________________
३४२
____नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नबोपदेशः ।
केति चेत् ? न- जन्यत्वादेव । नास्त्येव जन्यत्वमिति चेत् ? न- ज्ञानानर्थ[ क्य ]प्रसङ्गात्, चैतन्यस्य सदा सत्त्वेन प्रयत्नविशेषानुपपत्तेश्च । अत्र केचित् - तत्त्वज्ञानोपलक्षितं चैतन्यमेवाज्ञाननिवृत्तिः, तच्च न तत्त्वज्ञानतः प्रागस्ति, उपलक्षणत्वस्य संबन्धाधीनत्वात् , [ यथा ] काकसंबन्धो हि गृहस्य काकोपलक्षितत्वम् , तदपिन- ज्ञानोपलक्षितस्यापि सत्त्वेऽद्वैतव्याघातात् , असत्वे उद्देश्यत्वानुपपत्तेः, मिथ्यात्वे ज्ञाननिवर्त्यत्वापत्तेः, चिन्मात्रत्वे उक्तदोषानतिवृत्तेः। न च तत्त्वज्ञानानुपलक्षितभिन्नं चैतन्यमेव सा, अवस्थाभेदं विना तस्यापि दुर्वचस्त्वादतो दुर्घचस्वरूपेयमज्ञाननिवृत्तिः, अत्रोच्यते-नाज्ञानस्य निवृत्तिध्वंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् , घटध्वंसो हि चूर्णाकारपरिणता मृदेव, न च चैतन्यस्य विशेषलक्षणायाः संयोगविशेषरूपाया वाऽन्वयानुपपत्त्या प्रामाणिकस्य निर्वाहाथ सङ्कोचोऽपदार्थतावच्छेदकस्य सम्पनो व्रीहिरिति वाक्यघटकबीहिपदार्थतावच्छेदकवी हित्वभिन्नपदार्थतावच्छेदकस्वरूपत्वं न दूषणम्, न त्वेवं प्रकृते सड्ढोचः प्रामाणिक इति स दूषणं स्यादेवेति भावः । नन्वज्ञाननिवृत्तिन सती. नाप्यसती, नापि सदसती, नाप्यनिर्वचनीया, किन्तु पञ्चमप्रकारच, तत्र नोक्तदूषणप्रसङ्ग इत्यत आह-पञ्चमप्रकाराश्रयणमिति- तथा चात्रात्यन्ताप्रसिद्धिरेव दूषणमित्या. शयः। नन्वभावस्याधिकरणात्मकत्वमेव लाघवादित्यज्ञाननिवृत्त्यधिकरणं चैतन्यमिति चैतन्याश्मिकैवाज्ञाननिवृत्तिरिति समाधानमाशङ्कते- अस्तु तीति । चैतन्यस्य नित्यत्वेनाज्ञाननिवृत्तेजन्यत्वेन विरुद्धधर्माध्यासात् तयोस्तादात्म्यासम्भव इति प्रतिक्षिपति- नेति । ननु चैतन्यात्मकत्वादेवाज्ञाननिवृत्तौ जन्यत्वं नास्तीति शङ्कते-नास्यवेति- चैतन्यात्मिकाया अज्ञाननिवृत्तेजन्यत्वं नास्त्येवेत्यर्थः। अज्ञाननिवृत्त्यर्थमेव चैतन्यसाक्षात्कार उपादीयते, यदि चाज्ञाननिवृत्तिन जन्या तात्मसाक्षात्कारस्यानर्थक्यात् तदर्थ मुमुक्षुर्न प्रवतरेति निषधति - नेति । चैतन्यं यद्यज्ञाननिवृत्तिस्तदा चैतन्यस्य सदा सत्त्वात् तदर्थ प्रयत्नविशेषानुपपत्तिरप्यासज्यत इत्याह- चैतन्यस्येति । ननु केयमज्ञाननिवृत्तिरित्यादिना पल्लवितायामाशङ्कायां केषाचित् प्रतिविधानमुपदर्शयति- अति-उत्ताशङ्कायामित्यर्थः । तश्च तत्त्वज्ञानोपलक्षित चैतन्यं पुनः, तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षितचैतन्यस्यासत्त्वे हेतुमुपदर्शयति- उपलक्षणत्वस्येति- यद्यसंबद्धस्याप्युपलक्षणत्वं तदा सर्व सर्वस्योपलक्षणं भवेन