________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
" जो दिव्वेण पखित्तो तहा तहा हन्त पुरिसकारु त्ति । तत्तो फलमुभयजमवि भन्नइ खलु पुरिसकाराओ॥१॥ एएण मीसपरिणामिए उजं तंमि तं च दुगजण्णं । दिव्वाउ णवरि भन्नइ णिच्छयओ उभयजं सव्वं ॥२॥"
[बीजादिविंशतिका ] अत्र मिश्रपरिणामिन इत्यस्यानुत्कटत्वेन परिणामित इत्यर्थः । ननु यत्र भोजकादृष्टेन भोजनं भोक्तृव्यापार विनैवोपनामितं तत्र भोक्तृयत्नस्यानुस्कटोऽपि क इव व्यापार इति चेत् ? तदीयचेष्टा. स्वावच्छिन्ने तदीययत्नत्वेन हेतुत्वात् सामग्र्युपनायकोऽपि मुखप्रक्षेपादिरूप एव, प्रापकादृष्टेन आकस्मिकधनप्रात्यादिस्थलेऽपि प्रतिग्रहादियत्नोऽवर्जनीय एव, किंबहुना ? यत्र व्यक्त्या यत्नो न कोऽपि दृश्यते तत्र देवाक्षेपकभवान्तरीययत्नेनाप्युभयोस्तुल्यकक्षात्वमुपपादनीयम् , प्रधान-गुणभावस्यापेक्षिकत्वेन तद्बाधकत्वात् , तदुक्तम्" पुवकयं कम्म चिय चित्तविवागमिह भन्नई दिव्यो। कालाइएहि तप्पायणं तु तहपुरिसकारु त्ति ॥१॥ इय समणीइयोगा इयरेयरसंगया उ जुजन्ति । इय दिन्ब-पुरुसगारा पहाण-गुणभावओ दो वि ॥२॥"
[बीजादिविंशतिका ] देवम् आर्षत्वात् पुंस्त्वम् , कालादिभिस्तत्परिपाचनमिति- कृदभिहितन्यायात् कालादिभिः परिपकं
केवलान्वयिनो देवमात्रजन्यत्वेनाभिमते सत्त्वान्न व्याघात इत्यर्थः । उक्ताभिप्रायकहरिभद्रसूरिवचनसंवादमुपदर्शयतितदिदमभिप्रेत्योक्तमिति । जो दिवेण० इति- “यो दैवेन प्रक्षिप्तस्तथा तथा हन्त पुरुषकारोक्तिः। तत् ततः फलमुभयजमपि भण्यते खलु पुरुषकारतः ॥ एतेन मिश्रपरिणामिनस्तु यत् तन्मानं च द्वयजन्यम् । दैवात् तु नवरं भव्यते निश्चयत उनयजं सर्वम् ।।" इति संस्कृतम् । ननु मिश्रपरिणामिनस्तु यत् तत् कथं देवमात्रजन्यमित्यत आह-अत्रेतिउक्तहरिभद्रप्रिवचने । “परिणामित" इत्यस्य स्थाने "परिणामिन" इति पाठो युक्तः । सर्वस्य पुरुषकारजस्वमसहमानः शङ्कते- नन्विति । उत्तर यति- तदीयचेष्टात्वावच्छिन्न इति । सामग्र्युपनायकोऽपि सामध्यनुमापकोऽपि । मुखप्रक्षेपादिरूप एवेति-मुखे भक्कादे हस्तादिना प्रक्षेपादिरपि तदीयचेष्टात्वावच्छिन्न एव तं प्रत्यापि तदीययत्नत्वेन यत्नस्य कारणत्वाद् यत्नरूपकारणमन्तरेण निरुक्तचटव न सम्भवतीति तदीयचेष्टारूपकार्येण तत्कारणीभूतस्तदीयप्रयत्नोऽनुमीयत एवेति प्रयत्नलक्षणपुरुषकारस्य न तत्र व्यभिचार इत्यर्थः, अन्यत्रापि पुरुषकारस्य व्यभिचारमपाकरोति-प्रापकादृष्टनेति- धनप्रापकदेवेनेत्यर्थः प्रापकादृष्टेनापि प्रतिग्रहादियत्नसहकृतेनैव धनप्राप्तिरिति पुरुषकारस्तत्राप्यस्तीति न व्यभिचार इत्यर्थः । यत्र न कोऽपि यत्न इदानीमुपलभ्यते तत्रापि देवस्य कारणतयाऽभ्युपगतस्य कारणं जन्मान्तरीयप्रयत्नोऽपि तत्कारणं भवत्येवेति न तत्रापि कार्ये पुरुषकारस्य व्यभिचार इत्याह - किं बहुनेति । उभयोः दैव-पुरुषकारयोः । तल्यकक्षत्वं समानयोगक्षेमत्वम् । ननु यत्र यत्नो न दृश्यते तत्र जन्मान्तरीयस्य यत्नस्य सद्भावेऽपि तस्य गौणत्वमेव, प्राधान्येन त्वदृष्टस्यैव कारणत्वमित्यत आह- प्रधान-गुणभावस्येति- किश्चित्कार्ये देवस्य प्राधान्यं पुरुषकारस्य गुणभावः, क्वचित् कार्ये पुरुषकारस्य प्राधान्यं दैवस्य गुणभाव इत्येवं प्रधान गुणभावस्यापेक्षिकत्वेन पुरुषकारकारणत्वाबाधकत्वादित्यर्थः, अत्रापि हरिभद्रसूस्विचनं संवादकमुपदर्शयति- तदुक्तमिति। पुवकयं ति-- " पूर्वकृतं कर्मेव, चित्रविपाकमिह भण्यते दैवम् । कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥ इति समयनीतियोगाद् इतरेतरसातौ तु युज्यते । इति देवपुरुषकारी प्रधान-गुणभावतो द्वावति" इति संस्कृतम् । दियो इत्यस्य संस्कृतं देवमिति- एवं सति नपुंसकेन भाव्यमिति दिवो इत्येवं पुलिंङ्गवचनं कथमित्यपेक्षायामाह- आर्षत्वात् पुंस्त्वमिति । कालादिभिरिति- “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायबलात् कालादिभिः परिपाचन मित्यस्य कालादिभिः परिपक्वमित्यर्थ इत्यर्थः, तथापुरुषकार इतीत्यस्य फलितमर्थमावेदयति - दैवपरिणतस्यैवेति, यस्यात्मनो दैवरूपः परिणामः प्रथमतोऽभवत् तस्यैव देवरूपपरि