Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 210
________________ नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । सम्मतिवृत्तौ नामनिक्षेपावसरे भाषितं तत् शब्दाऽर्थयोर्नित्य सम्बन्ध मात्रवादापेक्षया, " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः " [ जैमिनिसूत्र- ] इति तत्सूत्रे औत्पत्तिक इत्यस्य विपरीतलक्षणया नित्य इति व्याख्यानात् पूर्वपूर्वसङ्केतापेक्षायामनवस्थानान्नित्यपदसम्बन्धाभ्युपगम एव, प्रवृत्तिमूलव्यहाराद्यन्तशुद्धशा वैदम्पर्य पर्यालोचनायां तु तस्य नयसंयोगत्वमेव युक्तम्, अन्यथा शब्दानुशासनेऽपि स्फोटविचारे शब्द तन्मात्रसङ्ग्रहप्राधान्येन नयसंयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दादीनां कथं न स्वसमय तुल्यत्वमिति चेत् ? मूढनयानां तेषां यथावविभागाकरणात्, अत एव यथावन्नयविभागचिकीर्षया सिद्धिः स्याद्वादात् [ सिद्धम० १.१.२. ] इति सूत्रमुपन्यस्य श्रीहेमसूरयः खोपज्ञशब्दानु 29 64 ३६० बसरे नाम -- स्थापना द्रव्य- भावनिक्षेपभेदेन निक्षेपाश्चत्वारस्तत्र नामनिक्षेप निरूपणावसरे । भाषितम् उक्तम् । तत् मीमांसकमतस्याशुद्धद्रव्यार्थिक व्यवहारनय प्रकृतिकस्व कथनम् । शब्दाऽर्थयोर्नित्यसम्बन्धो मीमांसकसम्मत इत्यत्र जैमिनिसूत्रव्याख्यानं प्रमाणयति - औत्पत्तिक स्त्विति - इतिशब्दः स्वरूपपरः । तत्सूत्रे मीमांसादर्शन प्रवर्तक जैमिनिमुनिप्रणीतसूत्रे । उत्पत्तिकृत औत्तिक इति व्युत्पत्स्योत्पत्ति शब्दार्थ उत्पत्तिमान् अनित्य इति यावत्, तथा च शब्दस्यार्थेना नित्य: सम्बन्ध इति स्यादत आह औत्पत्तिक इत्यस्येति - औत्पत्तिक इत्येवंस्वरूप शब्दस्येत्यर्थः । विपरीत लक्षणया औत्पत्तिकविपरीते अनौत्पत्तिके लक्षणया । नन्वीश्वरानङ्गीकर्तृमीमांसकमते नित्यसङ्केतस्याभावेऽप्यनित्याधुनिक पुरुष सङ्केत एव शब्दा-ऽर्थयोः सम्बन्धोऽस्तु तथा च न शब्दस्यार्थेन सह नित्यसम्बन्धसिद्धिरित्यत आह- पूर्वपूर्वेति- आधुनिक संकेतस्थ शब्दार्थसम्बन्धत्वे कस्यचित् पुंसो घटपदात् पटो बोद्धव्य इति सङ्केतस्यापि सम्भवेन घटपदस्य पटोsपि शक्यार्थः स्यात् तत्परिहाराय पूर्वपूर्वपुरुष सङ्केतापेक्ष एवं सङ्केतः शब्दाऽर्थयोः सम्बन्ध इति वाच्यम्, तथा च पटे घटपदस्य सङ्केत न पूर्वपूर्वसङ्केतापेक्ष इति न स सम्बन्धः, किन्तु घटे घटपदसङ्केतः पूर्वपूर्वपुरुषैरपि कृतस्तदपेक्षो घटपदस्य घटे सङ्केतो घटपद-घटरूपार्थयोः सम्बन्ध इत्यनवस्था प्रसज्यत इति