________________
-
-
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
३६३ अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कस्मिंश्च सम्यक्त्यमिति जिज्ञासायामाह
नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निर्वृतिः।
तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥ १२३ ॥ नयामृत-नास्तीत्यादि । नास्त्यात्मा इति चार्वाकमते, न निल इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साङ्ख्यमते, न भोक्तत्युपचरितभोक्तत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षत्वलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तणां यज्वना मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिशि नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः ॥ १२३ ।।
षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि ।
मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते ॥ १२४॥ नयामृत-पडेतदिति । एतेभ्यः- प्रागुक्तेभ्यः, विपरीतानि षट् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम्
" अत्थि जिओ तह णिच्चो, कचा भुत्ता स पुन्नपावाणं ।।
अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ हाणा ॥" ___] इति । तमोऽपगमचिजनुःक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां कनु दवीयसी दृश्यते ॥ ४ ॥ प्रसव सदसत्त्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न । गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोजिते स्वसमये न सङ्गच्छते ॥ ५ ॥ प्रमाण-नयसनता स्वसमयेऽप्यनेकान्तघीयस्मयतटस्थतोल्लसदुपाधिकिारिता ।
कदाचन न बाघते स्वगुरुसम्प्रदायक्रम, समलसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६ ॥” इति । " दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां " इति पाठो युक्तः । समनिष्णातः जैनराद्धान्ताभिज्ञाननिपुणैः ॥ १२२ ॥
त्रयोविंशत्युत्तरशततमपद्यमवतारयति- अथेति । विवृणोति- नास्तीत्यादीति । साङ्क्षयगते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह- यद्वेति । " निवृत्तिः" इत्यस्य स्थाने " निर्वृतिः " इति पाठो ज्ञेयः । निर्वृतिः स्विरूपेत्यपेक्षायामाइ- सर्वदुःखेति । यज्वनां मीमांसकानाम् । तदुपायश्च नेति कस्व मते इत्यपेक्षयामाह- अस्ति मुक्तिरिति । तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह- सर्वभावानामिति । वहिष्णो जलं शीतं समस्पर्शस्तथाऽनिल: । केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः ।। इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते । के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसूरय इति ।। १२३ ॥
चतुर्विशत्युत्तरशततमपद्यं विवृणोति- षडेतदितीति । एतेभ्यः इत्यस्य विवरणं- प्रागुक्तभ्य इति । "सम्यकस्थानान्यपि" इस्यस्य स्थाने “ सभ्यक्त्वस्थानान्यपि " इति भाव्यम् । भवन्तीति क्रियापदमाहृतम् । षट् सम्यक्त्वस्थानानि विशिष्योल्लिखति- अस्त्यात्मेति । नित्य इत्यादाक्प्यात्मेत्यनुषज्यते। "सामराज्य' इत्यस्य स्थाने "साम्राज्य" इति पाठः । षट् सम्यक्त्वस्थानानीत्यत्र सिद्धान्तवचनसंबादं दर्शयति- तदिदमक्तमिति । अत्थीति