________________
३५४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
लषोऽपि- लेशोऽपि नास्ति, तन्मते जाग्रव्यवहारस्य स्वप्नव्यवहारतुल्यत्वात् , तथा च मौलस्य वेदान्तदर्शनस्य व्यवहारापेतस्वेन व्यवहारप्रकृतिता, किन्त्वेकास्मसङ्ग्रहप्रवणतया सङ्ग्रहप्रकृतिव, आकाशोदकपातकल्पमूलदर्शनप्रवृत्तावेव चेयं नयप्रकृतिचिन्ता, इति नार्वाचीनवेदान्तिनां मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानां व्यवहाराभाससमर्थनेनापि प्रतिश्रुतव्याहतिरिति हृदयम् ।।
साङ्कथेति । साक्ष्यशास्त्रे च नानात्मना व्यवस्था प्रतिनियतजन्ममरणादिव्यवहारकृद् भवति, इत्येतावत् पुरस्कृत्य- तात्पर्यविषयीकृत्यायं विवेकः सम्मतौ, यदुत- व्यवहारप्रकृतिकं साझ्यदर्शनं सङ्ग्रहप्रकृतिकं च वेदान्तदर्शन मिति, वेदान्तप्रकृति भूतसङ्ग्रहनयेनैकतया विषयी कृतस्यात्मनः भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद् व्यवहारप्रकृतिकत्वं साशयदर्शनस्य विवक्षितमिति तात्पर्यम् , तेन सत्का. दर्शनप्रवर्तकराप्तदृष्टिष्टिवादस्यैवाभ्युपगतत्वादित्यर्थः । तस्यां च दृष्टिसृष्टिवादात्मकवेदान्तदर्शनप्रवृत्तौ तु, प्रपञ्चमात्रस्य ज्ञातसत्त्वमुपैयत इत्येतस्मात् कारणाद् अज्ञातसस्वाभावेन स्वप्नोपमे स्वप्नसदृशे, स्वप्ने दृश्यमानं वस्तु तत्कालीनमेवेति ज्ञातसद् यथा तथा जगदपि यदेव ज्ञायते तदैव सत् नान्यदेति, विश्वे इत्यस्य विवरणं-जगतीति, सतिसप्तमी. यमित्यावेदनाय सतीति । "लेशोऽपि" इत्यस्य स्थाने " व्यवहारलेशोऽपि" इति पाठः सम्यग, व्यवहारलवोऽपी. त्यस्य विवरण-व्यवहारलेशोऽपीति । अत्र हेतुमाह-तन्मत इति- दृष्टिसृष्टि वादिमत इत्यर्थः, जाग्रद्वयवद्दारस्य स्वप्नव्यवहारतुल्यत्वेन स्वप्नव्यवहारो यथा मिथ्या तथा जाग्रस्यवहारोऽपि मिथ्यैवेति भावः । तथा च वेदान्त. दर्शनप्रवृत्तदृष्टिसृष्टिवादात्मकत्वव्यवस्थितौ च । मौलस्य मूलाभियुक्ताभ्युपगतस्य। वेदान्तदर्शनस्य दृष्टिसृष्टिवादात्मकवेदान्तदर्शनस्य । व्यवहारापेतत्वेन व्यवहाररहितत्वेन," व्यवहारप्रकृतिता" इत्यस्य स्थाने "न व्यवहार. प्रकृतिता" इति पाठः समुचितः। यदि वेदान्तदर्शनस्य न व्यवहारप्रकृतिकत्वं तर्हि किंप्रकृतिकत्वमिति पृच्छतिकिन्विति । उत्तरयति- एकात्मेति- एकस्मिन्नात्मनि तत्स्वरूपतो जगत एव सङ्घहस्य प्रवणतया वेदान्तदर्शनस्य सङ्ग्रहप्रकृतितवेत्यर्थः । उक्तयद्याभिप्रायमुपदर्शयति- आकाशोदकपातेति- आकाशादुदकस्य यत् पतनं तद् यदैव दृश्यते तदैव समस्ति तद्वद् जगदपि यदैव दृश्यते तदैवास्तीत्येवमभ्युपगमप्रवणं मूलदर्शनं दृष्टिसृष्टिवादात्मकवेदान्तदर्शनमाकाशोदकपातकल्पमूलदर्शने तस्य प्रवृत्तावेव, एवकारेण दृष्टि सृष्टिवादभिन्न वेदान्तदर्शनप्रवृत्तिव्यवच्छदः । इयं नयप्रकृतिचिन्ता वेदान्तदर्शनं शुद्धद्रव्यार्थिकन यप्रकृतिकं साङ्ख्यदर्शनमशुद्धद्रव्यार्थिकनयप्रकृतिकमित्येवं नयविचारणा । इति एतस्मात् कारणात्, नमः प्रतिश्रुतव्यादतिरित्यनेनान्वयः । अर्वाचीनवेदान्तिनां नवीनवेदान्तिनाम् , एषामेव विशेषणं-मिथोविरुद्धकल्पनाकोटिक्कैशपराहतानामिति- एको वेदान्ती यथा कल्पयति, अन्यो वेदान्ती तत्कल्पनाविरुद्धामेव कल्पनां पूत्करो त्येवं मिथोविरुद्धकल्पनानां या कोटि:- कोटिपदमत्रापरिमितसङ्घयापरं, तथा चापरिमित सङ्ख्यमिथोविरुद्धकल्पनात्मकक्लेशपराहतानामित्यर्थः, उक्तविशेषणशालिनां नव्यवेदान्तिनां यद् व्यवहाराभासस्य समर्थनं तेनापि, प्रतिश्रुतस्य- प्रतिज्ञातस्य वेदान्तदर्शने शुद्ध द्रव्याथिकनयप्रकृतिकत्वस्य, व्याहतिः- भङ्गो नेत्येतादृशं हृदयं- रहस्यमित्यर्थः ॥ ११५ ॥
षोडशोत्तरशततमपद्यं विवृणोति- सासयेतीति । व्यवहार कृदित्यस्य विवरण- प्रतिनियतजन्ममरणादिव्यवहारकृद् भवतीति- नानात्मनां स्वीकारादेव केषाञ्चिन्नरके जन्म, केषाश्चिद् देवगतौ जन्म, केषाञ्चित् तिर्यग्गतौ जन्म, एकस्य यदा जन्म तदाऽपरस्य कस्यचिन्मरणम् , एकोऽमुकशास्त्रज्ञाताऽपरस्तदन्यशास्त्रप्रवीणोऽन्यः सर्वशास्त्रनिपुणः कश्चित् किञ्चिज्ज्ञः, कश्चिद् बद्धः कश्चिन्मुक्त इत्येवं प्रतिनियतजन्ममरणादिव्यवहारो भवतीति नानात्मव्यवस्था व्यवहारकृदित्यर्थः । इत्येतावत् एतावन्मात्रम् । पुरस्कृरयेत्यस्य विवरणं तात्पर्यविषयीकृत्येति । अयं विवेकः सम्मतावित्यस्य फलितार्थमाह - यदुतेति । निरुक्तपद्यभावार्थमावेदयति- वेदान्तेति - वेदान्तदर्शनस्य प्रकृतिभूतो यः शुद्धद्रव्यार्थिकः सध्ग्रहन यस्तेनैकतया विषयीकृतस्यात्मनो यद् भेदकरणम् - एको बद्धोऽपरो मुक्त इत्येवं विभजनं नानात्माभ्युपगमनमिति यावत् , तेन सङ्ग्रहविषयभेदकत्वं यद् व्यवहारनयस्य लक्षणं तस्य समन्वयात्- साङ्खयदर्शने घटनात् साङ्खचदर्शनस्य व्यवहारनयप्रकृतिकत्वं सम्मतिका विवक्षितमिति तात्पर्यम् - अभिप्राय इत्यर्थः। तेन उक्तदिशा साडयदर्शने व्यवहार