________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात्, नयवाक्यरे क्यमेवैतदिति चेत् ? तर्हि प्रवचनक्रियान्युत्पादने (ने) क इवास्योपयोगः स्थूल सूक्ष्मन यार्थानां क्रमव्युत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्राचनिकानां जिनभद्र- सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्ध विषये सूत्रे परतीर्थिकवस्तुत्रक्तव्यताप्रतिबन्धप्रतिपादनम्, तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभिर्ज्ञानबिन्दौ विहितम्, इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः ॥ १२२ ॥
३६२
सम्यक् समीचीनतया | स्वसमयानिष्णाततां जैनराद्धान्तानिपुणताम् । अभिव्यञ्जयति प्रकटयति । अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति उक्तवचनेनेदमेव ज्ञायते यदुत- द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः परसमय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः । शङ्कते - नयवाक्यमिति । एतत् जे यजवेस्वित्यादि दिगम्बरवचनम्, तथा च तत्प्रतिपचि स्याद्वादनिरपेक्षत्वं न वक्तृगत स्वसमयाज्ञानविजृम्भितमिति भावः । समाधत्ते तति- यदि नयवाक्यमेवैतत् तदा स्थूल सूक्ष्मन यार्थक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाभ्युत्पादनमतो मुग्धानां मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः । यदपीति प्रतिपादनमित्यनेनान्वयि । प्रावचनिकानां सैद्धान्तिकानाम् । स्वस्वेति यत्र सूत्रे स्वासप्रायविषय भिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीर्थिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य सम्बन्धस्य, प्रतिपादनम् इदं सूत्रं परतीर्थिक वस्तु वक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र- सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं- स्वस्वमताग्रहविजृम्भितं तदा जिनभद्र-सिद्धप्रभृतीनां प्रावचनिकत्वस्य क्षति:- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तु वक्तव्यतेत्यादिवाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटक परतीर्थिकपदं भिन्नपरम्परा - जिनभद्र- सिद्धसेन प्रभृतीनां यः स्वस्वगुरुस्तद्गुरुपरम्परा तद्भिन्नजैगपरम्परा रात आयातस्य चन्त्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो यः पुरुषस्तत्परं तत्तात्पर्थकम् परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिनपरम्पराऽऽयाततात्पर्यानुसारिणां जैनानामेव ग्रहणमित्यर्थः । " सारिपदं इत्यस्य स्थाने "सारिपरं " इति पाठो युक्तः । इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् । अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः । कथमस्मिन् सूत्रे परतीर्थिकत्रस्तु वक्तव्यताप्रतिबन्ध इत्याकाङ्क्षानिवृत्तये तेषामेव ' नयाभिप्रायेण प्रवृत्तत्वाद्' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः । अत एव स्वस्वतात्पर्यविरुद्ध विषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः । उभयसमाधानं परस्परविरुद्ध जिनभद्र- सिद्धसेनप्रभृतिमतद्वयस्य समाधानं सिद्धान्ताविरुद्धतयाऽनुगमनम् । अस्माभिः यशोविजयोपाध्यायैः । ज्ञानबिन्दो ज्ञानविन्दुसंज्ञके प्रन्थे । विहितं कृतम् । ज्ञानबिन्दावन्ते प्रन्थकृत्प्रशस्ताचेतानि पद्यानि केवलज्ञान- केवलदर्शनयोगपद्यायौगपद्यैक्यमननपरायणानां मल्लवादि- क्षमाश्रमणजिनभद्रगणि- सिद्धसेन दिवाकराणां त्रयाणां परस्परगतविरोधन अकनय मेदसमाश्रयणप्रतिपादकानि पद्यान्यन्नानुसन्धेयानि -
;}
प्राचां वाचां विशुखविषयोन्मेष सूक्ष्मक्षिकायां, येऽरण्यानीभयमधिगत्ता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिज सम्मतिग्रन्थगाथा विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥ १ ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मलवादी, पूज्याः प्रायः करण- फलयोः सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्यं पुरुषपदभाकू केवलाख्ये विशेषे तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं तत्सूरीणामियमभिमता मुख्य- गौणव्यवस्था ॥ ३ ॥