________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझती भयोपदेश !
१५॥
व्यवहारपक्षपाति( त्वम् ), तदनभ्युपगमेऽप्युत्पत्त्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वक निगमयन्नाह--
अनुत्पन्नत्वपक्षश्च, नियुक्तौ नैगमे श्रुतः।
नेति वेदान्ति-साजयोत्तयोः, सङ्ग्रह-व्यवहारता ॥ ११४ ॥ नयामृत-अनुत्पन्नेत्यादि । अनुत्पन्नत्वपक्षश्च नियुक्तो-नमस्कारनियुक्ती, नैगमे- नैगमनये श्रुतः, " उत्पन्नाणुपन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो । सेसाणं उप्पन्नो" [
] इति वचनात् । तथा चानुत्पत्तिवादी साक्ष्यो नैगमनयमेवोपजीवेत् , व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहार. नयमिति भावः, इति-हेतोर्वेदान्तिसायोक्यो:- तदर्शनयोः, सङ्गह-व्यवहारता-- सङ्ग्रह-व्यवहाराख्य. शुद्धा-शुद्धद्रव्यार्थिकप्रकृतिकता न भवति, तथा च सम्मात तथोक्तेः का गतिरिति भावः ॥ ११४ ॥ समाधत्ते तथापीति द्वयेन
तथाप्युपनिषद् दृष्टिसृष्टिवादात्मिका परा। तस्यां स्वप्नोपमे विश्वे, व्यवहारलवोऽपि न ॥ ११५ ॥ सावधशास्त्रे च नानात्मव्यवस्था व्यवहारकृत् ।
इत्येतावत् पुरस्कृत्य विवेकः सम्मतावयम् ॥ ११६ ॥ नयामृत-तथापीति । तथापि उपनिषद्- वेदान्तदर्शनप्रवृत्तिः, दृष्टिसृष्टिवादात्मिका पराउत्कृष्टा, मूलाभियुक्ताभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे- जगति सति व्यवहार. क्षणध्वंसानधिकरणलक्षणसम्बन्धात्मकप्रथमक्षणसम्बन्धरूपाया उत्पत्तेरनभ्युपगमेन । व्यवहारबहिर्भावात् प्रथमक्षणसम्बन्धरूपोत्पत्त्यभ्युपमन्तृव्यवहारनयाद् बहिर्भूतत्वात् । इत्यभिप्रायम् इत्याकारकाशयम् । स्पष्टीकरणपूर्वकं स्पष्टावेदनपुरस्सरम् । विवृणोति - अनुत्पन्नेत्यादीति । निर्युक्तावित्यस्य स्पष्टीकरण- नमस्कारनियुक्ताविति- वेन नियुक्ति ग्रन्थबहुप्रकरणकत्वेन तत्र कुत्रोक्तमिति जिज्ञासाया नोन्मेषः । नैगमेऽनुत्पन्नत्वपक्ष' इत्यस्य प्रतिपादकं नमस्कारनियुक्तिवचनमुट्टतयति- उत्पन्न० इति-“ उत्पन्नानुत्पन्नोऽत्र नय आदिनिगमस्यानुत्पन्नः । शेषाणामुत्पन्नः" इति संस्कृतम् । तथा च नैगमनयस्यानुत्पन्नत्वपक्ष इति व्यवस्थितौ च । व्यवहारनयमित्यनन्तरमुपजीवेदित्यस्यानुवृत्तिः । मूले इतिशब्दो हेतुपर इत्याशयेनाह- इति हेतोरिति- एतस्मात् कारणादित्यर्थः । वेदान्ति-साङ्ख्ययोरित्यस्य विवरणम्- तदर्शनयोरिति-वेदान्त सायदर्शनयोरित्यर्थः । सङ्ग्रह-व्यहारतत्यस्य विवरणम्-सङ्ग्रह-व्यवहारास्यशुद्धाशुद्धद्रव्याथिकप्रकृतिकतेति । नेति मूलं भवतीति क्रिया ' यत्रान्यत् क्रियावाचि पदं न श्रूयते.' इत्यादिवचनप्रामाण्यादुपाला । तथा च वेदान्त-सालयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकवाभावव्यवस्थितौ च । “सम्मात" इति मुद्रणदोषात्, अत्र "सम्मतौ" इति पाठः समुचितः, तस्य सम्मतिग्रन्थे इत्यर्थः । तथोक्तः वेदान्ति-साङ्खयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वकथनस्य, तथा च सम्मतिग्रन्थस्य तत्प्रतिपादकवचनमसङ्गतमिति । इति भावः प्रश्नयितुरेवमाशयः ॥१४॥
पद्यद्वयं युगपदेवावतारयति- समाधते तथापीति द्वयेनेति-तथापीत्यादिपद्यद्वयेनोको शङ्का समाधत्ते- निराकरोतीत्यर्थः । विवृणोति-तथापीतीति- एवं सत्यपीत्यर्थः । उपनिषदित्यस्य विवरणं-वेदान्तदर्शनप्रवृत्तिरिति । परेत्यस्य विवरणम्- उत्कृष्टति । दृष्टसृष्टिवादात्मिकैव वेदान्तदर्शन प्रवृत्तिमत्कृष्टेत्यत्र हेतुमाह- मूलाभियुक्तेति- वेदान्त