Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलतो नयोपदेशः।
३४३
रूपान्तरमस्ति, तस्मादन नास्त्येवाज्ञानध्वंस:, किन्त्वज्ञानस्य कल्पितत्वादत्यन्ताभाव एष तन्निवृत्तिः । कि तर्हि तत्त्वज्ञानस्य साध्यमिति चेत् ? नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्___ " तत्त्वमस्यादिवाक्योत्वसम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण, नासीदस्ति भविष्यति ॥१॥"
] इति, शुक्तिबोधेनापि हि रजतात्यन्ताभावबोधरूपो बाध एवं क्रियते, मिथ्याभूतस्य च बाध एव ध्वंस इत्यभिधीयते, तद्वदिहापि द्रष्टव्यम् , स चायमधिष्ठानात्मक एव । कथं तर्हि सर्वथा सत इच्छाप्रयत्नाविति चेत् ? कण्ठगत चामीकरन्यायेनानवाप्तवभ्रमात्, पुरुषार्थत्वं तु तत्राभिलषितत्वादेव कृति साध्यत्वस्य तत्र गौरवेणाप्रवेशात् । चन्द्रामृतपातादौ पुरुषार्थत्वमिष्टमेवाऽप्रवृत्तिस्तु सत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराभावादिति प्रतिपत्तव्यम् । कथं पुनः दृष्टिसृष्टिवादे श्रवणादिपरिअत्र चैतन्थे । ता ज्ञाननिवृत्तिः किंस्वरूपति पृच्छति- किन्विति । उत्तरयति- अज्ञानस्येति । तन्निवृत्तिः अज्ञाननिवृत्तिः । नन्वत्यन्ताभावस्य परमतेऽतिरिक्तस्य नित्यत्वात् स्वमतेऽधिकरणस्वरूपत्वाग्ज्ञानसाध्यत्वाभावेन किं साध्यम् ? कस्यचिज्ज्ञानसाध्यस्याभावे ज्ञानानर्थयमापनमिति पृच्छति-किमिति- अस्य साध्यमित्यनेनान्वयः। उत्तरयति-नास्त्येवेति"बोधात्मकत्वबाघ" इत्यस्य स्थाने " बोधात्मकबाध" इति पाठो युक्तः, अज्ञानात्यन्ताभावबोधात्मकबाधव्यतिरेकेण नास्त्येवेत्यन्वयः, तथा चाज्ञानात्यन्ताभाववोधलझमाज्ञानयाध एव ज्ञानसाध्योऽज्ञाननिवृत्तिरित्यर्थः । उक्तबाधस्वरूपाज्ञाननिवृत्ते. निसाध्यत्वे प्राचां संवादमुपदर्शयति- तदुक्तमिति । तत्वमस्यादीति- ' तत्त्वमसि, अहं ब्रह्मास्मि 'इत्यादिवाक्यजन्य यच्छुद्धचैतन्यज्ञानं तज्जन्यमात्रेण कार्येण सहा विद्याऽज्ञानस्वरूपा नासीत् - पूर्वकाले नाभवत्, नास्ति-वर्तमानकाले न विद्यते, न भविष्यति- उत्तर काले नैव स्थास्यतीत्यर्थः, अनेन कालत्रयेऽपि कायण सहाज्ञानस्यात्यन्ताभावबाथ उपजायत इति स एव बाधः । उक्तमर्थ दृष्टान्त-दार्टीन्तिकभावावष्टम्भेन भावयति - शुक्तिबोधेनापीति- शुक्ताविदं रजतमिति भ्रमानन्तरं त्रिकोणत्वादिकशुक्लयसाधारणधर्मस्य तत्र ज्ञानत इयं शुक्तिरिति ज्ञानेन प्रातीतिकशुक्तिरूप्यस्य निवृत्तिर्भवति, तत्रापि त्रिकालेऽपि रजतं न भवतीदमिति रजतभेदबोधो नात्र रजतमिति रजतात्यन्ताभावबोधलक्षणबाध एवं क्रियत इति मिथ्याभूतस्य रजतस्य बाध एव तस्य ध्वंस