Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 214
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। चार्वाकादिपक्षनिरासञ्चातिभूयानिति लतादित एव तदनुगमो विधेयः। ' अकस्माद् भवति' इत्यनुपायवादिमते चात्यन्तोपयुक्तस्वात् किञ्चिद् विचार्यते,- अकस्मादिति किंशब्दस्य हेतुपरतया हेत्व. भावे भवनपरम् ? उत “अ-मा-नो-ना प्रतिषेधे" इति स्मरणानिषेधार्थकस्य 'अ'शब्दस्य क्रियासम्बन्धसम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम् , अलीकहेतुकत्वपरं वा ? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एसेषु पञ्चषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् , अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात् , तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात् , तदुक्तमुदयनेन" हेतु-भूति निषेधो न स्वा-ऽनुपाख्याविधिनं च । स्वभाववर्णना नैवमुपाधेर्नियतत्वतः॥" इति [ न्यायकुसुमाञ्जलिकारिका-५ ] “अस्ति जीवस्तथा नित्यः कर्ता भोक्ता स पुण्य-पापयोः। अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥१॥" इति संस्कृतम् । चावाकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिग्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयानात्र तेषां खण्डनं क्रियत इत्युपदिशति- चार्वाकादिपक्षनिरासश्चेति । तदनुगमः बाकादिपक्षनिरासानुगमः । नियतिवादिमतखण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति-अकस्मादिति। अकस्मादिति शिन्दस्य अकस्मादित्येतद्घटककिंशब्दस्य । हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम् , तथा ब अकस्माद भवतीति वाक्यं हेखभावे भवनापरं हेत्वभावे सति भवतीत्यर्थकम् । अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम्, किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनेच साकाहत्वमित्यकस्माद् भवतीति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीय विकल्पमुपदर्शयति-उतेति- अथवेत्यर्थः। अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नमः समासे अकस्मादित्यनेन स्वभिन्न भिन्नादिति लभ्यते, स्वभिन्नभिन्न च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति । यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽलोकभिन्नभिन्नादित्यकस्मादित्यस्यार्थः. अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीकहेतुकभवनमकस्माद् भवतीति तदाहकिं वेति । यदाच लम्बकर्णादिशब्दवदव्युत्पन्न एवायमकस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति । “मित्यर्थके" इत्यस्य स्थाने "मित्यर्थकम्" इति पाठो युक्तः । एतेषु अनन्तरमुपदर्शितेषु । कथं न युक्त इत्यपेक्षायामाह- नियतावधिकार्यदर्शनादिति- नियतोऽवधिर्यस्य स नियतायधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वहेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वहिनियतोऽवधिदृश्यत एव, य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिक तथा । सहेतुककार्यभवने व्यवस्थित तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पश्चापि प्रकारा अयुक्ता एवत्याशयः। नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु, तथा च नियतावधिकरवासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह- अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा वहिभिन्नमपि कमप्यधिं कृत्वोत्पद्यतेति न बहिसद्धावानन्तरमेव धूमस्योत्पत्तिः, किन्तु बहिसद्भावतः प्राक तवहितो. तरकालेऽपि च यं कमप्यवधि कृत्वा घूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याइन्येत. एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिधूमोऽपि कादाचिकत्वस्वभावो न भवेदित्येवं कादाचिकत्वस्वभावव्याकोपानियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः । एतदेवाह-तत्स्वाभाये चेति- कार्यस्य नियतावधिकत्वस्वाभाव्ये चेत्यर्थः । उक्तार्थे उदयनाचार्यवचनसंवादमाह- तदुक्तमुदयनेनेति । हेत्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणातुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रियासम्बन्धाश्रयणाद् भवनप्रतिषेधो न देततो यह भवनं तत्प्रतिषेधो न, अकस्मादित्यस्योक्कदिशा स्वस्मादित्यर्थकरणात् स्वविधिः-स्वस्मादेव स्वमुत्पद्यत

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274