________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
द्वयेतरयावद्भङ्गानां स्याद्वादलान्छितानां परस्परसाकालाणां तात्पर्यविषयतया सम्पद्यते, एकतरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात् , तदाह
"जे वयणिजविअप्पा संजुञ्जन्तेसु होन्ति एएसु । ___ सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा (तित्थयरासायणा अण्णा ) ॥"
[ सम्मतिप्र. का. गा० ५३ ] तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषां भङ्गानामिति स्फुटमेव मिथ्यात्वम्, अतिरिक्त सामान्यविशेषापेक्षां विना महासामान्य-ऽन्त्यविशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य-विशेषात्मकत्वमित्यर्थस्यैव यथावनयद्वयविनियोगरूपत्वात् , अन्यथाऽनवस्थानात् , तदिदमुक्तम्
झानस्य निरुक्तोभयावगाहित्वात् तजनकशास्त्रस्यापि निरुक्तोभयावगाहित्वमिति बोध्यम् । स्वमताग्रहादित्यस्य विवरणंस्वकल्पनाभिनिवेशादिति- कर्तुः स्वकल्पनाऽभिनिवेशः शास्त्रेऽपि तदवबोधके बोध्यः। मिथ्यात्वं प्रकृते मिथ्यैव मिथ्यात्वम् । ननु नयदयालम्बित्वानशास्त्रं यथा सम्यक्त्वमश्चति, तथा वैशेषिकशास्त्रेऽपि नयद्वयावलम्बित्वमस्तीति कथं न तस्य सम्यक्त्वमित्यत आह-नहीति-अस्य सम्यक्त्वप्रयोजकमित्यत्रान्वयः। यदि नयद्यालम्बनं न शास्त्रस्य सम्यक्त्वप्रयोजकं तर्हि वाच्य तत्प्रयोजकमिति पृच्छति-किन्विति । उत्तरयति- यथास्थान इति । तद्विनियोगः नयद्वयविनियोगः । स च नयद्वयविनियोगश्व, अस्य 'सम्पद्यते' इत्यनेनान्वयः । स्वप्रयुक्तति- भाद्वयं चेतर. यावद्भमाश्च भङ्गद्वयेतरयावद्भक्षाः, स्वप्रयुक्ताश्च ते जयद्वयेतरयावद्भङ्गाश्च स्वप्रयुक्तभावयेतरयावद्भङ्गास्तेषां स्वप्रयुक्तमद्वयतरयावद्भज्ञानाम् , मजदयस्य - स्यादस्त्येवेति स्यान्नास्त्येवेति भङ्गद्वयस्य सङ्ग्रहव्यवहारनयद्वयप्रयुक्तत्वे ऋमिकतदुभय-युगपत्तदुभयादिसंयोजनोपजातस्वरूपाणां तृतीय-चतुर्थ-पञ्चम-षष्ट-सप्तमभङ्गानामपि नयद्वयप्रयुक्तत्वमित्यावेदनायाद्य-द्वितीयभङ्गयोभनद्वयशब्देनाभिधानम् । कथम्भूतानां तेषामित्याकालायां तद्विशेषणमाह-स्याद्वादलान्छितामिति, परस्परसाकाडाणामिति च । कथं सर्वेषामेव मङ्गानामुक्तविशेषणविशिष्टानां तात्पर्यविषययत्वे सत्येव सम्यक्त्वं सम्भवति नान्यथेत्यत
आह-एकतरस्यापीति सप्तानां निरुक्तभङ्गानां मध्यादेकस्यापि भङ्गस्येत्यर्थः। अतात्पर्य तात्पर्याविषयत्वे । सिद्धान्तविराधनायाः स्याद्वादराद्धान्तावहेलनायाः । अपरिहारात् परिहर्तुमशक्यत्वात् । उक्ताथै सम्मतिग्रन्थस्य गाथासंवादमाह-तदाहेति । जे. इति- "ये वचनीयविकल्पाः संयुक्तयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना सिद्धान्तविराधना अन्या ॥" इति संस्कृतम्। तत् तस्मात् । इह स्वतन्त्रसामान्य-विशेषोभयप्ररूपके वैशेषिकदर्शने । सामान्येति- सामान्ययोगः प्रथममले विशेष योगो द्वितीयभझे इत्येवं भावये सामान्य विशेष योगसम्भवे ऽपि तृतीयादिभङ्गानां सामान्य-विशेषयोः परस्परसापेक्षयोः सम्मेलनत एव सम्भवित्वेन परस्परनिरपेक्षसामान्य-विशेषयोगः कथमपि न सम्भवतीति वैशेषिकशास्त्रं स्पष्टमेव मिथ्यात्वम्, कुतस्तरामित्यनेन परस्परनिरपेक्षसामान्य-विशेषयोः स्वरूपत एवाभावात् प्रथमद्वितीयभन्योरपि तादृश. सामान्यविशेषयोगो न सम्भवतीयावेदितम् । यथा महासामान्येऽतिरिक्तसामान्य नास्ति, अन्त्यविशेषेऽतिरिकविशेषो नास्ति, अथापि महासामान्यस्य स्वत एव सामान्यरूपत्वम्, अन्त्यविशेषस्य च स्वत एव विशेषरूपत्वम् , तथैव वस्तुमात्रस्यैवातिरिक्तसामान्य-विशेषापेक्षामन्तरेणैव स्वत एवानुवृत्तिरूपत्वात् सामान्यात्मकत्वं स्वत एव व्यावृत्तिरूपत्वाद् विशेषरूपमित्येवं वस्तुमात्रस्य खत एव सामान्य-विशेषात्मकत्वमित्येव यथावन्नयद्वयविनियोगः, स च स्याद्वाद एवेति स्थाद्वादस्यैव सम्यक्त्वं न तु वैशेषिकशास्त्रस्य तद् यथोक्तनयद्वयविनियोगाभावामिथ्यात्वमेवेत्याशयेनाह- अतिरिकेति । अन्यथा वस्तुमात्रस्य स्वतः सामान्य-विशेषानात्मकत्वस्याङ्गीकारे। अनवस्थानादिति- घट-पटादौ घटोऽयं घटोऽयमित्यनुगतप्रतीत्यनुरोधेन घटत्व. सामान्यस्य पटोऽयं पटोऽयभित्यनुगतप्रतीत्यनुरोधेन पटत्वसामान्यस्य, एवं मठत्वादिसामान्यस्य च यथाऽतिरिक्तस्याङ्गीकारः, एवमयं घटोऽस्माद् घटाद् भिन्नः, अयं पट एतस्मात् पटाद् भिन्न इत्यादिव्यावृत्तिप्रत्ययानुरोधेनातिरिकस्य विशेषस्याजीकारः,