________________
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
३४७
अघटकाझाने शक्तिद्वयस्यावश्यकत्वेन तद्गर्भजीवत्वेश्वरत्वयोरनादित्वस्य यौक्तिकत्वात् तयोरभेदानुपपत्ते. लक्षणया अद्वयचिन्मात्रधीवक्तव्या । तस्माद् दृष्टिसृष्टिवादेऽपि यथोक्तानुष्ठानवता तत्त्वज्ञानादखण्डानन्दब्रह्मस्वरूपा मुक्तिर्युक्तैव, एतच्छुद्धद्रव्यास्तिकप्रकृतिकमत द्वयं पर्यायार्थिकनययुक्तिभिर्निर्लोठनीयमवतारणीयं च स्याद्वादे ॥ ११० ॥
अशुद्धाद् व्यवहाराख्यात्, ततोऽभूत् सांख्यदर्शनम् ।
चेतना-ऽचेतनद्रव्याऽनन्तपर्यायदर्शकम् ॥ १११ ।। नयामृत-अशुद्धादिति । व्यवहाराख्यात्- व्यवहारनामधेयात् , अशुद्धात् ततः- द्रव्यार्थिक. नयात् साक्ष्यदर्शनमभूत् , कीदृशं तत् ? चेतनश्वाचेतनद्रव्यं च अनन्तपर्यायाश्च- आविर्भाव-तिरोभावामकाः, तेषां दर्शकं प्रतिपादकमिति यावत् । तथा च तन्मतरहस्यम्- पुरुषस्तावञ्चिद्रूपो न कस्यापि प्रचयिता पुनः शङ्कते- उभयमपीति-ईश्वरत्वं जीवस्वं चेत्युभयमपीत्यर्थः, तथा चेश्वरत्वेनेश्वराभावस्येव , जीवत्वेन जीवाभावस्यापीष्टत्वमेवेति भावः। समाधत्ते-नेति। "साक्षित्व" इत्यस्य स्थाने " साक्षिभास्यत्व" इति पाठो युक्तः, साक्षी द्विविधो जीवसाक्षी ईश्वरसाक्षी च; साक्षी च स्वयं भासत इति तेनेश्वरो जीवश्च भासते, साक्षी च साक्षित्वेनैवावभासत इत्यनुभवसिद्धत्वादीश्वरजीवयोरीश्वरत्व-जीवस्वधर्माकान्तयोन भाव इत्यर्थः । जीवत्वेश्वरत्वयोरनादित्वं व्यवस्थापयति-घटकेति- "अघटकाशाने" इत्यस्य स्थाने “ घटकाज्ञान" इति पाठो युक्तः, अज्ञानावरणविशिष्टचैतन्यत्वं जीवत्वमज्ञानविक्षेपशक्तिविशिष्टचैतन्यत्वमीश्वरत्वमित्येवं जीवत्वेश्वरत्वलक्षणेऽज्ञानघटिते घटकं यदज्ञानं तत्र शक्तिद्वयस्य आवरणशक्ति-विक्षेपशक्तिद्वयस्य 1 आवश्यकत्वेन अवश्यं स्वीकर्तव्यत्वेन । तद्गर्भजीवत्वेश्वरत्वयो. निरुक्तशक्तिमदज्ञानघटितत्वेन तद्गर्भजीवत्वेश्वरत्वयोः, अनादित्वस्य निरुताज्ञानस्यानादित्वेन तद्घटितयोरप्यनादित्वमित्ये. वमनादित्वस्य, यौक्तिकत्वात् युक्तिसिद्धत्वात् , विशिष्टस्वरूपसन्निविष्टयोर्विशेषणविशेष्ययोर नादित्वे विशिष्टस्याप्यनादित्वमित्यत्र युक्तिः, तयोः अनादिभूतजीवत्वेश्वरत्वरूपविरुद्धधर्मविशिष्टयोर्जीवेश्वरयो:- अभेदानुपपत्तेः