Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 207
________________ गयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः। स्वतोऽनुवृत्ति-व्यतिवृत्तिभाजो, भावा न भावान्तरने यरूपाः । परात्मतत्त्वादतथात्मतत्त्वात् , द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥" [अन्ययोगव्यवच्छेदद्वात्रिंशिका श्लो० ] एतेन नैयायिकदर्शनमपि व्याख्यातम् , पदार्थप्रमाणादिभेदं विना प्रायस्तस्य वैशेषिकदर्शनसमानविषयत्वादिति दिक् ॥ ११८ ॥ ननु सङ्घह-व्यवहारयोरेव विषयविवेकेन नैगमस्यान्तर्भावे तस्य पार्थक्ये किं बीजम् ? अदर्शनेऽपि किञ्चित् कल्पयाम इति चेत् ? तर्हि दृष्टं स्वतन्त्रद्रव्य-पर्यायोभयविषयत्वमेव तथास्तु, तथा च तत एव कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाह स्वतन्त्रव्यक्ति-सामान्यग्रहायेष्टे तु नैगमे ।। औलुक्यसमयोत्पत्तिं ब्रमहे तत एव हि ॥ ११९ ॥ नयामृत-स्वतन्त्रेति- स्पष्टार्थः । अत्र चार्थे प्रदर्शितन्यायेन द्रव्य-पर्यायरूपमुभयमपि पर. स्परविविक्तमेकत्र विद्यत इत्यभिप्रायः, “ नैगमोऽशुद्धद्रव्यास्तिकप्रकृतिः" इति सम्मतिवृतिस्वरसोऽपीति ध्येयम् ॥ ११९ ॥ तथा घटत्वं सामान्यं पटत्वं सामान्यं मठत्वं सामान्यमित्येवं सामान्येष्वप्यनुगतप्रत्ययानुरोधेन सामान्यत्वसामान्यस्यातिरिकस्याभ्युपगमः स्यात् , एवं तत्रापीत्यनवस्थानं स्यात् , विशेषेऽपि चायं विशेष एतस्माद् विशेषाद्र भिन्न इति व्यावृत्तिप्रत्ययानुरोधेन विशेषेऽप्यतिरिक्तविशेषस्तत्राप्यतिरिक्तविशेष इत्यनवस्थानं प्रसज्येनेत्यतो वस्तुन एव स्वतः सामान्यविशेषात्मकत्वमभ्युपेयमित्यर्थः, उक्तार्थे श्रीहेमचन्द्रसूरिवरवचनसंवादमाह- तदिदमुक्तमिति । स्वत इति- स्वत एवानुवृत्ति व्यावृत्तिभाजः, अनुगतप्रतीतिव्यावृत्तिप्रत्यययोर्विषयत्वाजनकत्वाच्च सामान्यविशेषात्मका घट-पटादययो भाचा भावान्तरेण- आश्रयव्यतिरिक्तन सामान्येन विशेषेण च नेयरूपा:- ज्ञाप्यरूपा अनुगत-व्यावृत्तिप्रतीतिविषया न, एवं च परात्मतत्वाद्- वस्त्वात्मकाश्रयव्यतिरिक्तसामान्य विशेषात्मकतत्त्वात् , कथम्भूतात् ? भतथात्मतत्त्वात्- तथाऽऽत्मतत्त्वं न भवती. त्यतथात्मतत्त्वं तस्मात् , वस्तुव्यतिरिक्तसामान्य-विशेषतत्त्वं न भवत्येवेत्यतः शशशृङ्गकल्पात् , द्वयम्- अनुवृत्तिव्यावृत्तिबुद्धिद्वयम् , वदन्तः- कथयन्तो वैशेषिकाः, अकुशला:- तत्त्वनिरूपणासमर्थाः स्खलन्ति- बादरणभूमौ पराजयलक्षणां स्खलनां प्राप्नुवन्तीत्यर्थः, पतेन वैशेषिकदर्शनखण्डनेन, अस्थ व्याख्यातमित्यनेनान्वयः। व्याख्यातं खण्डिततया व्याख्यानं खण्डितं भवतीति। एकमतखण्डने तदन्यमतस्य खण्डनं कथमित्यत आह- पदार्थप्रमाणादिभेदं विनेति- पदार्थप्रमाणादिसड्याभेदं विनेत्यर्थः । वैशेषिकमते द्रव्यादयः सप्त पदार्थाः, प्रत्यक्षानुमाने द्वे एव प्रमाणे, नैयायिकदर्शने प्रमाण-प्रमेयादयः, पदार्थाः षोडश, प्रमाणानि प्रत्यक्षा-अनुमानोपमान-शब्दाख्यानि चत्वारीत्येवं पदार्थप्रमाणसङ्ख्याभेदः। न्यायभेदे समवायस्य प्रत्यक्षं भवति, वैशेषिकमते यावत्सम्बन्धिप्रत्यक्षे सत्येव सम्बन्धप्रत्यक्षमिति नियमात् सम्बन्धिनां परमाण्वादीनां प्रत्यक्षा. भावात् समवायो न प्रत्यक्ष इत्यपि विशेषोऽस्तीत्यत उफम्-प्राय इति । तस्य नैयायिकदर्शनस्य ॥११८ ॥ एकोनविंशत्युत्तरशततमपद्यमत्रतारयति-नन्वित्यादिना, विषयविवेकन सामान्यविषयकत्वात् सामान्यविषयकनगमस्य साहेऽन्तर्भाव:, विशेषविषयकत्वाद् विशेषविषयकनगमस्य व्यवहारऽन्तर्भाव इत्येवं विषयविवेकेन । तस्य नैगमस्य। पार्थक्ये समह व्यवहाराभ्यां भिन्नत्वे, अन्ये देवसूरिप्रभृतयः सङ्ग्रह व्यवहाराभ्यां नेगमस्य पार्थक्यमामनन्तीत्यत्र किं बीमित्यर्थः । शङ्खत- अदर्शनेऽपीति- नैगमपार्थक्यवीजस्यादर्शनेऽपि, किञ्चिन्नैगमपार्थक्यबीजं कल्पयाम इत्यर्थः । समाधसे-तहीति- अदृष्टस्य कस्यचिन्नेगमपार्थक्यबीजस्य कल्पनापेक्षया लापवान्नैगमे दृष्टमेव सामान्यविशेषोभयविषयकत्वं

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274