________________
मयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः।
शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान वाच्यः, यतो चाचस्तुल्यसङ्खथा नया अभिहिताः ।। १२१ ॥
स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः।
ज्ञेयोपयुज्य तदियं, दर्शने नययोजना ॥ १२२ ॥ नयामृत-स्याद्वादेति । तै:-नयः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्त:वचस्तुल्यसमा एव, परागमा:- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुक्तं सम्मतौ
" जावइया वयणपहा, तावइया चेव हुन्ति नयवाया।
__ जावइया नयवाया, तावइया चेव परसमया ॥" [त० को० गा० ४] एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे
" जे पज्जवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा । आयसहामि ठिया, ते सगसमया मुणेग्नवा ॥" [
] इति दैगम्बरं वचनं [ चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमयः आविश्चक्रुः प्रकटीचक्रुः । उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति । कियान् वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तुमशक्य इति सूचितम् । कथं विशेषतो नयविस्तरो वक्तमशक्य इत्यपेक्षायामाह- यत इति ॥ ११ ॥
दर्शन गतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपयं विवृणोति- स्याद्वादेतीति । तैरित्यस्य विवरण- नयैरिति । स्याद्वादनिरपेक्षरित्यस्य विवरण- स्थाद्वादैकवाक्यतारहितैरिति । तावन्तः इत्यस्य विवरण- वचस्तुल्यसङ्ख्या एवेति । परागमा इत्यस्य विवरण- परसिद्धान्ता इति । भवन्तीति क्रियापदमध्याहृतम् । वचस्तुल्यसलयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदामहेत्यर्थः । यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्तं सम्मताविति । जावइया० इति- " यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति नयवादाः । यावन्तो नयवादास्तावन्तश्चैव परसमयाः ॥” इति संस्कृतम् , एतावत्सु वचस्तुल्यसंख्यकेषु । इच्छाकस्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः । इच्छाकल्पितसंयोगजभेदोऽपीत्यस्म
एवेत्यनेनान्वयः । “समवायान्तरापेक्षकः" इत्यस्य स्थाने “समयान्तराक्षेपकः" इति पाठो युक्तः । निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् । उत्तरार्द्ध पदानामन्बयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति । उपयुज्य अपेक्षाभेदं सन्निवेश्य । उपयुज्येत्यस्य व्यवच्छेद्यमाह-न स्वापातत एवेति । कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातझानस्येति- आपातज्ञानतः स्वममये परसमयत्ववद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः । अत पवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । वस्तुस्थितिविचारेव स्तुस्थितिविचारास्ये ग्रन्थे । जे पनवेसु० इति-"ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः । आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः ॥" इति संस्कृतम् । दैगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि । वचनमित्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । " [चक्रुः ] सम्यक्" इत्यस्य " वक्तुः सम्यक् ' इति पाठः समीचीनः । वक्तुः स्ववतुर्दिगम्बरस्य ।
सुलभ