Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 225
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समनहतो नयोपदेयः। ३७५ नादिकार्यता( कारणता)स्वाव्यवहितोचरानुमिति त्व-मोक्षस्वादिना । किश्च, धारावाहिस्थले कार्यककस्पनिरासाय तत्तत्क्षणत्वेन कालस्य कारणताऽवश्यं वाच्या, पूर्वपूर्वघटज्ञानानां घटत्वरूपविशेषणज्ञानस्वे. नोत्तरघटज्ञानहेतुतया तत्र कार्य कालस्य निराकर्तुमशक्यत्वात् , एकज्ञानकाले द्वितीयादिसकलोत्पत्तेदुर्वारत्वात् । तथा कार्यक.देश्यनिरासाय तत्तद्देशीय कारणताप्यवश्य वाच्या, कथमन्यथा इह सामग्रीसमवधानादेतद्घटोत्पत्तिर्न स्यात्, इत्ययं कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभाव-नियत्योापारोऽवश्यं प्रतिपत्तव्यः, सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभाव-नियतिहेतुतायाश्च तस्य चैवं सामनं- यथकघटादावकदैवोत्पन्नानां पाकजरूप-रस-गन्ध स्पर्शानां मध्ये यदेव घटायेकस्य समवायिकारणं तदेवापरस्यापि, य एव च तेजस्संयोगविशेषलक्षणपाक एकस्यासमवायि कारणं स एवापरस्थापीत्येवं समवायिकारणा-ऽसमवायिकारणात्मककारणभेदा भावेऽपि रूपप्रागभावादीनां निमित्तकारणानां भेदाद् रूप-रस-गन्ध-स्पर्शात्मककार्याणां भेदः, तथा धारावाहिकस्थलेऽपि पूर्वोत्तरक्रमेणोत्पन्नानां ज्ञानानां प्रागभावलक्षणनिमित्तकारणभेदाद् भेदः सम्भवेदपि, किन्तु पाकजानां भिन्नप्रागभावलक्षणकारणप्रभवाणां युगपदेवोत्पत्तेर्भावाद् यथैककालत्वं तथा भिन्नप्रागभावलक्षणकारणप्रभवाणां धारावाहिकमानानामपि युगपदुत्पत्तिप्रसङ्कत एक कालत्वमापाद्यतेत्यतस्तद्वारणायेत्यर्थः । तत्तत्क्षणत्वनेति-तत्तज्ज्ञान प्रति तत्तज्ज्ञानाव्यवहितपूर्वतत्तत्क्षणत्वेन कालस्य कारणत्वम् , तथा च कारणीभूतानां तत्तत्क्षणानामेकदाऽसतां कालैऋत्वाभावात् तरकार्याणामपि ज्ञानानां नैककालत्वमित्यर्थः । पूर्वपूर्वघटनानानामिति- पूर्वपूर्वघटज्ञानानामुत्तरोत्तरघटज्ञानानि प्रति यः कार्यकारणभावः स तत्तद्धटज्ञानं प्रति तत्तद्धटज्ञानाव्यवहितपूर्ववर्तितत्तद्घटज्ञानत्वेन तत्तद्धदज्ञानं कारणमित्येवं न किन्तु विशिष्टबुद्धि प्रति विशेषणज्ञानं कारणमिति सामान्यकार्यकारणभावस्य क्लप्तत्वेन तदनुरोधेन घटत्वप्रकारकत्वेन घटत्वविशिष्टबुद्धिरूपतयोत्तरोत्तरज्ञान प्रति पूर्वपूर्वघट ज्ञानानां घटत्वात्मकविशेषणविषयकत्वेन विशेषणबुद्धिरूपतयेति घटज्ञान प्रति घटत्वज्ञानत्वेन घटज्ञानमित्येव कार्यकारणभाव इति तादृशहेतुतया कार्यककालत्वस्य निराकर्तुमशक्यत्वादित्यर्थः । “कार्य कालस्य" इत्यस्य स्थाने " कार्यककालत्वस्य" इति पाठो युक्तः । एवं च सति यदापद्यते तदुपदर्शयति-एकज्ञानकाल इतिपूर्वज्ञानोत्पत्यव्यवहितपूर्वकाले यथा पूर्वज्ञानस्य प्रागभावस्तथा द्वितीय-तृतीयादिक्षणभाविनां धारावाहिकज्ञानानामशेषाणामपि प्रागभावाः सन्ति, चक्षुर्घटसंयोगादिकं कारणान्तरमपि विद्या इति सम्भृतसामग्रीत्वादेकज्ञानोत्पत्तिकाल एवं द्वितीयादिसकलज्ञानोत्पत्त्यापत्तेर्धारावाहिकत्वमेव भज्यतेत्यतस्तत्तत्क्षणत्वेन कालस्य तत्तज्ज्ञानं प्रति हेतुता कार्यककालत्वपरिहारायाऽऽवश्यकीत्यर्थः । एवं कार्येक देशत्वपरिहाराय तत्तद्देशीयतत्तद्धटादिकं प्रति तत्तद्देशत्वेन देशस्यापि कारणत्वमावश्यकमित्याहतथेति । कायैकदेश्यनिरासाय कार्यकदेशत्वपरिहाराय । तचद्देशीयेति-तत्तद्देशनिष्ठत्यर्थः । कथमित्यस्य न स्यादित्यनेनान्वयः । अन्यथा तत्तद्देशीयघटं प्रति तत्तद्देशवेन देशस्य कारणत्वाभावे । इति एवंस्वरूपः । अयं प्रतिनियतकाल-देशयोः प्रतिनियतकार्ये व्यापारः । कालधर्मानुप्रवेशेन तत्तत्क्षणाव्यश्वहितोत्तरजायमानतत्तद्घटत्वरूपकार्य. तावच्छेदकशरीरे तत्तत्क्षणत्वरूपकालधर्मस्यानुप्रवेशेन । ऋजुसूत्रनयेन उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य कारणत्वमित्यभ्युपगन्तृ जुसूत्रनयेन, स्वभाव-नियत्योव्यापार इत्यत्रैवायमिति पूर्वोकोऽन्वेति । ऋजुसूत्रनयेन स्वभाव-नियति. हेतुताप्रवादसमर्थनं कृत्वा सङ्कहनयेन तत्समर्थनमावेदयति- सामान्यत इति- कार्यत्वावच्छिन्नं प्रति कालत्वेन कालस्य हेतुताया इत्यर्थः, अस्य प्रवादस्यत्यनेनान्वयः । प्रागभावेति-प्रागभावविधया स्वभावहेतुतायाः समवायिकारणविषया नियतिहेतुताया इत्येवमन्वयोऽत्र, एतत्कालान्तरमेवानेनोलत्तव्यमिति स्वभावहेतुता प्रागभावकारणतावलम्बनेन प्रवृत्ता, कपाले एव घटेनोत्पत्तव्यं तन्तुध्वत्र पटेनोत्पत्तव्यमिति नियति हेतुता समवायिकारणहेतुतावलम्बनेन प्रवृत्ता, कार्यमानं प्रति प्रागभावस्य कारणत्वं भावकार्यसामान्य प्रति समवायिकारणस्य कारणत्वमिति पर्यवसितः स्वभाव-नियतिहेतुताप्रवाद इति बोध्यम् । सङ्गहनयाभिप्रायेणैवेति- कालरवन कालमात्रस्य प्रागभावत्वेन प्रागभावमात्रस्य समवायिकारणत्वेन समवायिकारणमात्रस्य कार्यत्वेन कार्यमात्रस्य सङ्ग्रहणं सङ्ग्रहण नयाभिप्रायेण सम्भवति नान्यनयाभिप्रायेणेत्यन्यनयाभिप्रायव्यवच्छेदायैवकारोपादानम्, एवम्भूतनयाभिप्रायेण तथाभव्यत्वमेव तत्तत्कायजनकमिति निगमयति-तथा चति-ऋजुसूत्रनय तत्तत्क्षणत्वेन तत्तत्कार्य प्रति कारणत्वस्य सङ्ग्रहनयाभिप्रायेण सामान्यतः कालवादिना हेतुत्वस्य व्यवस्थितौ चेत्यर्थः ।

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274