________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
ऋजुसूत्रादितः सौत्रान्तिकवैभाषिकौ क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति ॥ १२० ॥ नयामृत० ऋजुसूत्रादित इति । ऋजुसूत्रादित:- ऋजुसूत्र - शब्द- समभिरूढैवम्भूतेभ्यः, क्रमात् सौत्रान्तिको वैभाषिको योगाचारो माध्यमिकश्चेति चत्वारः, सौगता अभूवन् - उदपद्यन्त, एतेषां स्वरूपमेतेन काव्येन ज्ञेयम्-
३५८
"अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षो नहि बाह्यत्रस्तुविसरः सौत्रान्तिकैराश्रितः ! | योगाचार मतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते वत मध्यमाः कृतधियः स्वच्छां परां संविदम्” ॥१॥ ] इति,
एतद्विशेषावगमपुष्पमदार्थिना तु मत्कृतलताद्वयं परिशीलनीयम् । अत्र वैभाषिकस्य शब्दनय
तथाऽस्तु पार्थक्यबीजमस्त्वित्यर्थः । तथा च उक्तदिशा सङ्ग्रह - व्यवहाराभ्यां नैगमस्य पार्थक्ये च । तत एव नैगमादेव | स्वतन्त्रतीति- स्पष्टार्थत्वादिदं पद्यं न व्याख्यायत इत्याह- स्पष्टार्थ इति । अत्र चार्थे एतत्पद्यप्रसिद्धार्थे । प्रदर्शितन्यायेन अनन्तरोपदर्शितयुक्तया । एकत्र एकस्मिन् धर्मिणि । उक्तार्थे सम्मतिवृत्तिस्वारस्यं दर्शयति- नैगम इति ॥ ११९ ॥
ऋजुसूत्रादिपर्यायार्थिकनयचतुष्टयतो बौद्ध चतुष्टयस्य सौत्रान्तिक- वैभाषिक योगाचार माध्यमिकाभिधस्य दर्शनानि जातानीत्यावेदकं विंशत्युत्तरशततमपद्यं विवृणोति - ऋजुसूत्रादित इतीति । ऋजुसूत्रादित इत्यस्य विवरणम्ऋजुसूत्रशब्दसमभिरूढैवम्भूतेभ्य इति । क्रमादिति ऋजुसूत्रात् सौन्नान्तिकः, शब्दाद् वैभाषिकः, समभिरूढाद् योगाचारः, एवम्भूतान्माध्यमिक इत्येवं चत्वारः सौगताः - बौद्धाः, अभूवन् उदपद्यन्तेत्यर्थः सौत्रान्तिकादिपदं सौत्रान्तिक दर्शन | दिपरम् । संक्षेपतश्चतुर्णी बौद्धानां स्वरूपमा वेदयितुमाह- एतेषामिति - अनन्तरमुपदिष्टानां सौत्रान्तिकादीनां चतुर्णी बौद्धानामित्यर्थः । एतेन अनन्तरमेव वक्ष्यमाणेन । ज्ञानसमन्वितोऽर्थः यदैव ज्ञानं तदैव तद्विषयोऽर्थः । ज्ञानविषययोः समकालमेवोत्पत्तिरिति मतिमता सूक्ष्मबुद्धिशालिना, वैभाषिकेण वैभाषिकसंज्ञकेन बौद्धविशेषेण, इष्यते स्वीक्रियते, सौत्रान्तिकैः सौत्रान्तिकाख्यै बौद्ध विशेषैः, बाह्यवस्तुविसरः बाह्यवस्तुविषयकः, प्रत्यक्षः प्रत्यक्षात्मकबोधः, नह्याश्रितो नैव स्वीकृतः वैभाषिकमते समानकालीन सामग्रीतो बाह्यवस्तु तज्ज्ञानयोरुत्पत्तिरिति तयोर्विषयविषयिभावसम्बन्ध इष्यते, तेन निराकारमेव ज्ञानं तद्विषयकत्वात् तत्सिद्धिनिबन्धनम्, सौत्रान्तिकमते प्रथमक्षणे प्रत्यक्षकुर्वद्रूपात्मकं क्षणिकं स्वलक्षणाभिधेयं बाह्यवस्तु ततो द्वितीयक्षणे तन्नाशस्तदाकार ज्ञानोत्पत्तिश्चेति तदाकारमेव ज्ञानं न तु तद्विषयकं तयोर्भिन्नकालत्वात् किन्तु तदाकारं ज्ञानं तदन्तरेण न सम्भवतीति तदाकारज्ञानात् तस्य सिद्धिरित्येवमनयोर्विशेषः, योगाचारमतानुगैः योगाचारमतानुसरणशीलैः परा उत्कृष्टा बाह्यवस्त्वभावेन बाह्यत्रस्तु जन्यत्वाभावात्, साकारबुद्धिराश्रिता स्वीकृता, पूर्वपूर्वविज्ञानक्षणेनोत्तरोत्तरं तत्तदाकारं विज्ञानं जायते, तस्य तत्तदाकारत्वं च वासना विशेषबलादेव न बाह्यवस्तुबलादिति न तत्तदाकारबलाद् बाह्यवस्तुसिद्धिरुपैयत इति बाह्यवस्त्वभ्युपगन्तृत्व-तदनभ्युपगन्तृत्वाभ्यां साकार विज्ञानाभ्युपमन्त्रोरपि सौत्रान्तिक- योगाचारयोर्विशेषः । मध्यमाः माध्यमिक बौद्ध विशेष मतानुयायिनः कृतधियो निर्मलबुद्धिमन्तरस्वच्छामाकारविषयविषयिभावर हितामत एवं परामुत्कृष्टां संविदं बुद्धिं मन्यन्ते स्वीकुर्वन्तीत्यर्थः । विस्तरभयादत्र सौत्रान्तिकादीनामृजुसूत्रादिप्रकृति कत्वपल्लवनं न क्रियते, किन्तु मत्कृतलताद्वये विस्तरेण तदुपपादनं समस्ति तदवलोकनीयं तद्विशेषाभिज्ञानार्थिनेति प्रन्थकृदुपदिशति एतद्विशेषेति एतस्य- अनन्तरमुपदर्शितस्य बौद्धमतचतुष्टये ऋजुसूत्रादि. पर्यायार्थिकनय चतुष्टयप्रकृतिकत्वस्य यो विशेषोऽवान्तरवैलक्षण्यं तदवगमात्मकं यत् पुष्पमदं मधु तदर्थिना - तदभिलाघुकेन, मस्कृतलताद्वयं श्रीयशोविजयोपाध्याय निर्भितलतानामक ग्रन्थद्वयम्, परिशीलनीयं सर्वतोऽभ्यसनीयमित्यर्थः । ऋजुसूत्रनयाभ्युपगतक्षणिकात्मकपर्यायाभ्युपगन्तृत्वात् सौत्रान्तिकानामृजुसूत्रपक्षपातित्वस्य स्पष्टं प्रतीयमानत्वेऽपि वैभाषिकादीनां