________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः ।
३६५
अथाकाशत्वादीना( नाम )कदाचित्कत्ववत् कादाचित्कत्वमपि न सहेतुकत्वसाधकमिति चेत् ? न,आकाशत्वादीनां सर्वत्र सत्त्वे आकाशादिस्वभावत्वाभावप्रसन्नात् , तत्स्वभावत्वं च धर्मिग्राहकमानसिद्ध. मिति हेतुं विनापि देशनियमस्तेषामिति । अथैवं कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनापि
इत्यपि न, अकस्मादित्यस्योक्तरीत्याऽलीकादित्यर्थकरणादलीकादेव कार्यमुपजायत इत्येवमनुपाख्यस्यालीकस्य विधिर्न च-नैव. अश्वकर्णादिवत् स्वभावादित्यस्यार्थे निरूढ एवायमकस्मादिति शब्दः, तथा च स्वभावादेव कार्य भवतीत्येवं स्वस्वभाववर्णना न, सर्वत्र हेतु:-अवधेनियतत्वत इति, नियतावधित्वादिति तदर्थः " नैवमपाधेर्नियतत्वत" इत्यस्य स्थाने 'नैवमवधे. नियतत्वतः" इति पाठो युक्तः, न्यायकुसुमाञ्जलौ उदयनाचार्योक्तिरेवम्- " अकस्मादेव भवतीति चेत् ? न-" हेतु-भूतिनिषेधो न स्वा-उनुपाख्यविधिर्न च । स्वभाववर्णना नैवमवधेर्मियतत्वतः ॥ ५॥" हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनमविशेषात् , भवन प्रतिषेधे प्रागिव पश्चादप्यभवनमविशेषात्, उत्पत्तेः पूर्व स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः, पौर्वापर्यनियमच कार्यकारणभावः, न चैक पूर्वमपरं च तत्त्वस्य भेदाधिष्ठानत्वात् , अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तः, स्यादेतत्-नाकस्मादिति कारणनिषेधमात्र वा भवनप्रतिषेधो वा, स्वास्महेतुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम् , अपि त्वनपेक्ष एव कश्चिन्नियतदेशवन्नियतकालस्वभाव इति ब्रमः- “निरवधित्वेs. नियतावधिकत्वे वा कादाचित्कवव्याघातात् , न द्युत्तरकालसिद्धत्वमात्रं कादाचित्कत्वम्, किन्तु प्रागसत्त्वे सति सावधित्त्वे तु स एव प्राच्यो हेतुरित्युच्यते, अस्तु प्रागभाव एवावधिरिति चेत् ? न- अन्येषामपि तत्काले सत्त्वात् , अन्यथा तस्यैव निरूपणानुपपतेः, तथा च न तदेकावधित्वमविशेषात् , इतरनिरपेक्षस्य प्रागभावस्यावधित्वे प्रागपि तवधेः कार्यसत्त्वप्रसमात्, सन्तु ये केचिदवधयो न तु तेऽपेक्ष्यन्त इति स्वभावार्थ इति चेत् ? नापेक्ष्यन्त इति कोऽर्थः। किन नियताः ! आहोस्विनियता अप्यनुपकारकाः? प्रथमे धूमो दहनवदर्दभमप्यवधीकुर्यात, नियामकाभावात् , द्वितीये तु किमुपकारान्तरेण? नियमस्यैवापेक्षार्थत्वात् तस्यैव च कारणात्मत्वात् , ईशस्य स्वभाववादस्येष्टत्वात्" इति । ननु यथाकाशत्वादिषु काचित्कत्व- गगनादिरूपनियतदेशवृत्तित्वस्वभावो वर्तते, न च तत्र कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधकस्तथा घटादिषु कादाचित्कत्व-नियतकालवृत्तित्वस्वभावो वर्तते, न च तत्रापि कश्चिद् हेतुरिति स स्वभावो न सहेतुकत्वसाधको नियतवृत्तितासाम्यादित्याशङ्कते- अथेति-"(नाम) कदाचित्करववत्" इति स्थाने ' काचित्कत्ववतू" इति पाठः सम्यक् , 'आकाशत्वादीनाम्' इत्यादिपदानित्यवृत्त्यसाधारणतत्तद्धर्माणामुपग्रहः, आकाशवादीनां हेतुमन्तरैव यथा नियतदेशवृत्तिता तथा घटादीनामपि हेतुमन्तरैव नियतकालवृत्तिता भविष्यति, यदि नियतकालवृत्तिता हेतुमन्तरा न भवेन्न भवेत् तर्हि नियतदेशवृत्तितापि हेतुमन्तरेति शङ्काशयः। आकाशत्वादीनामाकाशस्वभावत्वादेव हेतुमन्तरापि नियतदेशवृत्तिता भविष्यतीत्यभिप्रायवान् समाधत्ते-नेति । इतीति-- इतिशब्दो हेतौ वर्तते, तथा च निरुक्तहेतोः, आकाशवादीनामाकाशस्वभावत्वादेवेत्यर्थः चिनापि कारणमन्तरापि, कारणे सति तु देशनियमो भवतीह तु कारणमन्तरापि देशनियम इत्यर्थस्यापि नाप्रेडनम् । तेषाम् आकाशत्वादीनाम् । देशनियमः गगनादिदेश एव वृत्तिर्न त्वन्यत्र इति नियमो भवतीति शेषः । नन्वाकाशत्वादीनामाकाशादिस्वभावत्वेऽपि देशनियमः कथम् ? कथं न सर्वत्र वृत्तिरित्याकाहायामाह- आकाशत्वादीनामिति- आकाशवादीनां सर्वत्र वृतित्वे आकाशादिस्वभावत्वमेव न स्यात् , तद्भिन्नतो व्यावृतत्वे सति तद्वृत्तिधर्मस्यैव तत्स्वभावत्वादित्यर्थः, तथा चाकाशत्वादीनामाकाशस्वभावत्वमन्यथानुपपद्यमानमाकाशादिरूपदेशं नियमयति, नान्यः कश्चिदश हेतरिति भावः । नन्वाकाशत्वादीनामाकाशस्वभावस्वमिति कुतोऽवधारितमित्याकालायामाह-तत्स्वभावत्वं च भाकाशवादीनामाकाशस्वभावत्वं पुनः, धर्मिग्राहकेति- आकाशत्वस्य धर्मी आकाशः, तग्राहकं मानमनुमानम्-'शब्दो द्रव्यसमवेतो विशेषगुणत्वाद् रूपादिवत्' इति सामान्यतो द्रव्याश्रितत्वसाधकानुमानतो भूम्यादिप्रसिद्धाष्टद्रव्यसमवेतत्वबाधे सति 'पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसमवेतोऽष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वाद् यन्ने तन्नैवं यथा रूपादि' इति परिशेषान. मानम् तेन सिद्धमिति । नन्वाकाशस्वादीनामाकाशादिस्वभावस्वाद् यथा हेतुं विनवाकाशादिव्यतिरिक्तघटादिदेशव्यावृत्तत्वं तथा कादाचित्कत्वमपि घटादिस्वभावत्वादेव हेतुं विनैव घटाद्यतिरिकाकाशादिव्यावृत्तमिति दुर्दुरुटः स्वभाववादी शडतेमवमिति । नहि कादाचित्कत्वं यदा कदाचित् सत्वमात्रं येन हेतुं विनैव भवेत् . किन्तु पूर्वकालासत्त्वे सस्वम.