Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयाम्रुततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
66
तत्तदभ्यासादेव, अधिष्ठानस्य स्थायित्वाऽबाधितत्वाभ्यामज्ञानस्य चानादेः सकलसृष्टितोरङ्गीकाराद न बौद्धमतप्रवेशः, तदेवमज्ञानातिरिक्तकारणाभावात् कथं श्रवणादिजन्यं तत्वज्ञानमिति; अत्रोच्यतेलोके अज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे याग-स्वर्गादौ कार्यकारणभाववादीनां वेदान्तिनां यथेष्टाचरणप्रसङ्गात्, तस्माद् घटादेरिव स्वर्ग-नरकादेर्नाज्ञानमात्रजन्यत्वम् अपि तु विहित निषिद्धक्रियाजन्यत्वमपीति । दृष्टानुश्रविकस्थले अर्द्धजरतीयं प्रामाणिकं नो चेत् ? अनात्मदृष्टि [ ष्टे ] रनवसानप्रसङ्गः । अधिष्ठानज्ञाने तदवसानप्रसङ्ग इति चेत् ? न- - तस्यैव हेतुत्वाभावात् । अज्ञानं तद्धेतुरिति चेत् ? न- ततो दृष्टकारणनिरपेक्षया तदुत्पत्त्या शमाद्यनुष्ठानप्रसङ्गात् भ्रान्त्या शमाद्यनुष्ठानमिति चेत् ? स्यादित्यत आह- अधिष्ठानस्येति - अधिष्ठानस्य शुद्धचैतन्यस्य सकलकालस्थायित्व- त्रिकालाबाधितत्वलक्षणपारमार्थिकसत्त्वाभ्यामङ्गीकारात् सकल सृष्टिहेतोरनादेरज्ञानस्य चाभ्युपगमाद् दृष्टिसृष्टिवादस्य बौद्धमतप्रवेशो नेत्यर्थः । प्रश्नकर्ता स्वाशङ्कामुपसंहरति- तदेवमिति तत् तस्मात् एवम् उक्तप्रकारेण । यद्यपि लोके घटपटादिकमज्ञानात्मदृष्टिमात्रजन्यं तथापि वेदे स्वर्गादिकं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तं यागादि तत्प्रभावादृष्टादिकमपि कारणम्, अन्यथा स्वर्गकामो ब्राह्मणइननादिकमपि कुर्वनज्ञानात्मदृष्टिरूपकारणबलात् स्वर्गादिकं प्राप्नुयादेवेति यथेष्टाचरणं प्रसज्येतेति वैदिकस्वर्गादिकं प्रति विहितयागादिकमप्यदृष्टद्वारा कारणं नरकादिकं प्रति निषिद्धहननादिकमप्यदृष्टद्वारा कारणमवश्यमभ्युपगन्तव्यम्, तथा च वैदिकनिरुक्ताज्ञाननिरृश्यात्मकमोक्षं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तश्रवणादिकमपि कारणमिति भवत्येव निरुतमोक्षः श्रवणादिप्रभव इत्येवं दृष्टिसृष्टिवादे श्रवणादिपरिपाकजन्मना ज्ञानेनाज्ञानादिबाधो निर्वहत्येवेति समाधत्ते - अत्रोच्यत इति । दृष्टिसृष्टिवादे घटादिकं प्रत्यज्ञानमिवात्मदृष्टिरपि कारणमतोऽनात्मदृष्टीत्यात्मदृष्टिभिन्नार्थमुक्तम् । वादीनाम् " इत्यस्य स्थाने " वादिनाम्” इति पाठो युक्तः । वेदान्तिनामित्यस्यानन्तरं “ विहित निषिद्धकर्मादिकमपि कारणम्, अन्यथा इति पाठो दृश्यः, तदर्थस्त्ववतरणेन स्पष्टीकृत एवेति । तस्मात् यथेष्टाचरणप्रसङ्गात् । घटादेरिवेति