Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 204
________________ ३५४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । लषोऽपि- लेशोऽपि नास्ति, तन्मते जाग्रव्यवहारस्य स्वप्नव्यवहारतुल्यत्वात् , तथा च मौलस्य वेदान्तदर्शनस्य व्यवहारापेतस्वेन व्यवहारप्रकृतिता, किन्त्वेकास्मसङ्ग्रहप्रवणतया सङ्ग्रहप्रकृतिव, आकाशोदकपातकल्पमूलदर्शनप्रवृत्तावेव चेयं नयप्रकृतिचिन्ता, इति नार्वाचीनवेदान्तिनां मिथोविरुद्धकल्पनाकोटिक्लेशपराहतानां व्यवहाराभाससमर्थनेनापि प्रतिश्रुतव्याहतिरिति हृदयम् ।। साङ्कथेति । साक्ष्यशास्त्रे च नानात्मना व्यवस्था प्रतिनियतजन्ममरणादिव्यवहारकृद् भवति, इत्येतावत् पुरस्कृत्य- तात्पर्यविषयीकृत्यायं विवेकः सम्मतौ, यदुत- व्यवहारप्रकृतिकं साझ्यदर्शनं सङ्ग्रहप्रकृतिकं च वेदान्तदर्शन मिति, वेदान्तप्रकृति भूतसङ्ग्रहनयेनैकतया विषयी कृतस्यात्मनः भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद् व्यवहारप्रकृतिकत्वं साशयदर्शनस्य विवक्षितमिति तात्पर्यम् , तेन सत्का. दर्शनप्रवर्तकराप्तदृष्टिष्टिवादस्यैवाभ्युपगतत्वादित्यर्थः । तस्यां च दृष्टिसृष्टिवादात्मकवेदान्तदर्शनप्रवृत्तौ तु, प्रपञ्चमात्रस्य ज्ञातसत्त्वमुपैयत इत्येतस्मात् कारणाद् अज्ञातसस्वाभावेन स्वप्नोपमे स्वप्नसदृशे, स्वप्ने दृश्यमानं वस्तु तत्कालीनमेवेति ज्ञातसद् यथा तथा जगदपि यदेव ज्ञायते तदैव सत् नान्यदेति, विश्वे इत्यस्य विवरणं-जगतीति, सतिसप्तमी. यमित्यावेदनाय सतीति । "लेशोऽपि" इत्यस्य स्थाने " व्यवहारलेशोऽपि" इति पाठः सम्यग, व्यवहारलवोऽपी. त्यस्य विवरण-व्यवहारलेशोऽपीति । अत्र हेतुमाह-तन्मत इति- दृष्टिसृष्टि वादिमत इत्यर्थः, जाग्रद्वयवद्दारस्य स्वप्नव्यवहारतुल्यत्वेन स्वप्नव्यवहारो यथा मिथ्या तथा जाग्रस्यवहारोऽपि मिथ्यैवेति भावः । तथा च वेदान्त. दर्शनप्रवृत्तदृष्टिसृष्टिवादात्मकत्वव्यवस्थितौ च । मौलस्य मूलाभियुक्ताभ्युपगतस्य। वेदान्तदर्शनस्य दृष्टिसृष्टिवादात्मकवेदान्तदर्शनस्य । व्यवहारापेतत्वेन व्यवहाररहितत्वेन," व्यवहारप्रकृतिता" इत्यस्य स्थाने "न व्यवहार. प्रकृतिता" इति पाठः समुचितः। यदि वेदान्तदर्शनस्य न व्यवहारप्रकृतिकत्वं तर्हि किंप्रकृतिकत्वमिति पृच्छतिकिन्विति । उत्तरयति- एकात्मेति- एकस्मिन्नात्मनि तत्स्वरूपतो जगत एव सङ्घहस्य प्रवणतया वेदान्तदर्शनस्य सङ्ग्रहप्रकृतितवेत्यर्थः । उक्तयद्याभिप्रायमुपदर्शयति- आकाशोदकपातेति- आकाशादुदकस्य यत् पतनं तद् यदैव दृश्यते तदैव समस्ति तद्वद् जगदपि यदैव दृश्यते तदैवास्तीत्येवमभ्युपगमप्रवणं मूलदर्शनं दृष्टिसृष्टिवादात्मकवेदान्तदर्शनमाकाशोदकपातकल्पमूलदर्शने तस्य प्रवृत्तावेव, एवकारेण दृष्टि सृष्टिवादभिन्न वेदान्तदर्शनप्रवृत्तिव्यवच्छदः । इयं नयप्रकृतिचिन्ता वेदान्तदर्शनं शुद्धद्रव्यार्थिकन यप्रकृतिकं साङ्ख्यदर्शनमशुद्धद्रव्यार्थिकनयप्रकृतिकमित्येवं नयविचारणा । इति एतस्मात् कारणात्, नमः प्रतिश्रुतव्यादतिरित्यनेनान्वयः । अर्वाचीनवेदान्तिनां नवीनवेदान्तिनाम् , एषामेव विशेषणं-मिथोविरुद्धकल्पनाकोटिक्कैशपराहतानामिति- एको वेदान्ती यथा कल्पयति, अन्यो वेदान्ती तत्कल्पनाविरुद्धामेव कल्पनां पूत्करो त्येवं मिथोविरुद्धकल्पनानां या कोटि:- कोटिपदमत्रापरिमितसङ्घयापरं, तथा चापरिमित सङ्ख्यमिथोविरुद्धकल्पनात्मकक्लेशपराहतानामित्यर्थः, उक्तविशेषणशालिनां नव्यवेदान्तिनां यद् व्यवहाराभासस्य समर्थनं तेनापि, प्रतिश्रुतस्य- प्रतिज्ञातस्य वेदान्तदर्शने शुद्ध द्रव्याथिकनयप्रकृतिकत्वस्य, व्याहतिः- भङ्गो नेत्येतादृशं हृदयं- रहस्यमित्यर्थः ॥ ११५ ॥ षोडशोत्तरशततमपद्यं विवृणोति- सासयेतीति । व्यवहार कृदित्यस्य विवरण- प्रतिनियतजन्ममरणादिव्यवहारकृद् भवतीति- नानात्मनां स्वीकारादेव केषाञ्चिन्नरके जन्म, केषाश्चिद् देवगतौ जन्म, केषाञ्चित् तिर्यग्गतौ जन्म, एकस्य यदा जन्म तदाऽपरस्य कस्यचिन्मरणम् , एकोऽमुकशास्त्रज्ञाताऽपरस्तदन्यशास्त्रप्रवीणोऽन्यः सर्वशास्त्रनिपुणः कश्चित् किञ्चिज्ज्ञः, कश्चिद् बद्धः कश्चिन्मुक्त इत्येवं प्रतिनियतजन्ममरणादिव्यवहारो भवतीति नानात्मव्यवस्था व्यवहारकृदित्यर्थः । इत्येतावत् एतावन्मात्रम् । पुरस्कृरयेत्यस्य विवरणं तात्पर्यविषयीकृत्येति । अयं विवेकः सम्मतावित्यस्य फलितार्थमाह - यदुतेति । निरुक्तपद्यभावार्थमावेदयति- वेदान्तेति - वेदान्तदर्शनस्य प्रकृतिभूतो यः शुद्धद्रव्यार्थिकः सध्ग्रहन यस्तेनैकतया विषयीकृतस्यात्मनो यद् भेदकरणम् - एको बद्धोऽपरो मुक्त इत्येवं विभजनं नानात्माभ्युपगमनमिति यावत् , तेन सङ्ग्रहविषयभेदकत्वं यद् व्यवहारनयस्य लक्षणं तस्य समन्वयात्- साङ्खयदर्शने घटनात् साङ्खचदर्शनस्य व्यवहारनयप्रकृतिकत्वं सम्मतिका विवक्षितमिति तात्पर्यम् - अभिप्राय इत्यर्थः। तेन उक्तदिशा साडयदर्शने व्यवहार

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274