Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 192
________________ ३४२ ____नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नबोपदेशः । केति चेत् ? न- जन्यत्वादेव । नास्त्येव जन्यत्वमिति चेत् ? न- ज्ञानानर्थ[ क्य ]प्रसङ्गात्, चैतन्यस्य सदा सत्त्वेन प्रयत्नविशेषानुपपत्तेश्च । अत्र केचित् - तत्त्वज्ञानोपलक्षितं चैतन्यमेवाज्ञाननिवृत्तिः, तच्च न तत्त्वज्ञानतः प्रागस्ति, उपलक्षणत्वस्य संबन्धाधीनत्वात् , [ यथा ] काकसंबन्धो हि गृहस्य काकोपलक्षितत्वम् , तदपिन- ज्ञानोपलक्षितस्यापि सत्त्वेऽद्वैतव्याघातात् , असत्वे उद्देश्यत्वानुपपत्तेः, मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्तेः, चिन्मात्रत्वे उक्तदोषानतिवृत्तेः। न च तत्त्वज्ञानानुपलक्षितभिन्नं चैतन्यमेव सा, अवस्थाभेदं विना तस्यापि दुर्वचस्त्वादतो दुर्घचस्वरूपेयमज्ञाननिवृत्तिः, अत्रोच्यते-नाज्ञानस्य निवृत्तिध्वंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् , घटध्वंसो हि चूर्णाकारपरिणता मृदेव, न च चैतन्यस्य विशेषलक्षणायाः संयोगविशेषरूपाया वाऽन्वयानुपपत्त्या प्रामाणिकस्य निर्वाहाथ सङ्कोचोऽपदार्थतावच्छेदकस्य सम्पनो व्रीहिरिति वाक्यघटकबीहिपदार्थतावच्छेदकवी हित्वभिन्नपदार्थतावच्छेदकस्वरूपत्वं न दूषणम्, न त्वेवं प्रकृते सड्ढोचः प्रामाणिक इति स दूषणं स्यादेवेति भावः । नन्वज्ञाननिवृत्तिन सती. नाप्यसती, नापि सदसती, नाप्यनिर्वचनीया, किन्तु पञ्चमप्रकारच, तत्र नोक्तदूषणप्रसङ्ग इत्यत आह-पञ्चमप्रकाराश्रयणमिति- तथा चात्रात्यन्ताप्रसिद्धिरेव दूषणमित्या. शयः। नन्वभावस्याधिकरणात्मकत्वमेव लाघवादित्यज्ञाननिवृत्त्यधिकरणं चैतन्यमिति चैतन्याश्मिकैवाज्ञाननिवृत्तिरिति समाधानमाशङ्कते- अस्तु तीति । चैतन्यस्य नित्यत्वेनाज्ञाननिवृत्तेजन्यत्वेन विरुद्धधर्माध्यासात् तयोस्तादात्म्यासम्भव इति प्रतिक्षिपति- नेति । ननु चैतन्यात्मकत्वादेवाज्ञाननिवृत्तौ जन्यत्वं नास्तीति शङ्कते-नास्यवेति- चैतन्यात्मिकाया अज्ञाननिवृत्तेजन्यत्वं नास्त्येवेत्यर्थः। अज्ञाननिवृत्त्यर्थमेव चैतन्यसाक्षात्कार उपादीयते, यदि चाज्ञाननिवृत्तिन जन्या तात्मसाक्षात्कारस्यानर्थक्यात् तदर्थ मुमुक्षुर्न प्रवतरेति निषधति - नेति । चैतन्यं यद्यज्ञाननिवृत्तिस्तदा चैतन्यस्य सदा सत्त्वात् तदर्थ प्रयत्नविशेषानुपपत्तिरप्यासज्यत इत्याह- चैतन्यस्येति । ननु केयमज्ञाननिवृत्तिरित्यादिना पल्लवितायामाशङ्कायां केषाचित् प्रतिविधानमुपदर्शयति- अति-उत्ताशङ्कायामित्यर्थः । तश्च तत्त्वज्ञानोपलक्षित चैतन्यं पुनः, तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षितचैतन्यस्यासत्त्वे हेतुमुपदर्शयति- उपलक्षणत्वस्येति- यद्यसंबद्धस्याप्युपलक्षणत्वं तदा सर्व सर्वस्योपलक्षणं