________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
चार्वाकादिपक्षनिरासञ्चातिभूयानिति लतादित एव तदनुगमो विधेयः। ' अकस्माद् भवति' इत्यनुपायवादिमते चात्यन्तोपयुक्तस्वात् किञ्चिद् विचार्यते,- अकस्मादिति किंशब्दस्य हेतुपरतया हेत्व. भावे भवनपरम् ? उत “अ-मा-नो-ना प्रतिषेधे" इति स्मरणानिषेधार्थकस्य 'अ'शब्दस्य क्रियासम्बन्धसम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम् , अलीकहेतुकत्वपरं वा ? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एसेषु पञ्चषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् , अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात् , तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात् , तदुक्तमुदयनेन" हेतु-भूति निषेधो न स्वा-ऽनुपाख्याविधिनं च । स्वभाववर्णना नैवमुपाधेर्नियतत्वतः॥"
इति [ न्यायकुसुमाञ्जलिकारिका-५ ]
“अस्ति जीवस्तथा नित्यः कर्ता भोक्ता स पुण्य-पापयोः। अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥१॥" इति संस्कृतम् । चावाकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिग्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयानात्र तेषां खण्डनं क्रियत इत्युपदिशति- चार्वाकादिपक्षनिरासश्चेति । तदनुगमः बाकादिपक्षनिरासानुगमः । नियतिवादिमतखण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति-अकस्मादिति। अकस्मादिति शिन्दस्य अकस्मादित्येतद्घटककिंशब्दस्य । हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम् , तथा ब अकस्माद भवतीति वाक्यं हेखभावे भवनापरं हेत्वभावे सति भवतीत्यर्थकम् । अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम्, किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनेच साकाहत्वमित्यकस्माद् भवतीति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीय विकल्पमुपदर्शयति-उतेति- अथवेत्यर्थः। अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नमः समासे अकस्मादित्यनेन स्वभिन्न भिन्नादिति लभ्यते, स्वभिन्नभिन्न च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति । यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽलोकभिन्नभिन्नादित्यकस्मादित्यस्यार्थः. अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीकहेतुकभवनमकस्माद् भवतीति तदाहकिं वेति । यदाच लम्बकर्णादिशब्दवदव्युत्पन्न एवायमकस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति । “मित्यर्थके" इत्यस्य स्थाने "मित्यर्थकम्" इति पाठो युक्तः । एतेषु अनन्तरमुपदर्शितेषु । कथं न युक्त इत्यपेक्षायामाह- नियतावधिकार्यदर्शनादिति- नियतोऽवधिर्यस्य स नियतायधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वहेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वहिनियतोऽवधिदृश्यत एव, य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिक तथा । सहेतुककार्यभवने व्यवस्थित तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पश्चापि प्रकारा अयुक्ता एवत्याशयः। नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु, तथा च नियतावधिकरवासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह- अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा वहिभिन्नमपि कमप्यधिं कृत्वोत्पद्यतेति न बहिसद्धावानन्तरमेव धूमस्योत्पत्तिः, किन्तु बहिसद्भावतः प्राक तवहितो. तरकालेऽपि च यं कमप्यवधि कृत्वा घूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याइन्येत. एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिधूमोऽपि कादाचिकत्वस्वभावो न भवेदित्येवं कादाचिकत्वस्वभावव्याकोपानियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः । एतदेवाह-तत्स्वाभाये चेति- कार्यस्य नियतावधिकत्वस्वाभाव्ये चेत्यर्थः । उक्तार्थे उदयनाचार्यवचनसंवादमाह- तदुक्तमुदयनेनेति । हेत्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणातुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रियासम्बन्धाश्रयणाद् भवनप्रतिषेधो न देततो यह भवनं तत्प्रतिषेधो न, अकस्मादित्यस्योक्कदिशा स्वस्मादित्यर्थकरणात् स्वविधिः-स्वस्मादेव स्वमुत्पद्यत