इत्यभिधीयत इत्यर्थः । तदवदिति-तत्र यथा त्रैकालिकशुक्तिरजतात्यन्ताभावबोधो बाधः शुक्तिरजतनिवृत्तिस्तथेत्यर्थः । इहापि अज्ञाननिवृत्तावपि, कालिकसकार्याज्ञानात्यन्ताभावबोधात्मकबाधोऽज्ञाननिवृत्तिने त्वज्ञानध्वंस इति भावः । स चायमिति - निरुकवावश्चाधिष्ठानभूनब्रह्मात्मक एव, तेन बाधस्वरूपद्वितीयसद्भावानाद्वैतमा इति बोध्यम् । यदि निरुक्तचावात्मकाज्ञाननिवृत्तिब्रह्मास्मिकैव तदा तस्याः सर्वदा सस्वानोत्पत्तिरिति तद्विषयकाविच्छा-प्रयत्नौ कथं स्यातामिति पृच्छति-कथं तहीति। उत्तरयति-कण्ठेति-स्वकण्ठे स्थितमपि चामीकर दोषवशादनवगच्छन् प्रत्युत चामीकरं विनष्टमिति भ्रान्त्या तद्वेषणप्रवृत्तः केनचिदाप्लेन अरे। तव कण्ठ एव स्थित चामीकरं किमर्थभितस्ततस्तदन्वेषयसीत्येवं प्रतिबोधितोऽवाप्तमेव तदवाप्तमित्यवगच्छति तथा प्रकृतेऽप्युक्तस्वरूपं ब्रह्मावाप्तमेवानवाप्तत्व भ्रमादुकदिशा तदवास्यर्थमिच्छा-प्रयत्नौ तदुपायविषयिणावात्मसात्कुर्वन् तदवाप्तितः कृतार्थो भवतीत्यर्थः। ननु निरुक्ताज्ञाननिवृत्त्यात्मकमोक्षो भवन्मते पुरुषार्थ; पुरुषेण कृत्या साध्य एव पुरुषार्थो भवति, निरुक्तमोक्षश्च नित्यब्रह्मस्वरूपत्वान्न कृतिसाध्य इति पुरुषार्थत्वं तस्य न स्यादित्यत आह- पुरुषार्थत्वं स्विति पुरुषेणार्थ्यते - अभिलष्यत इति पुरुषार्थ इति व्युत्पत्त्या पुरुषेच्छाविषयत्वं पुरुषार्थत्वम्, साधनस्य पुरुषार्थत्वं मा प्रसासोदित्येतदर्थमन्येच्छानधीनेच्छाविषयत्वं तत् परिष्कृतं भवति, एवं च ब्रह्मस्वरूपमोक्षेऽपि निरुक्तेच्छाविषयत्वात् पुरुषार्थत्वं स्यादेव, कृतिसाध्यत्वे सति निरुक्तेच्छाविषयत्वं यदि पुरुषार्थत्वं भवेन्न मवेदपि कृत्यसाध्ये तस्मिन् पुरुषार्थत्वम्, किन्तु गौरवेण कृतिसाध्यत्वं तत्र न प्रवेश्यत इत्यर्थः । नन्वेवं चन्द्रमतामृत. पानादिविषयिण्यपि पुरुषेच्छा भवत्येवेति पुरुषेच्छाविषयत्वाच्चन्द्रगतामृतपानादावपि पुरुषार्थत्वं स्यादित्याशवामिष्टापत्त्या परि. हरति-चन्द्रति-"वन्द्रामृतपातादी" इत्यस्य स्थाने "चन्द्रामृतपानादौ" इति पाठः सम्यग् । यदि पुरुषार्थ चन्द्रामृतपानादि कथं तर्हि तदर्थिनां न तत्र प्रवृत्तिरित्याकालायामाह- अप्रवृत्तिस्त्विति । तत्र चन्द्रामृतपानादौ । प्रवृत्ति प्रति यथेच्छा कारणं तथा कृतिसाध्यताज्ञानमपि कारणम् , तदभावान चन्द्रामृतपानादौ प्रवृत्तिरित्यर्थः । ननु वेदान्तिनां बटिसृष्टिवाद एवं प्रधानः, तत्र यदैव यस्य दर्शनं तदैव तस्य सत्त्वमित्येकजन्मन्यप्याजन्ममरणान्तसमयतया प्रसिद्ध न
"१77Mम.

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274