________________
नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
सम्मतिवृत्तौ नामनिक्षेपावसरे भाषितं तत् शब्दाऽर्थयोर्नित्य सम्बन्ध मात्रवादापेक्षया, " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः " [ जैमिनिसूत्र- ] इति तत्सूत्रे औत्पत्तिक इत्यस्य विपरीतलक्षणया नित्य इति व्याख्यानात् पूर्वपूर्वसङ्केतापेक्षायामनवस्थानान्नित्यपदसम्बन्धाभ्युपगम एव, प्रवृत्तिमूलव्यहाराद्यन्तशुद्धशा वैदम्पर्य पर्यालोचनायां तु तस्य नयसंयोगत्वमेव युक्तम्, अन्यथा शब्दानुशासनेऽपि स्फोटविचारे शब्द तन्मात्रसङ्ग्रहप्राधान्येन नयसंयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दादीनां कथं न स्वसमय तुल्यत्वमिति चेत् ? मूढनयानां तेषां यथावविभागाकरणात्, अत एव यथावन्नयविभागचिकीर्षया सिद्धिः स्याद्वादात् [ सिद्धम० १.१.२. ] इति सूत्रमुपन्यस्य श्रीहेमसूरयः खोपज्ञशब्दानु
29
64
३६०
बसरे नाम -- स्थापना द्रव्य- भावनिक्षेपभेदेन निक्षेपाश्चत्वारस्तत्र नामनिक्षेप निरूपणावसरे । भाषितम् उक्तम् । तत् मीमांसकमतस्याशुद्धद्रव्यार्थिक व्यवहारनय प्रकृतिकस्व कथनम् । शब्दाऽर्थयोर्नित्यसम्बन्धो मीमांसकसम्मत इत्यत्र जैमिनिसूत्रव्याख्यानं प्रमाणयति - औत्पत्तिक स्त्विति - इतिशब्दः स्वरूपपरः । तत्सूत्रे मीमांसादर्शन प्रवर्तक जैमिनिमुनिप्रणीतसूत्रे । उत्पत्तिकृत औत्तिक इति व्युत्पत्स्योत्पत्ति शब्दार्थ उत्पत्तिमान् अनित्य इति यावत्, तथा च शब्दस्यार्थेना नित्य: सम्बन्ध इति स्यादत आह औत्पत्तिक इत्यस्येति - औत्पत्तिक इत्येवंस्वरूप शब्दस्येत्यर्थः । विपरीत लक्षणया औत्पत्तिकविपरीते अनौत्पत्तिके लक्षणया । नन्वीश्वरानङ्गीकर्तृमीमांसकमते नित्यसङ्केतस्याभावेऽप्यनित्याधुनिक पुरुष सङ्केत एव शब्दा-ऽर्थयोः सम्बन्धोऽस्तु तथा च न शब्दस्यार्थेन सह नित्यसम्बन्धसिद्धिरित्यत आह- पूर्वपूर्वेति- आधुनिक संकेतस्थ शब्दार्थसम्बन्धत्वे कस्यचित् पुंसो घटपदात् पटो बोद्धव्य इति सङ्केतस्यापि सम्भवेन घटपदस्य पटोsपि शक्यार्थः स्यात् तत्परिहाराय पूर्वपूर्वपुरुष सङ्केतापेक्ष एवं सङ्केतः शब्दाऽर्थयोः सम्बन्ध इति वाच्यम्, तथा च पटे घटपदस्य सङ्केत न पूर्वपूर्वसङ्केतापेक्ष इति न स सम्बन्धः, किन्तु घटे घटपदसङ्केतः पूर्वपूर्वपुरुषैरपि कृतस्तदपेक्षो घटपदस्य घटे सङ्केतो घटपद-घटरूपार्थयोः सम्बन्ध इत्यनवस्था प्रसज्यत इति