________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नबोपदेशः ।
किरणता विरोधाभावात् । अवच्छेदकरूपानुपस्थितौ कथमवच्छेयकारणतामहः कारणताया ससम्बन्धिकपदार्थत्वेन तत्प्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादिति चेत् ? न- " अयं घटः " इति समवाय प्रत्यक्षे व्यभिचारात् । अथ येन समवायत्वादिना रूपेण ससम्बन्धिकता तेन रूपेण तत्प्रत्यक्षे तस्य हेतुत्वान्न व्यभिचार इति चेत् ? न तथापि ससम्बन्धिकतावच्छेदकप्रकारकज्ञानत्वेन हेतुत्वमित्यत्र सम्बन्धिमात्रवृत्तित्वस्यैवावच्छेदकपदार्थत्वात् प्रकृते च इयं वह्निव्यक्तिस्तृणजन्येति कारणताप्रत्यक्ष. स्यापि तृणकार्यताश्रयमात्रवृत्यैतद्वद्दित्वप्रकारक ज्ञान साध्यत्वसम्भवात् यद्वा इयं वह्निव्यक्तिस्तृणजन्येति प्रत्यक्षस्यैतद्वह्नित्वावच्छिन्न कार्यतावगाहित्वेऽप्यवच्छेदकत्वांशे भ्रमत्वेऽपि कार्यतांशे प्रमात्वान्न कोऽपि दोषः । अथान्वयव्यतिरेकामहाप्रकारकजात्या कार्यत्वकल्पनाsनौचित्यात् तथाभूतशक्त्या कारणत्वमेव ससम्बन्धिकपदार्थप्रत्यक्षे सम्बन्धिज्ञानस्य कारणत्वादवच्छेद करूप सम्बन्धिज्ञाने सत्येवावच्छेद्यकारणत्वप्रहो नान्यथेत्यवच्छेदक - धर्मानुपस्थितौ कारणत्वप्रहो न सम्भवतीत्याशङ्कते - अवच्छेदकरूपानुपस्थिताविति । समाधत्ते नेति- अयं घट इति प्रत्यक्षे घटत्वप्रकारकेदविशेष्य के समवायोऽपि संसर्गतया भासत इति समवायस्यापि तत् प्रत्यक्षं भवति, न च ततः प्राग् घटत्वेन घटस्य सम्बन्धिनः प्रत्यक्षं समस्ति यत् कारणं भवेदिति सम्बन्धिप्रत्यक्षमन्तराऽपि ससम्बन्धिकसमवायज्ञानस्य भावेन व्यभिचाराभिरुक्तकार्य कारणभावस्थासम्भवादित्यर्थः । नन्वयं घट इति प्रत्यक्षे समवायः संसर्गतयैव भासते न नित्यसम्बन्धत्वलक्षणसमवायत्वेन, निरुक्तसमवायस्वेनैव च तस्य ससम्बन्धिकपदार्थस्वमतस्तेन रूपेण तत्प्रत्यक्षत्वावच्छिन्नं प्रत्येव सम्बन्धिज्ञानस्य हेतुत्वादयं घट इति प्रत्यक्षस्य कार्यतावच्छेदकधर्मानाक्रान्तत्वान्न व्यभिचार इत्याशङ्कते - अथेति । तेन रूपेण समवायत्वेन रूपेण । तत्प्रत्यक्षे समवाय प्रत्यक्षे । तस्य सम्बन्धिज्ञानस्य । समाधत्ते-नेति । तथापि उक्तप्रकारेण कार्यकारणभावाश्रयणेनायं घट इति समवाय प्रत्यक्षे व्यभिचारपरिहारेऽपि । "ससम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन " इत्यस्य स्थाने " ससम्बन्धिकतावच्छेदकप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धितावच्छेदकप्रकारकज्ञानत्वेन " इति पाठो युक्तः । सम्बन्धिमात्रेति तथा च