भवति च सर्व सर्वस्योपलक्षणमित्युपलक्ष्योपलक्षकयोः सम्बन्धोऽवश्यमेषितव्यः, सम्बन्धश्च समकालं विद्यमानयोरेवेति तत्त्वज्ञानकाल एव तत्त्वज्ञानोपलक्षितं चैतन्यमतो न तत्त्वज्ञानतः प्राक् तत्त्वज्ञानोपलक्षित चैतन्यम. ततस्तत्त्वज्ञानोपलक्षितचैतन्यस्वरूपाज्ञाननिवृत्त्यर्थं तत्त्वज्ञानमुपादेयम्, तदर्थ यत्नविशेषस्यापि साफल्यमित्यर्थः । उपलक्षणस्वस्य सम्बन्धाधीनत्वे दृष्टान्तमाह- यथेति । निरुक्तसमाधान प्रतिक्षिपति-तदपि नेति । ज्ञानोफ्लक्षितत्वं सत् असत् अनिर्वचनीय चिन्मानं वा, प्रथमपक्षे- एकं ज्ञानोपलक्षितत्वं द्वितीयं चैतन्यमित्येवं द्वैतव्यवस्थितावद्वतं व्याहत्येतेत्याहज्ञानोपलक्षितत्वस्यापीति । द्वितीये-नासत उद्देश्यत्वमिति तस्योद्देश्यत्वमनुपपन्नं स्यादित्याह- असत्व इतिज्ञानोपलक्षितत्वस्यासत्वे इत्यर्थः । यदनिर्वचनीय तन्मिथ्येत्यनिर्वचनीयत्वमेव मिथ्यात्वम् , अत एव क्वचिदप्युपाधावप्रतीयमानत्वलक्षणासत्त्वतोऽस्य भेदः, एवं च यदनिर्वचनीयं तज्ञाननिवर्त्यमिति नियमस्याज्ञान-तत्कार्ययोः स्वहस्तितत्वात् तत्त्वज्ञानोपलक्षितचैतन्यलक्षणाज्ञाननिवृत्तेरपि निवृत्त्यापत्तेस्तृतीयपक्षस्याप्ययुक्तस्त्रमित्याह- मिथ्यात्व इति-तत्त्वज्ञानोपलक्षितत्वस्य मिथ्यात्व इत्यर्थः । तुरीयपक्षे-चिन्मात्रस्वरूपाज्ञाननिवृत्तेः सदा सत्त्वन ज्ञान जन्यत्वाभावाज्ज्ञानानर्थक्यं प्रयत्नविशेषणानुपपत्तिश्च स्यातामित्याह-चिन्मात्रत्व इति-ज्ञानोपलक्षितत्वस्य चिन्मानस्वरूपत्वे इत्यर्थः । तत्त्वज्ञानासमाधानान्तरमाशङ्कय प्रतिक्षिपतिन चेति । सा अज्ञाननिवृत्तिः । निषेधे हेतुमाह- अवस्थामेदं विनति-चैतन्यस्य तत्त्वज्ञानोपलक्षितत्वावस्था तस्व. ज्ञानानुपलक्षितत्वावस्था तत्त्वज्ञानानुपलक्षितभिन्नत्वावस्थेत्येवमवस्थात्रयमन्तरेणत्यर्थः । तस्यापि तत्त्वज्ञानानुपलक्षितभिन्न चैतन्यस्वरूपत्वस्यापि । उपसंहरति-- अत इति-पूर्वोपदर्शितविकल्पजस्तित्वादित्यर्थः । समाधत्ते - अत्रोच्यत इतिकथमज्ञाननिवृत्तिरित्याङ्कायां समाधान कथ्यत इत्यर्थः । अज्ञाननिवृत्तरज्ञानध्वंसरूपत्वाभावे हेतुमाह - रूपान्तरेति-रूपा. न्तरात्मना परिणतं यदुपादानं-परिणामिकारणं तस्यैव तद्पत्वात्-ध्वंसरूपत्वादित्यर्थः। रूपान्तरपरिणतोपादानस्यैव धंसरूपत्वमिति दृष्टान्तोपदर्शनेन स्पष्टयति- घटध्वंस इति- चूर्णाकारेण परिणता या मृत् सेव घटध्वंस इत्यर्थः । ननु प्रकृतेऽपि रूपान्तरात्मना परिणतं चैनन्यस्वरूपमुपादानमेवाज्ञानध्वंसोऽस्त्वित्यत आह-न चेति- अस्य 'अस्ति' इत्येननान्वयः, चैतन्यस्याखण्डस्वरूपस्या परिणामिनो रूपान्तरपरिणामाभावादित्यर्थः । एवं चाज्ञाननिवृत्ति ज्ञानध्वंसरूपेत्युपसंहरति-तस्मादिति ।