Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
मनःसम्बन्धश्चेति तद्भिन्नोऽहङ्कारो नियतविषयाभिमानव्यापारः स्वीकार्यः । सुषुप्ताविन्द्रियस्य व्यापारविरतावपि ययापारादुच्छ्वास-प्रश्वास सन्ततिर्जायते तद् बुद्धितत्त्वं प्रागुक्तभावाष्टकयोगि स्वीकार्यम्, तस्य ज्ञानरूपपरिणामेन सम्बन्धो विषयः पुरुषस्य स्वरूपतिरोधायकः । एवं च बुद्धितत्त्वनाशादेव विषयावच्छेदाभावात् पुंसो मोक्षः, भेदाग्रहाच्च ' चेतनोऽहं करोमि ' इत्यभिमानः, अत एव -
99
" प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा, कर्ताहमिति मन्यते ॥ [ गीता, अ० लो० ] इति स्मर्यत इति । अत्र नैयायिकादय: - ' चेतनोऽहं करोमीति बुद्धेरसति बाधके भ्रमत्वायोगाचैतन्य कृत्यादिधर्मवत्येव बुद्धि: स्वीकर्तव्या, तथा च आत्मनो नामान्तरमेतत्, अथ 'बुद्धिरचेतना परिणामित्वात् तन्तुवत् ' इति चेत् ? तर्हि ' बुद्धिर्न कृतिमती तत एव तद्वत् 'न धर्मा-धर्मादिमती जन्यत्वाद् घटवद्
1
"
३५०
विषयेण यदा सम्बन्धस्तदानीं तद्विषय-पुरुषयोरवच्छेद्यावच्छेदकभाव इति कदाचिद् घटज्ञानं कदाचित् पटज्ञानमिति व्यासङ्ग उपपद्यत इति भावः । अहङ्कारकल्पनस्यावश्यकत्वं दर्शयति- स्वप्नावस्थायामिति । तद्भिन्नः मनोभिन्नः, अन्यत् स्पष्टम् । बुद्धितत्वाभ्युपगमस्यावश्यकत्वं दर्शयति- सुषुप्ताविन्द्रियस्येति । तस्य बुद्धिसत्वस्य । घटः पट इत्थाकारको यो ज्ञानात्मक परिणामस्तेन सह विषयविषयिभावसंबन्धेन संबद्धो घटपटादिलक्षणो विषयः पुरुषस्यान्यासम्पृका खण्ड चैतन्यस्वरूपस्य तिरोधायक आवरको भवति, तथा च स्वविषयक बुद्धिपरिणामज्ञानातात्त्विक संबन्धात् पुरुषसम्बद्धो घटादिः पुरुषस्वरूपतिरोधायक इत्यर्थः । बुद्धिपरिणामेन ज्ञानेन पुरुषस्य यो घटमदं जानामीत्येवंस्वरूपोऽतात्त्विकसम्बन्धः स एवोपलब्धिरुच्यते, तथा च बुद्धितत्त्वबलादेव परम्परया पुरुषे विषयसम्बन्धलक्षणो विषयावच्छेद इति बुद्धितश्वनाशाद् विषयावच्छेदस्याप्यभावान्मोक्षो भवतीत्याह एवं चेति । भेदाग्रहाच्च युद्धया सह पुरुषस्य यो भेदस्तदप्रहात् पुनः । उक्तार्थे भगवद्गीतावचनसंवादमाह - अंत एवेति- बुद्धया पुरुषस्य भेदाग्रहाचेतनोऽहं करोमीत्यभिमानस्य भावादेवेत्यर्थः । प्रकृतेरिति - प्रकृतेर्गुणै:- सत्त्वरजस्तमोभिः क्रियमाणानि सर्वशः कर्माणि कार्याणि, किन्तु अहङ्कारविमूढः - बुद्धधा सह भेदेनागृहीत आत्मा पुरुषोऽहं कर्तेत्येवं मन्यत इत्यर्थः । निरुक्तप्रकृत्यादिपञ्चविंशतितत्त्वाभ्युपगमप्रवणसांख्यमतायु तत्वावेदनाय तन्मतखण्डनपदिष्ठयुक्तिकल्पननिष्णातान् नैयायिकादीन् प्रतिमल्लतयोत्थापयति- अत्रेति । नैयायिकादय इति - अस्य आहुरित्यनेन सम्बन्धः । किमाहुरित्यपेक्षायामाह - चेतनोऽहं करोमीति बुद्धेरिति - अस्य भ्रमत्वायोगादित्यनेन सम्बन्धः, चैतनोऽहं करोमीति बुद्धिर्यदि चैतन्यांशे भ्रमात्मिका स्यात् तदा कर्तरि महत्तश्वे चैतन्यस्यारापोपपत्तयेऽन्यवेतन: स्वीकरणीयः स्यात् कश्चित् प्रमितमेवान्यत्रारोप्यते नाप्रमितमिति नियमात् बाधके सति भ्रमत्वं भवति नान्यथा, न च कर्तरि चैतन्यस्य किञ्चिद् बाधकं समस्तीति य एव कर्ता स एव चेतन इति चैतन्य-कृत्यादिधर्मवत्येव बुद्धि: स्वीकरणीया, एवं च परमते य एव चेतनः कर्ता च तस्यैवात्मेति संज्ञेत्यात्मशब्दसंशब्दिते पुरुषे बुद्धिरिति नामान्तरं न तु तदन्यतत्त्वान्तरं बुद्धिशब्दवाच्यमित्यर्थः । ननु बुद्धौ कर्तृतयाऽभ्युपगतायां चैतन्यस्य बाधक मस्त्येवानुमानं प्रमाणमित्याशङ्कते - अथेति । तन्तुवदिति- यथा तन्तुः पटरूपेण परिणमत इति परिणामित्वात् तन्तुरचेतनस्तथा बुद्धिरहङ्काररूपेण परिणमत इति परिणामिवाद् बुद्धिरचेतनेत्यर्थः । परिणामित्वादचैतन्यवदकर्तृत्वमपि साधयितुं शक्यते, तत्रापि तन्तुवदिति दृष्टान्तोद्भावनस्य कर्तुं शक्यत्वादिति प्रतिवन्द्या समाधत्ते - तर्हति । तत एव परिणामित्वादेव । तद्वत् तन्तुवत् । अन्यदप्यनिष्टमेवं साधयतः साङ्ख्यस्य प्रसज्यत इत्याह- न धर्माऽधर्मादिमतीति- घटो यथा जन्यत्वान्न धर्माधर्मादिमान् तथा बुद्धिरपि जन्यत्वान्न धर्माऽधर्मादिमतीत्यर्थः । सांख्य आह- न स्यादिति - जन्यत्वहेतुना बुद्ध धर्माधर्माद्यभावसाधनं न भवेदित्यर्थः । तत्र हेतुमाह- अनुकूलेति- बुद्धौ जन्यत्वमप्यस्तु धर्माधर्मादिमत्त्वमप्यस्त्विति व्यभिचारशङ्कानिवर्तकतर्काभावादित्यर्थः । यदि व्यभिचारशङ्कानिवर्तकतकभावात् संदिग्धव्यभिचारोऽप्रयोजको वा जन्यत्व हेतुर्न बुद्धौ धर्माधर्मादिमत्त्वाभावसाधनाय प्रगल्भते तर्हि परिणामित्वमपि हेतुरनुकूलतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा न चैतन्याभावसाधने समर्थः । तत्रापि परिणामित्वमस्तु चेतनश्वमप्यस्त्वित्येवं व्यभिचारस्य शङ्कितुं शक्य

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274