नित्यशक्तिलक्षणसम्बन्ध एवं शब्दार्थयोरुपेय इत्यर्थः । प्रवृत्तीति लोके स्वर्गाद्यर्थं यागादौ या प्रवृत्तिस्तन्मूलव्यवहारादिपर्यन्तस्य शुद्धस्य जैमिनिशास्त्रेदम्पर्यस्य पर्यालोचनाय - विचारणायां पुनर्मीमांसकमतस्य नयसंयोगजत्वमेव युक्तमित्यर्थः । अन्यथा उक्तपर्यालोचनायामपि मीमांसकमतस्य नयसंयोगजत्वा नङ्गीकारे । शब्दानुशासनेऽपि अनुशिष्यन्ते प्रकृति-प्रत्ययादिविभागेन प्रतिपाद्यन्ते साधुशब्दा अनेनेति अनुशासनम्, शब्दानामनुशासनं शब्दानुशासनमिति व्युत्पत्या व्याकरणशास्त्रेऽपि अस्य नयसंयोग जत्वमित्यनेनान्वयः । स्फोटविचार इति स्फुटी भवत्यर्थोऽनेनेति स्फोटः, स च वर्णस्फोट : पदस्फोटो वाक्यस्फोट इति त्रिधेति वचना त्रिविधो नित्यः शब्दस्वरूपस्तस्य विचारे । कथं शब्दानुशासने नयसंयोग जत्वानुपपत्तिरित्याकाङ्क्षानिवृत्त्यर्थमेव स्फोटविचारे शब्दतन्मात्रसङ्ग्रह प्राधान्येनेत्युकम् अस्ति च तत्र शब्दतन्मात्रसङ्ग्रहस्यैव प्राधान्यं स्फोटात्मकशब्दस्वरूपस्य परब्रह्मण उपगमाच्छन्दब्रह्मण एवार्थरूपेण विवर्तनादर्थमात्रस्य शब्दात्मक ब्रह्मस्वरूपत्वमित्येवं शब्दतन्मात्रसङ्ग्रह - प्राधान्यम् । अत्र शङ्कते - नयसंयोगत्व इति । शब्दादीनामित्यत्र शब्दपदं शब्दानुशासनपरम् आदिपदादलङ्कारादिशास्त्राणामुपग्रहः। स्वसमयेति - जैनाभिमतस्याद्वादराद्धान्तेत्यर्थः, यथा स्याद्वादराद्धान्ते नयसंयोगजत्वं तथा शब्दानुशासनालङ्कारादिशास्त्राणामपीति स्याद्वादराद्धान्तस्य जैनसमयत्ववच्छन्दानुशासनादिशास्त्राणामपि जैन समयत्वमापयेतेत्यर्थः । समाधत्ते - मूढनयानामिति - अन्योऽन्यनिरपेक्ष सामान्य विशेषाद्यर्थमाहकत्वान्मिथ्यानयानामित्यर्थः । तेषां शब्द -ऽलङ्कारादिशास्त्रणाम् । यथावद् विभागाकरणादिति एतदपेक्षयेदमभिहितमेतदपेक्षया त्विदमुक्तमित्येवमपेक्षाभेदेन यन्नयविषयविभजनं तस्याकरणान्न शब्दाऽलङ्कारादीनां नयसंयोगजत्वेऽपि स्वसमय तुल्यत्वमित्यर्थः । अत एव इत्यस्य 'आविश्वकुः ' इत्यनेनान्वयः, श्रीहेमसूरय इत्यस्याप्याविश्चकुरित्यनेनान्वयः । स्वोपश्चेति- स्वनिर्मितेत्यर्थः, स्वपदेनात्र श्रीहेमसूरीण प्रहणम्, स्वोपज्ञशब्दानुशासनस्येत्यस्य दृढप्रामाण्यमित्यनेन सम्बन्ध: । स्वसमयान्तर्भावेन जैनराद्धान्तान्त. भवन, जैनराद्धान्तस्य निश्चितप्रामाण्यकत्वेन तदन्तर्भूतस्य श्रीहेमचन्द्रसूरिनिर्मित शब्दानुशासनस्यापि सुदृढं प्रामाण्यमिति ।