Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 203
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझती भयोपदेश ! १५॥ व्यवहारपक्षपाति( त्वम् ), तदनभ्युपगमेऽप्युत्पत्त्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वक निगमयन्नाह-- अनुत्पन्नत्वपक्षश्च, नियुक्तौ नैगमे श्रुतः। नेति वेदान्ति-साजयोत्तयोः, सङ्ग्रह-व्यवहारता ॥ ११४ ॥ नयामृत-अनुत्पन्नेत्यादि । अनुत्पन्नत्वपक्षश्च नियुक्तो-नमस्कारनियुक्ती, नैगमे- नैगमनये श्रुतः, " उत्पन्नाणुपन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो । सेसाणं उप्पन्नो" [ ] इति वचनात् । तथा चानुत्पत्तिवादी साक्ष्यो नैगमनयमेवोपजीवेत् , व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहार. नयमिति भावः, इति-हेतोर्वेदान्तिसायोक्यो:- तदर्शनयोः, सङ्गह-व्यवहारता-- सङ्ग्रह-व्यवहाराख्य. शुद्धा-शुद्धद्रव्यार्थिकप्रकृतिकता न भवति, तथा च सम्मात तथोक्तेः का गतिरिति भावः ॥ ११४ ॥ समाधत्ते तथापीति द्वयेन तथाप्युपनिषद् दृष्टिसृष्टिवादात्मिका परा। तस्यां स्वप्नोपमे विश्वे, व्यवहारलवोऽपि न ॥ ११५ ॥ सावधशास्त्रे च नानात्मव्यवस्था व्यवहारकृत् । इत्येतावत् पुरस्कृत्य विवेकः सम्मतावयम् ॥ ११६ ॥ नयामृत-तथापीति । तथापि उपनिषद्- वेदान्तदर्शनप्रवृत्तिः, दृष्टिसृष्टिवादात्मिका पराउत्कृष्टा, मूलाभियुक्ताभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे- जगति सति व्यवहार. क्षणध्वंसानधिकरणलक्षणसम्बन्धात्मकप्रथमक्षणसम्बन्धरूपाया उत्पत्तेरनभ्युपगमेन । व्यवहारबहिर्भावात् प्रथमक्षणसम्बन्धरूपोत्पत्त्यभ्युपमन्तृव्यवहारनयाद् बहिर्भूतत्वात् । इत्यभिप्रायम् इत्याकारकाशयम् । स्पष्टीकरणपूर्वकं स्पष्टावेदनपुरस्सरम् । विवृणोति - अनुत्पन्नेत्यादीति । निर्युक्तावित्यस्य स्पष्टीकरण- नमस्कारनियुक्ताविति- वेन नियुक्ति ग्रन्थबहुप्रकरणकत्वेन तत्र कुत्रोक्तमिति जिज्ञासाया नोन्मेषः । नैगमेऽनुत्पन्नत्वपक्ष' इत्यस्य प्रतिपादकं नमस्कारनियुक्तिवचनमुट्टतयति- उत्पन्न० इति-“ उत्पन्नानुत्पन्नोऽत्र नय आदिनिगमस्यानुत्पन्नः । शेषाणामुत्पन्नः" इति संस्कृतम् । तथा च नैगमनयस्यानुत्पन्नत्वपक्ष इति व्यवस्थितौ च । व्यवहारनयमित्यनन्तरमुपजीवेदित्यस्यानुवृत्तिः । मूले इतिशब्दो हेतुपर इत्याशयेनाह- इति हेतोरिति- एतस्मात् कारणादित्यर्थः । वेदान्ति-साङ्ख्ययोरित्यस्य विवरणम्- तदर्शनयोरिति-वेदान्त सायदर्शनयोरित्यर्थः । सङ्ग्रह-व्यहारतत्यस्य विवरणम्-सङ्ग्रह-व्यवहारास्यशुद्धाशुद्धद्रव्याथिकप्रकृतिकतेति । नेति मूलं भवतीति क्रिया ' यत्रान्यत् क्रियावाचि पदं न श्रूयते.' इत्यादिवचनप्रामाण्यादुपाला । तथा च वेदान्त-सालयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकवाभावव्यवस्थितौ च । “सम्मात" इति मुद्रणदोषात्, अत्र "सम्मतौ" इति पाठः समुचितः, तस्य सम्मतिग्रन्थे इत्यर्थः । तथोक्तः वेदान्ति-साङ्खयदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वकथनस्य, तथा च सम्मतिग्रन्थस्य तत्प्रतिपादकवचनमसङ्गतमिति । इति भावः प्रश्नयितुरेवमाशयः ॥१४॥ पद्यद्वयं युगपदेवावतारयति- समाधते तथापीति द्वयेनेति-तथापीत्यादिपद्यद्वयेनोको शङ्का समाधत्ते- निराकरोतीत्यर्थः । विवृणोति-तथापीतीति- एवं सत्यपीत्यर्थः । उपनिषदित्यस्य विवरणं-वेदान्तदर्शनप्रवृत्तिरिति । परेत्यस्य विवरणम्- उत्कृष्टति । दृष्टसृष्टिवादात्मिकैव वेदान्तदर्शन प्रवृत्तिमत्कृष्टेत्यत्र हेतुमाह- मूलाभियुक्तेति- वेदान्त

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274