________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः ।
१७९
-
-
शक्त्युबोधादिरूपकार्यदर्शनान्यथानुपपत्त्या कल्पनीयमित्यादि व्यवस्थापितं द्वात्रिंशिकाप्रकरणादावस्माभिः 1 उक्तविभागाय प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे तूभयजन्ये साङ्कथम् , तत्रापि जात्यन्तरस्वीकारे तूभय समाजे प्रत्येककार्यापत्तिवारणायैककार्येऽपराभावादिसहभावत्वकल्पने महागौरवम् , अथ देवमात्रजन्यमेतत् कार्यमित्यत्र दैवातिरिक्तोत्कटव्यापाराजन्यमित्यर्थे भवदभिमते प्रतिप्रतियोगिसिद्ध्यसिद्धिभ्यां व्याघातः इति चेत् ? न- उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना देवातिरिक्तजन्य. स्वाभावस्यैव तदर्थत्वात्, तदिदम भिप्रेत्योक्कं हरिभद्रसूरिभिःनीयमित्यपेक्षायामाह- स्वल्प-बहुव्यापारवत्त्वं चेति- यस्य चानुस्कटशक्तयुद्धोधादिरूपकार्यस्य दर्शनं तस्य च तादृशकार्यदर्शनान्यथानुपपत्त्या स्वल्पव्यापार वरवं यस्य पुनरुत्कटशक्युद्धोधादिरूपकार्यस्य दर्शनं तस्य पुनस्तादृशकार्यदर्शनान्यथानुपपत्त्या बहुव्यापारवत्त्वमित्येवं तत्कल्पनं नाप्रमाणिकमित्यर्थः । अत्र विशेषावगमार्थिभिरस्मदुपजद्वात्रिंशिकाप्रकरणादिक. मवलोकनीयमित्युपदेशाभिप्रायवान् ग्रन्थकृदाह - इत्यादि व्यवस्थापितमिति । प्रकारान्तरेण तद्विभागस्यायुक्तत्वमावे. दयति-उक्तविभागायेति- किञ्चित् कार्य दैवजन्यमेव किञ्चित् कार्य पुरुषकारजन्यमेवेति विभागार्थमित्यर्थः । प्रत्येक जन्यतावच्छेदकजाति मेदस्वीकारे देवनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरन्या, अन्या च पुरुषकारनिष्ठजनकतानिरूपितजन्यतावच्छेदिका जातिरिति स्वीकारे 1 तथास्वीकारे यत्र कायें देवनिष्ठकारणतानिरूपितकार्यतावच्छेदिकाजातिरेव तत् कार्य दैवजन्यमेव, यस्मिन् कार्ये पुरुषकारनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरेव तत् कार्य पुरुषकारजन्यमेव, यत्र तु निरुतजातिद्वयमप्यस्ति तत् कार्य दैवपुरुषकारोभयजन्यमित्येवं विभागस्य सम्भवेऽपि निरुक्तजात्योः सार्थ दुर्वारम् , तयोः परस्परात्यन्ताभावसामानाधिकरण्यस्यैककमात्रजन्ये सामानाधिकरण्यस्य चोभयजन्ये सद्भावादित्याहउभयजन्ये सार्यमिति । ननु प्रत्येकजन्यतावच्छेदकजातिद्वयादन्यैव जातिरुभयजन्येति न स्यात् सार्यमित्यत आह-तत्रापीति- उभयजन्येऽपीत्यर्थः । जात्यन्तरस्वीकारे प्रत्येककार्यमात्रवृत्तिप्रत्येकजन्यतावच्छेदकजातिद्वयभिन्नजातिस्वीकारे । तु पुनः। उभयसमाजे दैवपुरुषकारोभयसमधाने । प्रत्येक कार्यापत्तिवारणाय दैवमात्रजन्यकार्यस्य पुरुषकारमात्रजन्यकार्यस्य चोत्पत्तिवारणाय । देवमात्रजन्य कार्य प्रति देवं कारणमिति देवरूपकारणतस्तन्मात्रजन्यं कार्यमुत्पद्येत, एवं पुरुषकारमात्रजन्य कार्य प्रति पुरुषकारः कारणमिति पुरुषकाररूपकारणतः पुरुषकारमात्रजन्यं कार्यमुत्पद्यत, सम्भृतसामग्रीकत्वादित्येककार्य एकमात्रजन्यकारे, अपराभावादिसहभावत्वकल्पने यन्मात्रजन्यं कार्य तदन्य कारणाभावादेस्तत्सहकारित्वकल्पने। एवं च नोभय समाजस्थले प्रत्ये कमात्रजन्यकार्योत्पत्तिः, यतस्तत्रापरकारणाभावरूपसहकारिणोऽभावात् , यथा दैव-पुरुषकारोभयसमाजे देवमात्रजन्यकार्य अपरस्य पुरुषकारस्य पुरुषकारमात्रजन्यकारणस्याभावोऽपि सहकारिविधया कारणमिति तदभावान देवमात्रजन्य कार्योत्पत्त्यापत्तिः, किन्तु तथाकल्पने महागौरवं स्यादतस्तथाकल्पनं ने युक्त मिति भावः । शङ्कते- अथेति । “प्रतिप्रतियोमि" इत्यस्य स्थाने “सति प्रतियोगि" इति पाठो युक्तः । प्रतियोगिसिद्धयसिद्धिभ्यां व्याघात इति- देवातिरिक्तोत्कटव्यापाराजन्यमिति दैवातिरिक्तोत्कटव्यापारजन्यत्वाभाववदिति पर्यवसितरूपं तत्रोक्ताभावस्य प्रतियोगिनो देवातिरिक्तोत्कटव्यापारजन्यत्वस्य यदि सिद्धिस्तदा दैवजन्ये देवातिरिक्तोत्कटव्यापार जन्यत्वस्य सद्भावान तत्र तदभाव इति देवातिरिक्तोस्कटव्यापाराजन्यमिति ध्याहन्यते, अथ देवातिरिक्तोत्कटव्यापारजन्यत्वस्य न सिद्धिस्तदा देवातिरिक्तोत्कटव्यापारजन्यत्वरूपप्रतियोगिनोऽसिद्धया तदभावस्याप्यसिद्धिरिति तद्वदपि न किञ्चित् सम्भवती. स्येवमपि देवातिरिक्तोत्कदव्यापारजन्यमिति व्याहन्यत इत्यर्थः । समाधत्ते-नेति । "उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना" इत्यस्य स्थाने "उत्कटव्यापारसम्बन्धावच्छिन्नजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेन" इति पाठः समीचीनः । एवं च कार्यतावच्छेदन दैव पुरुष कारयोः कारणत्वे यद् देवमात्र जन्यतयाऽभिमते तदपि पुरुषकारजन्य भवत्येव, किन्तु तत्र पुरुषकार जन्यत्वमनुत्कटल्यापारसम्बन्धावच्छिन्नपुरुषकारनिष्ठजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेनैवेति तत्र दैवातिरिक्तजन्यत्वस्योत्कटव्यापारसम्बन्धावच्छिन्न कारणतानिरूपितकार्यताप्रतियोगिकस्वरूपसम्बन्धो व्यधिकरण इति न तेन सम्बन्धन निरुक्तजन्यत्वं कुत्रापीति तत्सम्बन्धावच्छिन्न प्रतियोगिताकस्य दैवातिरिक्तजन्यत्वाभावस्थ