भवेन भवति च सर्व सर्वस्योपलक्षणमित्युपलक्ष्योपलक्षकयोः सम्बन्धोऽवश्यमेषितव्यः, सम्बन्धश्च समकालं विद्यमानयोरेवेति तत्त्वज्ञानकाल एव तत्त्वज्ञानोपलक्षितं चैतन्यमतो न तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षित चैतन्यम. ततस्तत्त्वज्ञानोपलक्षितचैतन्यस्वरूपाज्ञाननिवृत्त्यर्थं तत्त्वज्ञानमुपादेयम्, तदर्थ यत्नविशेषस्यापि साफल्यमित्यर्थः । उपलक्षणस्वस्य सम्बन्धाधीनत्वे दृष्टान्तमाह- यथेति । निरुक्तसमाधान प्रतिक्षिपति-तदपि नेति । ज्ञानोफ्लक्षितत्वं सत् असत् अनिर्वचनीय चिन्मानं वा, प्रथमपक्षे- एकं ज्ञानोपलक्षितत्वं द्वितीयं चैतन्यमित्येवं द्वैतव्यवस्थितावद्वतं व्याहत्येतेत्याहज्ञानोपलक्षितत्वस्यापीति । द्वितीये-नासत उद्देश्यत्वमिति तस्योद्देश्यत्वमनुपपन्नं स्यादित्याह- असत्व इतिज्ञानोपलक्षितत्वस्यासत्वे इत्यर्थः । यदनिर्वचनीय तन्मिथ्येत्यनिर्वचनीयत्वमेव मिथ्यात्वम् , अत एव क्वचिदप्युपाधावप्रतीयमानत्वलक्षणासत्त्वतोऽस्य भेदः, एवं च यदनिर्वचनीयं तज्ञाननिवर्त्यमिति नियमस्याज्ञान-तत्कार्ययोः स्वहस्तितत्वात् तत्त्वज्ञानोपलक्षितचैतन्यलक्षणाज्ञाननिवृत्तेरपि निवृत्त्यापत्तेस्तृतीयपक्षस्याप्ययुक्तस्त्रमित्याह- मिथ्यात्व इति-तत्त्वज्ञानोपलक्षितत्वस्य मिथ्यात्व इत्यर्थः । तुरीयपक्षे-चिन्मात्रस्वरूपाज्ञाननिवृत्तेः सदा सत्त्वन ज्ञान जन्यत्वाभावाज्ज्ञानानर्थक्यं प्रयत्नविशेषणानुपपत्तिश्च स्यातामित्याह-चिन्मात्रत्व इति-ज्ञानोपलक्षितत्वस्य चिन्मानस्वरूपत्वे इत्यर्थः । तत्त्वज्ञानासमाधानान्तरमाशङ्कय प्रतिक्षिपतिन चेति । सा अज्ञाननिवृत्तिः । निषेधे हेतुमाह- अवस्थामेदं विनति-चैतन्यस्य तत्त्वज्ञानोपलक्षितत्वावस्था तस्व. ज्ञानानुपलक्षितत्वावस्था तत्त्वज्ञानानुपलक्षितभिन्नत्वावस्थेत्येवमवस्थात्रयमन्तरेणत्यर्थः । तस्यापि तत्त्वज्ञानानुपलक्षितभिन्न चैतन्यस्वरूपत्वस्यापि । उपसंहरति-- अत इति-पूर्वोपदर्शितविकल्पजस्तित्वादित्यर्थः । समाधत्ते - अत्रोच्यत इतिकथमज्ञाननिवृत्तिरित्याङ्कायां समाधान कथ्यत इत्यर्थः । अज्ञाननिवृत्तरज्ञानध्वंसरूपत्वाभावे हेतुमाह - रूपान्तरेति-रूपा. न्तरात्मना परिणतं यदुपादानं-परिणामिकारणं तस्यैव तद्पत्वात्-ध्वंसरूपत्वादित्यर्थः। रूपान्तरपरिणतोपादानस्यैव धंसरूपत्वमिति दृष्टान्तोपदर्शनेन स्पष्टयति- घटध्वंस इति- चूर्णाकारेण परिणता या मृत् सेव घटध्वंस इत्यर्थः । ननु प्रकृतेऽपि रूपान्तरात्मना परिणतं चैनन्यस्वरूपमुपादानमेवाज्ञानध्वंसोऽस्त्वित्यत आह-न चेति- अस्य 'अस्ति' इत्येननान्वयः, चैतन्यस्याखण्डस्वरूपस्या परिणामिनो रूपान्तरपरिणामाभावादित्यर्थः । एवं चाज्ञाननिवृत्ति ज्ञानध्वंसरूपेत्युपसंहरति-तस्मादिति ।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274