Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततराङ्गणा तरङ्गिणीतराणभ्या समलकानपिन-38200
३४९
मूलप्रकृतिरविकृतिः, महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ १ ॥ [ ] इति, पञ्च महाभूतान्येकादशेन्द्रियाणि चेति षोडशको वर्गः, तत्राचेतनाया अचेतनप्रकृतिकार्याया बुद्धेचैतन्याभिमानानुपपत्या स्वाभाविक-चैतन्यरूपः पुरुषः सिद्ध्यति । चैतन्यस्य तु नित्यस्य स्वाभाविकेष्टाऽनिष्टविषयावच्छिन्नत्वस्वभावे अनिर्मोक्षापत्तिः, प्रकृत्यधीनस्वेऽपि विषयावच्छिन्नत्वस्य तस्याऽति( पि) नित्यतया तथैवानिर्मोक्षत्वापत्तिः, घटादेरेवानित्यस्य चैतन्यावच्छेदस्य व्यासङ्गानुपपत्तिः, अतो मनः सिद्ध्यति, तत्सम्बद्धन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वम् । स्वप्नावस्थायां व्याघ्रोऽहम् ' 'वराहो. ऽहम् ' इत्यभिमानो दृश्यते, न तु ' नरोऽहम् ' इत्यभिमानः, अस्ति च तत्र नरत्वं सन्निहितमिन्द्रियव्यवहितपूर्वसमयेऽसतः कथं स्मृत्युत्पत्तिरित्यत आह- अनुभवस्यैवेति--तथा च स्मृत्युत्पत्त्यव्यवहितपूर्वसमये सूक्ष्मरूपेणावस्थितादेवानुभवात् स्मृत्युत्पत्तिसम्भवे भावनाख्यसंस्कारकल्पनं परेषाम प्रामाणिकमित्याशयः । प्रकृत्यादिपञ्चविंशतितत्त्वं साडयसम्मतमित्यावेदनाय तत्प्रतिपादिकामीश्वरकृष्णकारिकामुपनिबध्नाति- तदुक्तमिति । मूलप्रकृतिः बुद्धयाधशेषविकृतिप्रथमकारणं प्रकृतिः। अविकृतिः न कस्यापि कार्यमिति विकृतिरूपा न भवति । महदाद्याः सप्त महदहङ्कारपञ्चतन्मात्राणि । प्रकृतिविकृतय इति- महत्तत्त्वमहङ्कारस्य कारणमिति प्रकृतिः, मूलप्रकृतेः कार्यमिति विकृतिरिति प्रकृतिविकृतिः अहङ्कारः, पञ्चतन्मात्रादिषोडशविकारकारणमिति प्रकृतिः, महत्तत्त्वस्य कार्य इति विकृतिरित्येवं प्रकृतिविकृतिः, पञ्चतन्मात्राणि पञ्चमहाभूतकारणमिति प्रकृतिः, अहङ्कारकार्यमिति रीत्येवं प्रकृतिविकृतिरित्यर्थः । षोडशकश्व एकादशेन्द्रियाणि पञ्च भूतानीत्येवं षोडशसङ्ख्यको गणः । विकारः अहङ्कारस्य कार्यत्वादेकादशेन्द्रियाणि विकृतिः, पञ्चतन्मात्रकार्यत्वात् पञ्च महाभूतानि विकृतिः, न चायं षोडशको गणः कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिन भवति, यद्यपि मृदाद्यात्मिका पृथिवी घटादेः कारणं भवति तथापि न तस्य तत्त्वान्तरत्वमिति बोध्यम् । पुरुषः चैतन्यस्वरूपो न कस्यापि कारणमिति न प्रकृतिः प्रकृतिनं भवति, एवं न कस्यापि कार्यमिति न विकृतिः विकृतिर्न भवतीत्यर्थः । षोडशको वर्गः क इत्यपेक्षायामाहपञ्चेति । ननु