नित्यशक्तिलक्षणसम्बन्ध एवं शब्दार्थयोरुपेय इत्यर्थः । प्रवृत्तीति लोके स्वर्गाद्यर्थं यागादौ या प्रवृत्तिस्तन्मूलव्यवहारादिपर्यन्तस्य शुद्धस्य जैमिनिशास्त्रेदम्पर्यस्य पर्यालोचनाय - विचारणायां पुनर्मीमांसकमतस्य नयसंयोगजत्वमेव युक्तमित्यर्थः । अन्यथा उक्तपर्यालोचनायामपि मीमांसकमतस्य नयसंयोगजत्वा नङ्गीकारे । शब्दानुशासनेऽपि अनुशिष्यन्ते प्रकृति-प्रत्ययादिविभागेन प्रतिपाद्यन्ते साधुशब्दा अनेनेति अनुशासनम्, शब्दानामनुशासनं शब्दानुशासनमिति व्युत्पत्या व्याकरणशास्त्रेऽपि अस्य नयसंयोग जत्वमित्यनेनान्वयः । स्फोटविचार इति स्फुटी भवत्यर्थोऽनेनेति स्फोटः, स च वर्णस्फोट : पदस्फोटो वाक्यस्फोट इति त्रिधेति वचना त्रिविधो नित्यः शब्दस्वरूपस्तस्य विचारे । कथं शब्दानुशासने नयसंयोग जत्वानुपपत्तिरित्याकाङ्क्षानिवृत्त्यर्थमेव स्फोटविचारे शब्दतन्मात्रसङ्ग्रह प्राधान्येनेत्युकम् अस्ति च तत्र शब्दतन्मात्रसङ्ग्रहस्यैव प्राधान्यं स्फोटात्मकशब्दस्वरूपस्य परब्रह्मण उपगमाच्छन्दब्रह्मण एवार्थरूपेण विवर्तनादर्थमात्रस्य शब्दात्मक ब्रह्मस्वरूपत्वमित्येवं शब्दतन्मात्रसङ्ग्रह - प्राधान्यम् । अत्र शङ्कते - नयसंयोगत्व इति । शब्दादीनामित्यत्र शब्दपदं शब्दानुशासनपरम् आदिपदादलङ्कारादिशास्त्राणामुपग्रहः। स्वसमयेति - जैनाभिमतस्याद्वादराद्धान्तेत्यर्थः, यथा स्याद्वादराद्धान्ते नयसंयोगजत्वं तथा शब्दानुशासनालङ्कारादिशास्त्राणामपीति स्याद्वादराद्धान्तस्य जैनसमयत्ववच्छन्दानुशासनादिशास्त्राणामपि जैन समयत्वमापयेतेत्यर्थः । समाधत्ते - मूढनयानामिति - अन्योऽन्यनिरपेक्ष सामान्य विशेषाद्यर्थमाहकत्वान्मिथ्यानयानामित्यर्थः । तेषां शब्द -ऽलङ्कारादिशास्त्रणाम् । यथावद् विभागाकरणादिति एतदपेक्षयेदमभिहितमेतदपेक्षया त्विदमुक्तमित्येवमपेक्षाभेदेन यन्नयविषयविभजनं तस्याकरणान्न शब्दाऽलङ्कारादीनां नयसंयोगजत्वेऽपि स्वसमय तुल्यत्वमित्यर्थः । अत एव इत्यस्य 'आविश्वकुः ' इत्यनेनान्वयः, श्रीहेमसूरय इत्यस्याप्याविश्चकुरित्यनेनान्वयः । स्वोपश्चेति- स्वनिर्मितेत्यर्थः, स्वपदेनात्र श्रीहेमसूरीण प्रहणम्, स्वोपज्ञशब्दानुशासनस्येत्यस्य दृढप्रामाण्यमित्यनेन सम्बन्ध: । स्वसमयान्तर्भावेन जैनराद्धान्तान्त. भवन, जैनराद्धान्तस्य निश्चितप्रामाण्यकत्वेन तदन्तर्भूतस्य श्रीहेमचन्द्रसूरिनिर्मित शब्दानुशासनस्यापि सुदृढं प्रामाण्यमिति ।

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274