________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो मयोपदेशः ।
१५९
पक्षपातित्वं नित्या-ऽनित्यशब्दवाच्यपुद्रलाभ्युपगमात् , ज्ञाना.ऽर्थलक्षणयोगपद्यरूपव्यञ्जनपर्यायप्रधानत्वा. चावगन्तव्यम् , योगाचार-माध्यमिकयोश्च शुद्धशुद्धतरत्वेन समभिरूद्वैवम्भूतपक्षवर्तित्वमिति ॥ १२० ॥
नयसंयोगजः शब्दा-ऽलङ्कारादेश्च विस्तरः ।
कियान् वाच्यो वचस्तुल्यसङ्घया ह्यभिहिता नयाः ॥ १२१ ॥ नयामृत-नयेति । शब्दा-ऽलङ्कारादेः- व्याकरण-साहित्यादिशास्त्रस्य च विस्तरः, नय. संयोगज:- नानानयमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षद. स्वानुपपत्तेः, अत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-ऽभेदाद्युपपत्तये व्यवहारनय. मानन्त्य-व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्गहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते, यत् तु मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह- अत्रेति- चतुर्णा बौद्धानां मत इत्यर्थः । यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थन यपक्षपातित्वमेव युक्तं तथापि पुद्गलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनयपक्षपातित्वम् , वैभाषिकोऽपि क्षणिकमेव वस्तु स्त्रीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवस्वरूपोऽनित्यमित्येवस्वरूपो यः शब्दस्तद्वाच्यस्य पुलस्याभ्युपगमात् , न तु शब्दावाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्याय प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह-ज्ञानेति-ज्ञानार्थयोर्लक्षणसाधारणं यद् योगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं सातव्यमित्यर्थः । समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षभाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगा. चारस्य समभिरूढनयपक्षपातित्वम् , एवम्भूननयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयक च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह-योगाचारेति ॥ १२० ॥
शब्दा-ऽलङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति । "नानानयविवक्षायां" इत्यस्य स्थाने "नानानयविवक्षाया" इति पाठो युक्तः । अन्यथा शब्दा-ऽलङ्कारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-लकारादिप्रवृत्त्यभ्युपगमे इति यावत् । सार्वपार्षदत्वानुपपत्तेः सर्वपरिषद्व्यवस्थितजनसम्बन्धित्वानुपपत्तेः. यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्व. मेवेत्याशयः । अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव । मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन 'अपेक्षन्ते' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वति-सार्वजनीन:- सर्वजनप्रसिद्धो यो भेदाभेदादिस्तदुपपत्तये - तत्सिद्धयर्थम् . व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः । “बिभ्यन्ती" इत्यस्य स्थाने “बिभ्यती" इति पाठो युक्तः, शब्दस्य व्यक्तौ शतरुपगमे व्यक्तीनामानन्त्याच्छतेरप्यानन्त्यं प्रसज्यते, यत्किञ्चियक्तौ शब्दस्य शक्त्यभ्युपगमे तु यत्रैव व्यक्ती पदस्य शक्तिस्तस्या एव व्यकेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम् , शाब्दबोधश्च व्यक्त्यन्तरागामपीत्युपस्थितिशान्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यभिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यती व्यक्तिशक्ति परित्यज्येत्यर्थः। जाती घटत्व-पटत्वादिसामान्ये। शक्तिव्यत्पत्तये घटपटादिशब्दशक्तिमहलक्षणशक्तिव्युत्पत्त्यर्थम् । सङ्गहनयं सामान्यरूपेण व्यक्तीनां सङ्ग्रहणादनुगमनात् सामान्यग्राहिसङ्ग्रहम् । चः समुच्चये। आद्रियमाणा अपेक्षमाणाः । स्वमतप्रवृत्ती भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्तप्रवृत्यर्थम् । नयसंयोगमेव व्यवहार सङ्पद्वयसंयोजनमेव । आदो प्रथमम् । नत्वेवं मीमांसामतस्य व्यवहार-समहनयद्वयप्रकृति. कत्वे सम्मतिग्रन्थविरोधः, तत्र तस्थाशुद्धद्रव्यार्थिकनयप्रकृतिकत्वस्यैवाभिधानादित्यत आह- यत् त्विति । नामनिक्षेपा.