Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 215
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः । ३६५ अथाकाशत्वादीना( नाम )कदाचित्कत्ववत् कादाचित्कत्वमपि न सहेतुकत्वसाधकमिति चेत् ? न,आकाशत्वादीनां सर्वत्र सत्त्वे आकाशादिस्वभावत्वाभावप्रसन्नात् , तत्स्वभावत्वं च धर्मिग्राहकमानसिद्ध. मिति हेतुं विनापि देशनियमस्तेषामिति । अथैवं कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनापि इत्यपि न, अकस्मादित्यस्योक्तरीत्याऽलीकादित्यर्थकरणादलीकादेव कार्यमुपजायत इत्येवमनुपाख्यस्यालीकस्य विधिर्न च-नैव. अश्वकर्णादिवत् स्वभावादित्यस्यार्थे निरूढ एवायमकस्मादिति शब्दः, तथा च स्वभावादेव कार्य भवतीत्येवं स्वस्वभाववर्णना न, सर्वत्र हेतु:-अवधेनियतत्वत इति, नियतावधित्वादिति तदर्थः " नैवमपाधेर्नियतत्वत" इत्यस्य स्थाने 'नैवमवधे. नियतत्वतः" इति पाठो युक्तः, न्यायकुसुमाञ्जलौ उदयनाचार्योक्तिरेवम्- " अकस्मादेव भवतीति चेत् ? न-" हेतु-भूतिनिषेधो न स्वा-उनुपाख्यविधिर्न च । स्वभाववर्णना नैवमवधेर्मियतत्वतः ॥ ५॥" हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् , भवन प्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात्, उत्पत्तेः पूर्व स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः, पौर्वापर्यनियमच कार्यकारणभावः, न चैक पूर्वमपरं च तत्त्वस्य भेदाधिष्ठानत्वात् , अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तः, स्यादेतत्-नाकस्मादिति कारणनिषेधमात्र वा भवनप्रतिषेधो वा, स्वास्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम् , अपि त्वनपेक्ष एव कश्चिन्नियतदेशवन्नियतकालस्वभाव इति ब्रमः- “निरवधित्वेs. नियतावधिकत्वे वा कादाचित्कवव्याघातात् , न द्युत्तरकालसिद्धत्वमात्रं कादाचित्कत्वम्, किन्तु प्रागसत्त्वे सति सावधित्त्वे तु स एव प्राच्यो हेतुरित्युच्यते, अस्तु प्रागभाव एवावधिरिति चेत् ? न- अन्येषामपि तत्काले सत्त्वात् , अन्यथा तस्यैव निरूपणानुपपतेः, तथा च न तदेकावधित्वमविशेषात् , इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तवधेः कार्यसत्त्वप्रसमात्, सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थः। किन नियताः ! आहोस्विनियता अप्यनुपकारकाः? प्रथमे धूमो दहनवदर्दभमप्यवधीकुर्यात, नियामकाभावात् , द्वितीये तु किमुपकारान्तरेण? नियमस्यैवापेक्षार्थत्वात् तस्यैव च कारणात्मत्वात् , ईशस्य स्वभाववादस्येष्टत्वात्" इति । ननु यथाकाशत्वादिषु काचित्कत्व- गगनादिरूपनियतदेशवृत्तित्वस्वभावो वर्तते, न च तत्र कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधकस्तथा घटादिषु कादाचित्कत्व-नियतकालवृत्तित्वस्वभावो वर्तते, न च तत्रापि कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधको नियतवृत्तितासाम्यादित्याशङ्कते- अथेति-"(नाम) कदाचित्करववत्" इति स्थाने ' काचित्कत्ववतू" इति पाठः सम्यक् , 'आकाशत्वादीनाम्' इत्यादिपदानित्यवृत्त्यसाधारणतत्तद्धर्माणामुपग्रहः, आकाशवादीनां हेतुमन्तरैव यथा नियतदेशवृत्तिता तथा घटादीनामपि हेतुमन्तरैव नियतकालवृत्तिता भविष्यति, यदि नियतकालवृत्तिता हेतुमन्तरा न भवेन्न भवेत् तर्हि नियतदेशवृत्तितापि हेतुमन्तरेति शङ्काशयः। आकाशत्वादीनामाकाशस्वभावत्वादेव हेतुमन्तरापि नियतदेशवृत्तिता भविष्यतीत्यभिप्रायवान् समाधत्ते-नेति । इतीति-- इतिशब्दो हेतौ वर्तते, तथा च निरुक्तहेतोः, आकाशवादीनामाकाशस्वभावत्वादेवेत्यर्थः चिनापि कारणमन्तरापि, कारणे सति तु देशनियमो भवतीह तु कारणमन्तरापि देशनियम इत्यर्थस्यापि नाप्रेडनम् । तेषाम् आकाशत्वादीनाम् । देशनियमः गगनादिदेश एव वृत्तिर्न त्वन्यत्र इति नियमो भवतीति शेषः । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वेऽपि देशनियमः कथम् ? कथं न सर्वत्र वृत्तिरित्याकाहायामाह- आकाशत्वादीनामिति- आकाशवादीनां सर्वत्र वृतित्वे आकाशादिस्वभावत्वमेव न स्यात् , तद्भिन्नतो व्यावृतत्वे सति तद्वृत्तिधर्मस्यैव तत्स्वभावत्वादित्यर्थः, तथा चाकाशत्वादीनामाकाशस्वभावत्वमन्यथानुपपद्यमानमाकाशादिरूपदेशं नियमयति, नान्यः कश्चिदश हेतरिति भावः । नन्वाकाशत्वादीनामाकाशस्वभावस्वमिति कुतोऽवधारितमित्याकालायामाह-तत्स्वभावत्वं च भाकाशवादीनामाकाशस्वभावत्वं पुनः, धर्मिग्राहकेति- आकाशत्वस्य धर्मी आकाशः, तग्राहकं मानमनुमानम्-'शब्दो द्रव्यसमवेतो विशेषगुणत्वाद् रूपादिवत्' इति सामान्यतो द्रव्याश्रितत्वसाधकानुमानतो भूम्यादिप्रसिद्धाष्टद्रव्यसमवेतत्वबाधे सति 'पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसमवेतोऽष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वाद् यन्ने तन्नैवं यथा रूपादि' इति परिशेषान. मानम् तेन सिद्धमिति । नन्वाकाशस्वादीनामाकाशादिस्वभावस्वाद् यथा हेतुं विनवाकाशादिव्यतिरिक्तघटादिदेशव्यावृत्तत्वं तथा कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनैव घटाद्यतिरिकाकाशादिव्यावृत्तमिति दुर्दुरुटः स्वभाववादी शडतेमवमिति । नहि कादाचित्कत्वं यदा कदाचित् सत्वमात्रं येन हेतुं विनैव भवेत् . किन्तु पूर्वकालासत्त्वे सस्वम.

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274