयाभिप्रायस्तेनेत्यर्थः। तादृगवस्थं यद् यदा यद्यद्वयुत्पत्तिनिमितक्रियाविष्टयावद्धर्मशालि तथाभूततावद्धर्माकान्ततस्यक्ति प्रति तथाभूततावद्धर्मविशिष्टतद्वयक्तिनिरूपितम्। ननु तादृगवस्थं भव्यत्वं कार्यजनकमितीदानीमुपेयते पूर्व तु तथाभव्यत्वं कार्यजनकमिति प्रतिज्ञातमिति भेदान्न तन्निगमनमित्यत आह-तथाभध्यत्वनामशालीति एवं च ताहगवस्थभव्यत्वस्यैव तथामव्यत्वमिति नामेति भवति तन्निगमनमिति । तारशतत्तत्कार्यजनक तथाभूततावद्धर्माकान्ततत्तद्वयक्त्यात्मककार्यजनकम् । इत्थमेव नैगमनयाभिप्रायेणातिविशेषरूपेण कारणत्वपर्यवसायितथाभव्यत्वकारणत्वसमर्थनेनैव । सकलातिप्रसङ्गमङ्गसम्भवादिति- कायक्य-कार्यककालत्व-कायैकदेशस्वादिप्रसङ्गमङ्गसम्भवादित्यर्थः । परः शकते- अथेति । एवम् एवम्भूतनयाभिप्रायेण तथाभव्यत्वकारणत्वस्याश्रयणे । अतिविशेषणेति- यतः परं विशेषान्तरं न समस्ति स स्वापेक्षया विशेषान्तराभावेन विशेषमतिकान्तत्वादतिविशेषोऽन्त्यविशेष इति यावत् , तेनेत्यर्थः । कार्यकारणभावविश्रामे तत्तव्यक्ति प्रति तत्तयक्तिनिरूपिततथाभव्यत्वकारणत्वस्यान्त्यविशेष. रूपेण कार्यकारणभाव एव पर्यवसाने । असिद्धसाध्यविशेषार्थ तत्तद्वयक्तिरूपकार्यमपूर्वमेव जायते, तत् प्रति कारण विशेषस्यान्वय-व्यतिरेकाग्रहान्न स कार्यविशेषः कारणविशेषस्य कार्यतया सिद्धो निश्चित इत्यसिद्धसाध्यविशेषस्तदर्थ तदु. स्पत्यर्थम् । साधनविशेषे यस्य साधनविशेषस्य तत्कार्यविशेष प्रति कारणत्वं न निश्चितं तस्मिन् कारणविशेषे। प्रवृत्त्यनपपत्तिः तदानयनाद्यनुकूलयत्नानुपपत्तिः । कुतस्तत्र प्रवृत्त्यनुपपत्तिरित्यपेक्षानिवृत्त्यर्थं तत्र हेतुमाह- तादृशेति- विशेषातिक्रान्तेत्यर्थः । “तद्वयक्तिविशेषावच्छिन्नकारणताया।" इत्यस्य स्थाने " तद्वयक्तिविशेषावच्छिन्न कार्यतानिरूपिततद्वपक्तिविशेषावच्छिन्नकारणतायाः " इति पाठो युक्तः, भवतु ताशकारणताया दुर्ग्रहत्वं तेन कस्य प्रवृत्तिकारणस्याभावात् प्रवृत्यनुपपत्तिरित्यत आह- इष्टसाधनताज्ञानस्य चेति । समाधत्ते - मैवमिति । हि यतः । कार्यकारणभावो व्याप्तिविशेष पवेति- यत्र यत्र धूमस्तदव्यवहितप्राक्क्षणावच्छेदेन तत्र वहिनरिति बहूर्यद्वयापकत्वं यच्च धूमस्य व्याप्यत्वं तदेव वहिन-धूमयोः कार्यकारणभाव इति भवति कार्यकारणभावस्य व्याप्तिविशेषरूपतेति । सा च व्याप्तिश्च । सामान्यतः यत्र यत्र धूमस्तत्र तत्र वहिनरिति सामान्यतो व्याप्तिः । विशेषतश्च यत्रायं धूमस्तवायं वहिनरिति विशेषतो व्याप्तिः । पृच्छति-किन्विति । उत्तरयति- अगृहीतति- अगृहीतः पूर्वमज्ञातो यः साध्यविशेष एवं साधनस्य विशेषस्तदवच्छिन्नायाः तस्या व्याप्तेः, अस्य दुर्ग्रहत्वेनेत्यनेन अनुमित्यप्रयोजकतयेत्यनेन चान्वयः । कुत्र तस्या दुर्घहत्वेनानुमित्यप्रयोजकत्वमित्यपेक्षायामाह-अबुभुक्षितानुमानस्थल इति-समान विषयत्व प्रत्यासत्त्या ज्ञानच्छयो: कार्यकारणभावाद् यस्यवश तस्यैवेच्छा भवति, विषयनिरूप्यं हि ज्ञानमिति निरूपकस्य विषयस्य ज्ञाने सत्येव निरूप्यस्य तज्ज्ञानस्य ज्ञानमित्यन्त्यः विशेषविशिष्टस्य विषयस्य पूर्वभग्रहे तद्विषयकस्य ज्ञानस्याप्य ग्रह इत्यन्त्यविशेषविशिष्टः स्वविषयकज्ञानेच्छाया अभावाद् बुभुक्षितो बोमिष्टो न भवतीत्यधुभुक्षितस्तस्यानुमानस्थले इत्यर्थः, एतेन यत्र साध्य साधनयोर्विशेषौ शब्दादिना पूर्व गृहीती. ततष तादृशविशेषविशिष्टसाध्यव्यक्तेरनुभिति, जायतामितीच्छाल क्षणाबुभुत्सा, तत्र बुभुत्सिततादृशविशेषविशिष्टसाध्यव्यक्त्यनुमानस्थले गृहीतसाध्यसाधनविशेषावच्छिन्नाया व्याप्तेः सुप्रहत्वनानुमितिप्रयोजकत्वसम्भवेन तद्रह एक कारणं न तु सामान्यावच्छिन्नपात्यन्तरग्रहः कारणमित्यावेदितं भवतीति बोध्यम् । सामान्यावच्छिन्नव्याप्यन्तरग्रह इत्यस्य कारणमित्यनेन सम्बन्धः । या अथवा । तासामेव अगृहीतसाध्यसाधनविशेषावच्छिन्नानामेव । तत्र विशेषव्याप्तीनां प्रत्येकं विशेष