________________
३४८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
कारणं न कस्यापि कार्य नवा जन्यधर्माश्रय इति कूटस्थनित्य इत्युच्यते, बुद्धिगताश्च धर्मा अज्ञात. परमार्थस्तत्रारोप्यन्ते भटविजयपराजयो राज्ञीव, प्रकृतिरचेतना परिणामिनी आदिकारणं च, तस्याश्चाद्य. परिणामो बुद्धिमहत्वत्त्वापरपर्याया, तस्या धर्मा-ज्ञाना-ज्ञानेश्वर्या नैश्वर्य-वैराग्या-ऽवैराग्य-धर्माऽधर्मरूपाअष्टौ, बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्ना अपि, भावनायास्तैरनङ्गीकारादनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानाभ्युपगमात् , महत्तत्त्वादहङ्कारः, अहङ्काराद् रूप-रस-गन्ध-स्पर्श-शब्दतन्मात्राणि पश्च एका. दशेन्द्रियाणि च । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि जायन्ते, तदुक्तम् -
न कार्यः पुरुषः, जन्यधर्माश्रयत्वे धर्मधर्मिणोरभेदाद् धर्मनाशे धर्मिणस्तस्यापि नाशः प्रसज्येतेत्येवमपि कूटस्थनित्यता न स्यादिति जन्यधर्मानाश्रयः पुरुषः कूटस्थनित्य इत्येवमुच्यत इत्यर्थः । नन्वेवै सुख-दुःखादिधर्माधारतया पुरुषप्रतीतिने स्यादित्यत आह-बुद्धिगताश्चेति- बुद्धिरन्तःकरणं महत्तत्त्वम् , तद्गताः-तद्वर्तिनः सुख-दुःखादयो धर्माः, तत्र पुरुष आरोप्यन्ते । कैरारोप्यन्त इत्यपेक्षानिवृत्तये उक्तमझातपरमार्थरिति-अज्ञातः परमार्थो वास्तविकार्थो यैस्तेऽज्ञातपरमार्थाः पुरुषास्तः कूटस्थनित्ये पुरुषे बुद्धिधर्माः सुख-दुःखादय आरोप्यन्त इति सुख-दुःखाद्याधारतया पुरुषप्रतीतिभ्रान्तैवेति तथाविधायास्तस्या नापलाप इति भावः । अन्यगतधर्माणामन्यनारोपतस्तथाप्रतीतिर्भवतीत्यत्र दृष्टान्तमाह-भटविजयपराजयो राशीवेति-रणे मल्लप्रतिमल्लभावनान्योऽन्यं नतां भटानां मध्ये यस्य जयः पराजयो वा भवति तज्जय-पराजयौ तत्स्वामिनि राजनि आरोप्यासी राजाऽमुं राजानं जितवान् अनेन राज्ञा वा पराजित इति बुद्धिरारोपरूपत्वाद् भ्रान्ता यथा भवति तथेत्यर्थः। सालचमते पुरुषमुपादाय प्रकृत्यादिकं पञ्चविंशतिविधं तत्त्वमिति क्रमेण प्रकृत्यादिस्वरूपं निरूपयितुमाह-प्रकृतिरिति- सत्त्व-रजस्तमसा साम्यावस्था प्रकृतिरिति गीयते ।। " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भक चलं च रजः । गुरु वर्णकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१॥" [ ]
इतीश्वरकृष्णवचनाद् यद् वस्तु लघुताशालि प्रकाशकताशालि तत् सत्त्वं साडयाचायरिष्टम् , उपष्टम्भक यदि रजो गुणो न भवेत् तदा गुरुणा तमसा प्रतिरुद्धं सत्त्व स्वकार्य न साधयेदित्युपष्टम्भकं- सत्त्वादेः कार्यकरणे उत्तम्भक सहकारि रजः, तथा यदि रजोगुणो न भवेत् तर्हि गुरुणा तमसा व्याप्तं वस्त्वक्रियमेव भवेत् ततश्चलं चलनात्मककियाविष्ट रज उपेयते, एवं च गुर्वपि रजसा चालितं सद् वस्तु सक्रियं भवति, यदि तमो न भवेत् तदा रजसा चालितं लघु सत्वोपेतं वस्तु सर्वदा चलेदेव न कचिदवस्थानमासादयेत् , गुरुणा तमसाऽवरब्धं सर्वदा चलितुमशक्नुवत् किञ्चिचलति किश्चिन्न चलत्यपीति गुरु तमः, एवं यदि तमो न स्यात् प्रकाशकस्वभावेन सत्त्वेनालिङ्गितं वस्तु सर्वदा प्रकाशेत एव कदाचिदप्यप्रकाशो न भवेदिति वरणकमावरणकारि तमः, एवं च यदा तमसः सत्यापेक्षया प्राबल्यं तदा न प्रकाशते, यदा च दौर्बल्यं तदा प्रकाशत इति सिद्ध्यतः प्रकाशाप्रकाशाविति निरुक्तवचनाभिप्रेतार्थः । सा च प्रकृतिः अचेतना न चेतयते, चेतनात्मकपुरुषाभेदारोपाच्च चेतनेव भवति । एवं परिणामिनी बुद्धयाद्यात्मना परिणमते । प्रकृतेर्न किञ्चित् कारणं तस्या अपि कारणाभ्युपगमेऽनवस्थान प्रसज्यत इति न कार्यस्वरूपा सा किन्तु सर्वस्य कार्यस्य कारणमित्याह- आदिकारणं च। तस्याश्च प्रकृतेः पुनः । आद्यपरिणामः प्रथमपरिणामः, प्रकृतिः सत्त्वोद्रेकात् प्रथमतो बुद्धिरूपेण परिणमत इत्यर्थः । “बुद्धिरूपलब्धिज्ञानमित्यनान्तरम् "
] इति गौतमसूत्रात् कौशाच्च बुद्धिर्ज्ञानमिति व्यवहियते लोके, नात्र तहणं किन्तु बुद्धिरन्तःकरणम् , तस्याश्च महत्तत्त्वमिति नामान्तरमित्याहमहत्तत्वापरपर्यायेति । बुद्धेरेव ज्ञानाऽज्ञानादयो धर्मा न चैतन्यस्वरूपस्यात्मन इत्याह - तस्या इति-बुद्धेरित्यर्थः । झानाऽज्ञानेत्यत्र ज्ञानपदनैव ज्ञानस्वरूपाया बुद्धेस्रहणे पुनर्बुद्धि-सुखत्यत्र प्रहणं बुद्धेरन्तःकरणस्य धर्मोऽन्तःकरणरूपा बुद्धिने भवति, किन्तु ज्ञानस्वरूपा बुद्धिरपि साङ्खयाभिमता, सा च बुद्धिधर्म इत्यावेदनाय । अपीत्यनेन 'तस्या धर्माः' इत्यनुकृष्यते । ननु अनुभवात् कालान्तरे स्मृतेरुत्पत्तये तयापारो भावनाख्यसंस्कारो नैयायिकरुपेयत इति भावनाख्यसंस्कारः सालयमते बुद्धिधर्मो भवितुमहतीति भावनाया अपि बुद्धिधर्मतया कथनमुचितमित्यत आह-भावनाया इतिभावनाख्यसंस्कारस्येत्यर्थः । तैः, साङ्खयः । अनङ्गीकारात् अनभ्युपगमात् । नन्वेवं कालान्तरीयानुभवात् स्मृत्युत्पत्त्या