Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 198
________________ ३४८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । कारणं न कस्यापि कार्य नवा जन्यधर्माश्रय इति कूटस्थनित्य इत्युच्यते, बुद्धिगताश्च धर्मा अज्ञात. परमार्थस्तत्रारोप्यन्ते भटविजयपराजयो राज्ञीव, प्रकृतिरचेतना परिणामिनी आदिकारणं च, तस्याश्चाद्य. परिणामो बुद्धिमहत्वत्त्वापरपर्याया, तस्या धर्मा-ज्ञाना-ज्ञानेश्वर्या नैश्वर्य-वैराग्या-ऽवैराग्य-धर्माऽधर्मरूपाअष्टौ, बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्ना अपि, भावनायास्तैरनङ्गीकारादनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानाभ्युपगमात् , महत्तत्त्वादहङ्कारः, अहङ्काराद् रूप-रस-गन्ध-स्पर्श-शब्दतन्मात्राणि पश्च एका. दशेन्द्रियाणि च । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि जायन्ते, तदुक्तम् - न कार्यः पुरुषः, जन्यधर्माश्रयत्वे धर्मधर्मिणोरभेदाद् धर्मनाशे धर्मिणस्तस्यापि नाशः प्रसज्येतेत्येवमपि कूटस्थनित्यता न स्यादिति जन्यधर्मानाश्रयः पुरुषः कूटस्थनित्य इत्येवमुच्यत इत्यर्थः । नन्वेवै सुख-दुःखादिधर्माधारतया पुरुषप्रतीतिने स्यादित्यत आह-बुद्धिगताश्चेति- बुद्धिरन्तःकरणं महत्तत्त्वम् , तद्गताः-तद्वर्तिनः सुख-दुःखादयो धर्माः, तत्र पुरुष आरोप्यन्ते । कैरारोप्यन्त इत्यपेक्षानिवृत्तये उक्तमझातपरमार्थरिति-अज्ञातः परमार्थो वास्तविकार्थो यैस्तेऽज्ञातपरमार्थाः पुरुषास्तः कूटस्थनित्ये पुरुषे बुद्धिधर्माः सुख-दुःखादय आरोप्यन्त इति सुख-दुःखाद्याधारतया पुरुषप्रतीतिभ्रान्तैवेति तथाविधायास्तस्या नापलाप इति भावः । अन्यगतधर्माणामन्यनारोपतस्तथाप्रतीतिर्भवतीत्यत्र दृष्टान्तमाह-भटविजयपराजयो राशीवेति-रणे मल्लप्रतिमल्लभावनान्योऽन्यं नतां भटानां मध्ये यस्य जयः पराजयो वा भवति तज्जय-पराजयौ तत्स्वामिनि राजनि आरोप्यासी राजाऽमुं राजानं जितवान् अनेन राज्ञा वा पराजित इति बुद्धिरारोपरूपत्वाद् भ्रान्ता यथा भवति तथेत्यर्थः। सालचमते पुरुषमुपादाय प्रकृत्यादिकं पञ्चविंशतिविधं तत्त्वमिति क्रमेण प्रकृत्यादिस्वरूपं निरूपयितुमाह-प्रकृतिरिति- सत्त्व-रजस्तमसा साम्यावस्था प्रकृतिरिति गीयते ।। " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भक चलं च रजः । गुरु वर्णकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१॥" [ ] इतीश्वरकृष्णवचनाद् यद् वस्तु लघुताशालि प्रकाशकताशालि तत् सत्त्वं साडयाचायरिष्टम् , उपष्टम्भक यदि रजो गुणो न भवेत् तदा गुरुणा तमसा प्रतिरुद्धं सत्त्व स्वकार्य न साधयेदित्युपष्टम्भकं- सत्त्वादेः कार्यकरणे उत्तम्भक सहकारि रजः, तथा यदि रजोगुणो न भवेत् तर्हि गुरुणा तमसा व्याप्तं वस्त्वक्रियमेव भवेत् ततश्चलं चलनात्मककियाविष्ट रज उपेयते, एवं च गुर्वपि रजसा चालितं सद् वस्तु सक्रियं भवति, यदि तमो न भवेत् तदा रजसा चालितं लघु सत्वोपेतं वस्तु सर्वदा चलेदेव न कचिदवस्थानमासादयेत् , गुरुणा तमसाऽवरब्धं सर्वदा चलितुमशक्नुवत् किञ्चिचलति किश्चिन्न चलत्यपीति गुरु तमः, एवं यदि तमो न स्यात् प्रकाशकस्वभावेन सत्त्वेनालिङ्गितं वस्तु सर्वदा प्रकाशेत एव कदाचिदप्यप्रकाशो न भवेदिति वरणकमावरणकारि तमः, एवं च यदा तमसः सत्यापेक्षया प्राबल्यं तदा न प्रकाशते, यदा च दौर्बल्यं तदा प्रकाशत इति सिद्ध्यतः प्रकाशाप्रकाशाविति निरुक्तवचनाभिप्रेतार्थः । सा च प्रकृतिः अचेतना न चेतयते, चेतनात्मकपुरुषाभेदारोपाच्च चेतनेव भवति । एवं परिणामिनी बुद्धयाद्यात्मना परिणमते । प्रकृतेर्न किञ्चित् कारणं तस्या अपि कारणाभ्युपगमेऽनवस्थान प्रसज्यत इति न कार्यस्वरूपा सा किन्तु सर्वस्य कार्यस्य कारणमित्याह- आदिकारणं च। तस्याश्च प्रकृतेः पुनः । आद्यपरिणामः प्रथमपरिणामः, प्रकृतिः सत्त्वोद्रेकात् प्रथमतो बुद्धिरूपेण परिणमत इत्यर्थः । “बुद्धिरूपलब्धिज्ञानमित्यनान्तरम् " ] इति गौतमसूत्रात् कौशाच्च बुद्धिर्ज्ञानमिति व्यवहियते लोके, नात्र तहणं किन्तु बुद्धिरन्तःकरणम् , तस्याश्च महत्तत्त्वमिति नामान्तरमित्याहमहत्तत्वापरपर्यायेति । बुद्धेरेव ज्ञानाऽज्ञानादयो धर्मा न चैतन्यस्वरूपस्यात्मन इत्याह - तस्या इति-बुद्धेरित्यर्थः । झानाऽज्ञानेत्यत्र ज्ञानपदनैव ज्ञानस्वरूपाया बुद्धेस्रहणे पुनर्बुद्धि-सुखत्यत्र प्रहणं बुद्धेरन्तःकरणस्य धर्मोऽन्तःकरणरूपा बुद्धिने भवति, किन्तु ज्ञानस्वरूपा बुद्धिरपि साङ्खयाभिमता, सा च बुद्धिधर्म इत्यावेदनाय । अपीत्यनेन 'तस्या धर्माः' इत्यनुकृष्यते । ननु अनुभवात् कालान्तरे स्मृतेरुत्पत्तये तयापारो भावनाख्यसंस्कारो नैयायिकरुपेयत इति भावनाख्यसंस्कारः सालयमते बुद्धिधर्मो भवितुमहतीति भावनाया अपि बुद्धिधर्मतया कथनमुचितमित्यत आह-भावनाया इतिभावनाख्यसंस्कारस्येत्यर्थः । तैः, साङ्खयः । अनङ्गीकारात् अनभ्युपगमात् । नन्वेवं कालान्तरीयानुभवात् स्मृत्युत्पत्त्या

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274