________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिस्वां समलङ्कृतो नयोपदेशः ।
शे व्यवहारप्रकृतित्वाभावेऽपि न क्षतिः, आत्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वान्मुख्योदेशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः ॥ ११५-११६ ॥
यद्येवं सहज-व्यवहारौ वेदान्त - सायदर्शनप्रवर्तकौ नैगमनयस्तर्हि कस्य दर्शनस्य प्रवर्तक इति जिज्ञासायाह
हेतुर्मतस्य कस्यापि शुद्धाशुद्धो न नैगमः ।
अन्तर्भावो यतस्तस्य सङ्ग्रह-व्यवहारयोः ॥ ११७ ॥
३५५
नयामृतः हेतुरिति । सामान्य विशेषादुभयमाहित्वेन शुद्धाशुद्धो नैगमनयः कस्यापि मतस्य -- दर्शनस्य, न हेतुः न प्रकृतिः, यतः सामान्यग्रहाय प्रवृत्तस्य सङ्ग्रह एव, विशेषप्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति तदुभयभिन्नं स्वात्मानमेवालभमानस्य न भिन्नदर्शनप्रकृतिकत्वमभिधातुं युज्यत इति ।। ११७ ।।
कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्क्षायामाह -
66
द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना । अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ॥ ११८ ॥
नयामृत ० -- द्वाभ्यामिति । द्वाभ्यां - सामान्य विशेषग्राहिभ्यां सङ्ग्रह व्यवहाराभ्यां नयाभ्याम्, उन्नीतं - पृथग् व्यवस्थापितमपि, कणाशिना - कणादमुनिना, शास्त्रम्, अन्योऽन्यनिरपेक्षत्वात् - परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्व प्रयोजकम्, किन्तु यथास्थाने तद्विनियोगः, स च स्वप्रयुक्तमङ्गविविकद्रव्य - पर्यायोभयावगाहित्वात् स्वमताग्रहात् - स्वकल्पनाभिनिवेशात्, मिध्यात्वम्, नहि नयजयप्रकृतिकत्वस्याभ्युपगमेन, अस्य न क्षतिरित्यनेनान्वयः, कथमेवमपि न क्षतिरित्यपेक्षायामाह - आत्मन एवेति अस्य मुख्यत्वादित्यनेनान्वयः, अन्यत् स्पष्टम् ॥ ११६ ॥
स्वेन "
सप्तदशोत्तरशततमपद्यमवतारयति - यद्येवमिति । विवृणोति - हेतुरितीति । " सामान्य विशेषादुभयग्राहिइत्यस्य स्थाने सामान्यविशेषोभयमाद्दित्वेन " इति पाठ: सम्यग् नैगमो यदि सामान्यमेव गृह्णीयाद् विशेषमेव वा गृह्णीयात् तो शुद्धः स्यात् न चैवम्, किन्तु सामान्यमपि गृह्णाति विशेषमपि गृह्णातीत्येवं सामान्यविशेषोभयग्राहित्वेनेत्यर्थः । मतस्येत्यस्य विवरणं दर्शनस्येति । न हेतुरित्यस्य विवरणं न प्रकृतिरिति । अत्रोत्तराद्धक हेतुं विवृणोति यत इति एतदनन्तरं तस्येति दृश्यम् तस्य नैगमस्य । कथमेकस्य तस्य सङ्ग्रहेऽन्तर्भावो व्यवहारे चान्तर्भाव इत्यपेक्षायामाह - सामान्यग्रहायेति । एवं च सङ्ग्रह-व्यवहारभिन्नो नैगमनयो नास्ति कस्य भिन्नदर्शन हेतुत्वमिस्याह- तदुभयभिन्नमिति - सङ्ग्रह - व्यवहारान्यतरभिन्नमित्यर्थः तेनोभयभेदस्य केवलान्वयित्वेऽपि न क्षतिः । स्वात्मानमेव नैगमनयस्वरूपमेव । अलभमानस्य अप्राप्नुवतो नैगमनयस्य 1 " भिन्नदर्शनप्रकृतिकत्व " इत्यस्य स्थाने " भिन्नदर्शन प्रकृतित्व " इति पाठो युक्तः, भिन्नदर्शनकारणत्वं वक्तुं न घटत इत्यर्थः ॥ ११७ ॥
अष्टादशोत्तरशततमपद्यमवतारयति कुत इति कस्मान्नयादित्यर्थः अस्य ' उत्पन्नम्' इत्यनेनान्वयः । कथं वा कस्मात् कारणाद् वा । तन्न सम्यग् वैशेषिकदर्शनं न समीचीनम् । विवृणोति - द्वाभ्यामिति । द्वाभ्यामित्यस्य विवरण- सामान्य विशेषग्राहिभ्यां सङ्ग्रह-व्यवहाराभ्यामिति । उन्नीतमित्यस्य विवरण- पृथग् व्यवस्थापितमिति । कणाशिनेत्यस्य विवरण- कणादमुनिनेति । कथं कणादमुनिप्रणीतं वैशेषिकदर्शनाख्यं शास्त्रं मिथ्यात्व - मित्यपेक्षायां तूपदर्शकमुत्तरार्द्ध विशृणोति- अन्योऽन्यनिरपेक्षत्वादिति । अन्योऽन्यनिरपेक्षत्वं सामान्य विशेषात्मकार्थयोरेव न तु तत्प्रतिपादकशास्त्रस्येत्यतस्तद्विवरणं- परस्परविविक्तद्रव्य पर्यायोभयावगाद्दित्वादिति शास्त्रजन्य