ससम्बन्धिपदार्थवृत्तिप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति सम्बन्धिवृत्तिप्रकारकज्ञानत्वेन कारणत्वमित्यत्रैवोक्त कार्यकारणभावपर्यवसानम्, सम्बन्धत्वस्य ससम्बन्धिसमवाय मात्रवृत्तित्वाभावात् संसर्गस्य संसर्गतयैव मानम् तद्विशेषणस्य विशेषणत्वमेव न प्रकारत्वमिति सम्वन्धत्वस्यायं घट इति प्रत्यक्ष प्रकारत्वाभावात् ससम्बन्धिकसमवायमात्रवर्तिनः समवायत्वस्यापि तत्र प्रकारत्वाभावादयं घट इति समवाय प्रत्यक्षस्य कार्यतावच्छेदकघर्मानाकान्तत्वात् तत्र व्यभिचारः परिहृत एव भवति । वह्नितॄणयोः कार्यकारणभावे तृणनिष्टकारणताया आश्रयतया सम्बन्धि तृणं निरूपकतया वह्निव्यक्तिर्न तु वह्निमात्रं व्यभिचारेण तृणनिष्ठकारणताया वह्निनात्रनिरूपितत्वाभावात् एवं च निरुक्तकारणताप्रत्यक्ष मियं वहिव्यक्तिस्तृणजन्येत्याकारकं तस्य तृणकार्यताश्रयवह्निव्यक्तिरूपसम्बन्धिमात्रवृत्त्येतद्वह्नित्वप्रकारक ज्ञानजन्यत्वेन व्यभिचाराभावादित्याह - प्रकृते चेति । इयं वहिव्यक्तिस्तृणजन्येति वहि-तृणयोः कार्यकारणभावप्रत्यक्षं तृणत्वावच्छिन्नकारणतानिरूपितैतद्वद्वित्वावच्छिन्नकार्यतावती वह्निव्यक्तिरिय मिस्याकारकत्वेन तृगनिरूपितवह्निनिष्ठकार्यतायामेतद्वह्नित्वावच्छिन्नत्वस्याभावेऽप्येतद्वह्रित्वावच्छिन्नत्वस्यावगाहनात् तदेशे भ्रमत्वेऽप्येतद्वह्निव्यतौ तृणनिरूपित कार्यतायाः सत्त्वात् तदंशे प्रमात्मकमेव, तस्य च वह्निनिष्ठयक्तित्वप्रकारकज्ञानजन्यत्वमस्त्येवेति न कश्चिद् दोष इति कल्पान्तरमाह- यद्वेति । ननु तृणसत्त्वे एतद्वद्विसत्त्वं तृणाभाव एतद्वहृयभाव इत्येवमन्वयव्यतिरेकप्रहो नात्र सम्भवति एतद्वह्निव्यक्तेरपूर्वत्वेन तस्याः कदाचिदपि पूर्व तृणतोऽभावाद् वढ्धन्तरस्य तृणान्तरात् पूर्वं भावेऽपि तत्रैतद्वह्रित्वस्याभावादिति नैतद्वह्रित्वेन तृणत्वेन कार्यकारणभावग्रहः सम्भवति, तृणजन्यवह्निमात्रवर्तिवद्वित्वावान्तरजातेश्च नान्वयव्यतिरेकग्रह प्रकारत्वमिति न तया कार्यकारणभावकल्पना युक्तेति तृणा-ऽरणि-मणिष्वेका वचनुकूला शक्तिरस्ति, तयैव तृणादीनां वहित्वावच्छिन्नं प्रति कारणत्वमिति तृणनिष्ठनिरुक्तशक्त्यवच्छिन्नकारणतानिरूपित कार्यतावच्छेदकं वह्नित्वमेवेत्या रेकते - अथेति । " अथान्वयव्यतिरेकाग्रद्दाप्रकारकजात्या ' इत्यस्य स्थाने " अथान्वयव्यतिरेक हा प्रकारजात्या " इति पाठो युक्तः, तथाकल्पनाऽनौचित्यं वाप्रत्यक्षीभूतस्य बह्नित्वावान्तरजातित्रयस्य कल्पने गौरवादेव । तथाभूतशक्त्या अन्वयव्यतिरेकप्रहाप्रकारीभूत तृणारणिमण्यनुगतवह्वयतु
"
३७०