________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
-
गगनादिव्यावृत्तमस्त्विति चेत् ? न-- कादाचित्कत्वस्यावधिनियतत्वात्। सन्त्यवधयो न त्वपेक्ष्यन्त इति चेत् ? न-नियतपश्चाद्धावित्वस्यैवापेक्षार्थत्वात् , अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत । तन्नियः तत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुजनकत्वमिति चेत् ? उपकारो हि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात् , अन्यथोपकारहेतुत्राय उपकारेऽप्युपकारान्तरस्वीकारे अनवस्थापत्तेः, तर्हि घटादिनियतत्वं कपालादेरेव न तन्वादाविति कुत इति चेत् ? स्वभावादेवेति गृहाण, अथ तथापि ग्राहकाभावात् तदसिद्धिः, न च धूमादौ वतयादेरन्वय-व्यतिरेकानुविधायित्वज्ञानसचिव वयादिप्रत्यक्षमेव हेतुहेतुमद्भावग्राहकम् , धूममात्रेऽन्वय व्यतिरेकज्ञानासम्भवात् , यत्किश्चिद्धमे रास
-winnamrunnamention
तच्चावधिनियतत्वात् सहेतुकत्वव्याप्तमेवेति हेतुं विना न तस्य गगनादिव्यावृत्तत्वमिति समाधत्त-नेति । समाधानामिसन्धिमजानानः परः शङ्कते-समत्ववधय इति । न स्वपेक्ष्यन्त इति - कार्येणावधयो नापेक्ष्यन्ते, कार्यस्य नावध्यपेक्ष्यत्वमित्यर्थः । तदपेक्षत्वं तदनन्तरभावित्वमेव, तच्च कार्यस्यावध्यवहितोत्तरक्षणभाविनोऽप्यस्तीति कथं नावध्यपेक्ष्यत्वं कार्यस्येति समाधत्ते- नेति। नियतपश्चाद्भावित्वस्यैव नियमत उतरकालोत्पत्तिकत्वस्यैव । अन्यथा नियतपश्चाद्भावित्वस्यापेक्षार्थत्वाभावे । गर्दभादिति- सामान्यतो वहः पश्चाद्भावित्वस्येव गर्दभात् पश्चाद्भावित्वस्यापि धूमे सत्त्वमिति धूमः स्वोत्पत्ती वट्विमिव गर्दभमप्यवधीकुर्यात् , तथा च वढेधूम इत्येवं यथा प्रतीयते तथा गर्दभाद् धूम इत्यपि प्रतीयतेत्यर्थः । ननु वहेधूमनियतत्वेऽपि धूमगतोपकाराजनकत्वान्न तज्जनकत्वमित्याशङ्कते- तन्नियतत्वेऽपीति- अवधीनां कार्यनियतत्वेऽपीत्यर्थः । “ त तुजनकत्व" इत्यस्य स्थाने “ तज्जनकत्व " इति पाठो युक्तः । समाधत्ते- उपकार इति । हि यतः । कार्यगतोपकारः कार्यगतकार्यमेव, एवं च कार्यगतकार्यजनकस्य कार्यजनकत्वमिति स्यात् , तच न युक्त कार्यगतकार्यजनकत्वस्य कार्यजनकत्वेऽप्रयोजकत्वादित्यर्थः । अन्यथा तद्गतोपकारलक्षणकार्यजनकत्वस्य तन्जनकत्वाप्रयोजकत्वाभ्युपगमे । उपकारहेतुत्वाय कार्यगतोपकारहेतुत्वार्थम् । उपकारेऽपि उपकारात्मककार्येऽपि, उपकारात्मककार्यजनकत्वं तदैव भवेद् यद्यपकारात्मककार्यगतोपकारजनकत्वं स्थान, एवमुपकारात्मककार्यगतोपकारात्मक कार्यजनकत्वमप्युपकारात्मककार्यगतोपकारात्मक कार्यगतोपकारजनकत्वं स्यादित्येवमनवस्थाप्रसङ्गादित्यर्थः । ननु कार्यगतोपकाराजनकस्यापि कार्यनियतत्वाभ्युपगमे घटादिगतोपकाराजनकस्य कपालादेर्घटादिनियतत्वं भवति न तन्त्वादेरित्यत्र किं नियामकम् ? नियामकाभावे तु तन्वादेरपि घटादिनियतत्वं प्रसज्यतेत्याशयेन पृच्छति- तहीति । कपालादेरेवायं स्वभावो यदुत- स घटादिनियतो भवति ने तन्वादेरित्युत्तरयति-स्वभावादेवति । इति गृहाण इति जानीहि । नन्वेवं कपालत्वेन कपालस्य घटं प्रति कारणत्वं घटत्वेन घटस्य कपालकार्यत्वमित्युपगतं भवेत् , एवं धूमत्वेन वह्नित्वेन धूमवयोः कार्यकारणभाव इति, तच न सम्भवतिकार्यकारणभावग्राहकप्रमाणाभावेन कार्यकारणभावस्यैवासिद्धरित्याशङ्कते- अथेति । तथापि स्वभावानियतत्वसम्भवेऽपि । ग्राहकाभावात् कार्यकारणभावमाहकप्रमाणाभावात् , तदसिद्धिः कार्यकारणभावासिद्धिः । वह्निसत्त्वे धूमसत्त्वं वहयभावे धूमाभाव इत्येवं वहिधूमयोर्यावन्वय व्यतिरेको तत्सहकृतं वयादिप्रत्यक्षमेव वह्नि-धूमयोः कार्यकारणभावनाहक प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति । धूमादाविति-धूमादौ यद् वहयाद्यन्वयानुविधाय्यन्वयित्वं यच वहयादिव्यतिरेकानविधायिव्यतिरेकित्वं तदुभयज्ञानसहकृतमेव वह्नयादिप्रत्यक्षमेव कार्यकारणभावग्राहकमित्यर्थः। निषेधे हेतुमाह-धममात्र इति- देशान्तरधूमे बड्यन्वयाविधाय्यन्वयित्वस्थ वहिव्यतिरेकानुविधायिव्यतिरेकित्वस्य च ज्ञानासम्भवेन धूममात्रे सर्वस्मिन् धूमेऽर्थाद् धूमत्वावच्छिन्ने वड्यन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानासम्भवान्न तत्सचिवं बयादिप्रत्यक्ष कार्यकारणभावग्राहकमित्यर्थः । यदि च यत्किञ्चिद्भूमे वह्नयन्वय-व्यतिरेकित्वज्ञानसह कृतं वयादिप्रत्यक्षं वहिधूमयोः कार्यकारणभावस्य ग्राहकमुपेयते तदा यत्किञ्चिद्भूमे रासभाद्यन्वय-व्यतिरेकानुविधाय्यन्वय व्यतिरेकित्वज्ञानमप्यस्तीति तत्सचिवं रासभादिप्रत्यक्षमपि धूमरासभायोः कार्यकारणभावग्राहकं भवेदिति धूमं प्रति रासभादेरपि कारणत्वं प्रसज्येतेति प्रतिक्षेपहेतुमुपदर्शयति-यत्किश्चिद्धम इति । तथाज्ञानात् अन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानात् । ननु क्वचिद् रासभादिकमन्तरेणापि धूमोत्पत्तिदृश्यत इति व्यतिरेकव्यभिचारज्ञानान्न धूम-रासभायोः कार्यकारणभावग्रह इत्याशङ्कते- रास.