व्यतिरेकिदृष्टान्तः, घटादेर्यथाऽज्ञानमात्रजन्यत्वं न तथा स्वर्ग-नरकादेरज्ञानमात्रजन्यत्वमिति तदर्थः । यदि स्वर्ग-नरकादेन ज्ञानमात्रजन्यत्वं तर्ह्यज्ञानव्यतिरिक्तकिंजन्यत्वमित्यपेक्षायामाह - अपि त्विति । ननु लोके घटपटादिकं प्रति अज्ञानात्मदृष्टिद्वयमेव कारणं वेदे स्वर्गनरकादिकं प्रति विहित निषिद्धकर्मादिकमपि कारणमित्यर्द्धजरतीयमप्रामाणिकं किमित्युपेयमित्यत आह- दृष्टा ऽऽनुअविकस्थल इति - दृष्टघटपटादिकस्थले आनुश्रविकस्य र्गादिस्थले चेत्यर्थः, अध्यापकपरम्परया श्रूयत एव न तु केनापि क्रियत इत्यनुश्रवोऽपौरुषेयो वेदस्तदीयं तत्प्रतिपादितमित्यानुश्रविकं स्वर्गादिकमिति बोध्यम् । अर्द्धजरतीयमिति- एका गौरर्द्धभागे युवती अर्द्धभागे वृद्धेत्यर्द्धजरती यथा तथा प्रकृते एकत्र यादृशः कार्यकारणभावस्तदन्यादृशोऽन्यत्र कार्यकारणभाव इत्यभ्युपगमेऽर्द्धजरती न्याय आयोजनीयः उक्तयुक्तया प्रामाणिक एवायमुपगमस्तथापि नोपेयते वेदित्यर्थः । अनात्मदृष्टिसृष्टेः" इत्यस्य स्थाने " अज्ञानात्मदृष्टिसृष्टेः " इति पाठो युक्तः । यद्यदिच्छामात्रत उपेयते तत्तदुत्पत्तेरज्ञानात्मदृष्टितः सम्भवादज्ञानात्मदृष्टैरवसानं न स्यादनवस्थाप्रसङ्ग इत्यर्थः । तदवसानमाशङ्कते - अधिष्ठानज्ञाने इति- जगच्छुद्धचैतन्ये कल्पितमित्यधिष्ठानं शुद्धचैतन्यं तज्ज्ञाने अज्ञानात्मदृष्टिसृष्टेरवसानमित्यर्थः । समाधत्ते नेति । तस्यैव अधिष्ठानस्यैव, निरूपित्वं षष्ठधर्थः तथा च तत्त्वज्ञाननिरूपितहेतुत्वं न कस्यापीति अधिष्ठान साक्षात्कार एव नोत्पद्येतेत्यर्थः । शङ्कते - अज्ञानमिति - अधिष्ठानज्ञाने तदवसानमित्यस्याधिष्ठानज्ञानं नाज्ञानजन्यमिति तत्रावसानमिति नार्थः किन्त्वधिष्ठानज्ञानमज्ञानमात्रजन्यमेव तदनन्तरमज्ञाननिवृत्त्या तज्जन्यं न किमपीति तदवसानमित्यर्थः एवं चाधिष्ठानज्ञानम ज्ञानमात्र जन्यमेवेति नाधिष्ठानज्ञाननिरूपितहेतुत्वाभाव इति शङ्कार्थः । समाधत्ते - नेति । ततः अज्ञानमात्रतः । तदुत्पश्या अधिष्ठानचैतन्यसाक्षात्कारोत्पत्त्या । शमादीति - अज्ञानमात्रत एव चैतन्यसाक्षात्कारोत्पत्तेः सम्भवेन तदर्थं शमाद्यनुष्ठानस्या कर्तव्यत्वं प्रसज्येतेत्यर्थः । चैतन्यसाक्षात्कारोत्पत्तितः प्राग् भ्रान्तिः शमादिकमात्मसाक्षात्कारजनकमिति ज्ञानं समस्तीत्यतः शमायनुष्ठानमिति शङ्कते - भ्रान्त्येति । समाधत्ते-नेति - एकवारं तत्त्वमसीत्यादिमहावाक्यलक्षणवेदान्तश्रवणवतां ब्रह्मभिन्न
، ܐ
३४५

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274