प्रकृत्यादित एव जगदुत्पद्यत इति निष्प्रयोजनत्वात् पुरुषः प्रकृतिविकृत्यनात्मको नाभ्युपेय इत्यत आहतत्रेति- पञ्चविंशतितत्त्वेष्वित्यर्थः। अचेतनाया इति- यदि पुरुषधर्माः सर्वेऽपि बुद्धावेवाभ्युपगतास्तहि चैतन्यमपि पुरुषधर्मो बुद्धिधर्म एवास्त्विति कथं बुद्धिरचेतनेत्यपेक्षायामाह- अचेतनप्रकृतिकार्याया इति- कार्यकारणयोरभेदात् कारणस्याचैतन्ये कार्यस्याप्यचैतन्यमित्यचेतनप्रकृतिकार्यत्वाद् बुद्ध रचैतन्यं सिद्धयतीत्यर्थः, तथा चाचेतनाया बुद्धेश्चेतनोऽहं करोमीति चैतन्याभिमानो नातिरिक्तचेतनमन्तरेणेति बुद्धिगतचैतन्याभिमानानुपपत्त्या स्वाभाविकचैतन्यरूपः पुरुषः सिद्धधतीति । बुद्धधहङ्कारादिकल्पनस्यावश्यकत्वमुपदर्शयति-चैतन्यस्य विति- चैतन्यस्य पुरुषस्य इष्टानिष्टविषयावच्छेदस्वभावो यदि स्वाभाविकस्तदा पुरुषस्य नित्यत्वात् तत्स्वभावोऽपि नित्य एवाभ्युपेयः, अन्यथा स्वभाव-तद्वतोरभेदात् स्वभावनाशे तद्वतः पुरुषस्यापि नाशः स्यादिति कूटस्थनित्यता तस्य भज्येत, एवं च, स्वाभाविकष्टानिष्टविषयावच्छिन्नस्वभावः पुरुषः सदैवेत्यनिर्मुक्त एव प्रसज्येतत्यर्थः । ननु प्रकृतिरुपयत एच, तदधीन एव पुरुषस्येष्टानिष्टविषयावच्छेदस्वभाव इत्यौपाधिक एवेति तन्नाशान्मुक्तिर्भविष्यतीत्यत आह-प्रकृत्यधीनत्वेऽपीति- विषयावच्छिन्नत्वस्य प्रकृत्यधीनत्वेऽपीत्यन्वयः । तस्थापि प्रकृत्यधीनविषयावच्छिन्नत्वस्यापि । नित्यतयेति- उपाधिसन्निधानस्यानित्य एवौपाधिकस्यानित्यत्वम् , उपाधि सन्निधानस्य नित्यत्वे त्वौपाधिकस्यापि नित्यत्वमेव, प्रकृते चैतन्यरूपपुरुषो नित्यो विभुश्च, प्रकृतिरपि नित्या विभ्वी
ष प्रकृतिसन्निधानस्य सदेव भावेन तन्निबन्धनस्येष्टानिष्टविषयावच्छेदस्यापि सर्वदा भावादनिर्मोक्षापत्तिस्तदवस्थैदेत्यर्थः । ननु घटादेरेवानित्यस्य चैतन्यावच्छेदस्वभाव इति घटादिनाशात् तद्वतचैतन्यावच्छेदस्वभावस्यापि नाशे पुरुषस्य मोक्षो भविष्यतीत्यत आह-घटादिरेवेति-घटादेश्चैतन्यावच्छेदस्वभावे घटादिज्ञानं भवति, तदभावे न भवतीत्यभ्युपेयं स्यात्, किन्तु घटादेश्वैतन्यावच्छेदस्म यदाऽपि भावस्तदापि कदाचिद् घटज्ञानं कदाचित् पटज्ञान मित्येवं व्यासस्यानुपपत्तिः स्यादित्यर्थः। अतो ब्यासङ्गानुपपत्तिप्रसङ्गभयात् । मनः सिद्धयतीति-मनोऽभ्युपगमे च कथं व्यासहोपपत्तिरित्यपेक्षायामाह-तत्सम्बद्धेन्द्रियस्येति- मनःसंबद्धचक्षुरादीन्द्रियस्येत्यर्थः, तथा च मनसा संयुक्तस्य चक्षुरादेयेन

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274