________________
गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः।
स्वतोऽनुवृत्ति-व्यतिवृत्तिभाजो, भावा न भावान्तरने यरूपाः । परात्मतत्त्वादतथात्मतत्त्वात् , द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥"
[अन्ययोगव्यवच्छेदद्वात्रिंशिका श्लो० ] एतेन नैयायिकदर्शनमपि व्याख्यातम् , पदार्थप्रमाणादिभेदं विना प्रायस्तस्य वैशेषिकदर्शनसमानविषयत्वादिति दिक् ॥ ११८ ॥
ननु सङ्घह-व्यवहारयोरेव विषयविवेकेन नैगमस्यान्तर्भावे तस्य पार्थक्ये किं बीजम् ? अदर्शनेऽपि किञ्चित् कल्पयाम इति चेत् ? तर्हि दृष्टं स्वतन्त्रद्रव्य-पर्यायोभयविषयत्वमेव तथास्तु, तथा च तत एव कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाह
स्वतन्त्रव्यक्ति-सामान्यग्रहायेष्टे तु नैगमे ।।
औलुक्यसमयोत्पत्तिं ब्रमहे तत एव हि ॥ ११९ ॥ नयामृत-स्वतन्त्रेति- स्पष्टार्थः । अत्र चार्थे प्रदर्शितन्यायेन द्रव्य-पर्यायरूपमुभयमपि पर. स्परविविक्तमेकत्र विद्यत इत्यभिप्रायः, “ नैगमोऽशुद्धद्रव्यास्तिकप्रकृतिः" इति सम्मतिवृतिस्वरसोऽपीति ध्येयम् ॥ ११९ ॥
तथा घटत्वं सामान्यं पटत्वं सामान्यं मठत्वं सामान्यमित्येवं सामान्येष्वप्यनुगतप्रत्ययानुरोधेन सामान्यत्वसामान्यस्यातिरिकस्याभ्युपगमः स्यात् , एवं तत्रापीत्यनवस्थानं स्यात् , विशेषेऽपि चायं विशेष एतस्माद् विशेषाद्र भिन्न इति व्यावृत्तिप्रत्ययानुरोधेन विशेषेऽप्यतिरिक्तविशेषस्तत्राप्यतिरिक्तविशेष इत्यनवस्थानं प्रसज्येनेत्यतो वस्तुन एव स्वतः सामान्यविशेषात्मकत्वमभ्युपेयमित्यर्थः, उक्तार्थे श्रीहेमचन्द्रसूरिवरवचनसंवादमाह- तदिदमुक्तमिति । स्वत इति- स्वत एवानुवृत्ति व्यावृत्तिभाजः, अनुगतप्रतीतिव्यावृत्तिप्रत्यययोर्विषयत्वाजनकत्वाच्च सामान्यविशेषात्मका घट-पटादययो भाचा भावान्तरेण- आश्रयव्यतिरिक्तन सामान्येन विशेषेण च नेयरूपा:- ज्ञाप्यरूपा अनुगत-व्यावृत्तिप्रतीतिविषया न, एवं च परात्मतत्वाद्- वस्त्वात्मकाश्रयव्यतिरिक्तसामान्य विशेषात्मकतत्त्वात् , कथम्भूतात् ? भतथात्मतत्त्वात्- तथाऽऽत्मतत्त्वं न भवती. त्यतथात्मतत्त्वं तस्मात् , वस्तुव्यतिरिक्तसामान्य-विशेषतत्त्वं न भवत्येवेत्यतः शशशृङ्गकल्पात् , द्वयम्- अनुवृत्तिव्यावृत्तिबुद्धिद्वयम् , वदन्तः- कथयन्तो वैशेषिकाः, अकुशला:- तत्त्वनिरूपणासमर्थाः स्खलन्ति- बादरणभूमौ पराजयलक्षणां स्खलनां प्राप्नुवन्तीत्यर्थः, पतेन वैशेषिकदर्शनखण्डनेन, अस्थ व्याख्यातमित्यनेनान्वयः। व्याख्यातं खण्डिततया व्याख्यानं खण्डितं भवतीति। एकमतखण्डने तदन्यमतस्य खण्डनं कथमित्यत आह- पदार्थप्रमाणादिभेदं विनेति- पदार्थप्रमाणादिसड्याभेदं विनेत्यर्थः । वैशेषिकमते द्रव्यादयः सप्त पदार्थाः, प्रत्यक्षानुमाने द्वे एव प्रमाणे, नैयायिकदर्शने प्रमाण-प्रमेयादयः, पदार्थाः षोडश, प्रमाणानि प्रत्यक्षा-अनुमानोपमान-शब्दाख्यानि चत्वारीत्येवं पदार्थप्रमाणसङ्ख्याभेदः। न्यायभेदे समवायस्य प्रत्यक्षं भवति, वैशेषिकमते यावत्सम्बन्धिप्रत्यक्षे सत्येव सम्बन्धप्रत्यक्षमिति नियमात् सम्बन्धिनां परमाण्वादीनां प्रत्यक्षा. भावात् समवायो न प्रत्यक्ष इत्यपि विशेषोऽस्तीत्यत उफम्-प्राय इति । तस्य नैयायिकदर्शनस्य ॥११८ ॥
एकोनविंशत्युत्तरशततमपद्यमत्रतारयति-नन्वित्यादिना, विषयविवेकन सामान्यविषयकत्वात् सामान्यविषयकनगमस्य साहेऽन्तर्भाव:, विशेषविषयकत्वाद् विशेषविषयकनगमस्य व्यवहारऽन्तर्भाव इत्येवं विषयविवेकेन । तस्य नैगमस्य। पार्थक्ये समह व्यवहाराभ्यां भिन्नत्वे, अन्ये देवसूरिप्रभृतयः सङ्ग्रह व्यवहाराभ्यां नेगमस्य पार्थक्यमामनन्तीत्यत्र किं बीमित्यर्थः । शङ्खत- अदर्शनेऽपीति- नैगमपार्थक्यवीजस्यादर्शनेऽपि, किञ्चिन्नैगमपार्थक्यबीजं कल्पयाम इत्यर्थः । समाधसे-तहीति- अदृष्टस्य कस्यचिन्नेगमपार्थक्यबीजस्य कल्पनापेक्षया लापवान्नैगमे दृष्टमेव सामान्यविशेषोभयविषयकत्वं