तादात्म्यानुपपत्तेः, लक्षणया तत्-त्वंपदयोः शुद्धचैतन्ये जहदजहलक्षणया, अद्वयचिन्मात्रधीः, अद्वितीयं यच्चैतन्यमानं शुद्धचैतन्यं तस्य तत् त्वमसीतिवाक्यजन्या धीः, वक्तव्यत्यर्थः । दृष्टिसृष्टिवादे मुक्तेयुकत्वमुपसंहरति- तस्मादिति । यथोक्तानुष्ठानवता शमदमाद्यनुष्ठानवता पुरुषधुरन्धरेण, पतत् भर्तृहरिमतं वेदान्तिमतं च क्रमेणानन्तर मेवोपपादितम् । शुद्धेतिशुद्रव्यास्तिको यः सङ्ग्रहाख्यो नयस्तत्प्रकृतिक-- तत्कारणकं मतद्वयम्, पर्यायाथिकनयः- ऋजुसूत्रादिनयः, तस्य यैकान्तनित्ये अर्थक्रियाकारित्वलक्षणसत्त्वासम्भवादेकान्तनित्याद्वैतादिकं न सम्भवतीत्यादिका युक्तिस्ताभिनिर्लोठनीयं- खण्डनीयमित्यर्थः। तत् किमद्वैतादिकं न सम्भवति ? सम्भवति अपेक्षाभेदतः 'स्यादद्वैतं स्यादभेदः 'इत्येवं कथंचिदर्थसङ्कटनेन स्थाद्वादे, न वेकान्तवादे इत्याह- अवतारणीयं च स्याद्वाद इति- ग्रन्धगौरवमयाद् प्रन्थकारेण तत्खण्डनमण्डन
लं नोपन्यस्तं किन्तु ग्रन्थान्तरे स्वयं पूर्वसूरिभिश्वोपदर्शितं तत्तदभिलाषुकैरवलोकनीयमिति सूचितम् ॥ ११०॥
व्यवहारनयप्रकृतिकं सालयदर्शनं चेतनाऽ-चेतनादिप्रतिपादकमित्यावेदकमेकादशोत्तरशततमपद्यं विवृणोति- अशद्धादितीति। व्यवहाराख्यादित्यस्य विवरण- व्यवहारनामधेयादिति ! तत इति मूलस्य विवरण-द्रव्यार्थिकनयादिति । उत्तरार्द्धमवतार्य विवृणोति- कीदृशमिति । तत् सायदर्शनम् । अनन्तपर्यायाः किस्वरूपा इत्यपेक्षायामाह- आविर्भाव. तिरोभावात्मका इति, तन्मते कारण-कार्ययोरभेदादुत्पत्तः प्रागपि कार्य विनाशानन्तरमपि च कारणात्मना समस्त्येव, उत्पत्तिस्तस्याविर्भावः, विनाशस्तिरोभाव इति । तथा च सायदशनस्य चेतनाऽचेतनद्रव्याऽनन्तपर्यायप्रदर्शकत्वे च । तन्मतरहस्यं साङ्खयमताभिप्रेतम् । तन्मते पुरुषः किंस्वरूप इत्यपेक्षायामाह- पुरुष इति । तावदिति वाक्यालङ्कारे। चिद्रपः चेतन्यस्वरूपः । न कस्यापि कारणमित्यादिना पुरुषः कूटस्थनित्य इत्यस्य समर्थनम् , पुरुषस्य यत्. किञ्चित् कार्य प्रति कारणत्वे कार्य-कारणयोरभेदात् कार्यनाशे तस्यापि तदात्मना नाशादप्रच्युतानुत्पन्न स्थिरैकत्वभावत्वलक्षणं कूटस्थनित्यत्वं न स्यादित्यकारणं पुरुषः, कार्यरूपत्वे भावकार्यस्य नाशोऽवश्यम्भावीति न निरुक्तकूटस्थनित्यतेति