________________
नयानृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
निषेधाधिकारशून्यः संस्कारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन् मुक्त इत्युच्यते, अस्य प्रारब्धक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिः । ननु केयमज्ञाननिवृत्तिः १ न सती, नाप्यसती, नापि सदसती, ज्ञानजन्यत्वाद्वैत प्रसङ्गोद्देश्यत्वविरोधेभ्यश्च, अस्तु तर्ह्यनिर्वचनीया जन्यत्वात्, तदुक्तम्" जन्यत्वमेव जन्यस्य मायिकत्वसमर्थकम् " [ ] इति, मैवम् - अनिर्वचनीयस्य ज्ञाननिवर्त्यस्वनियमेन निवृत्तिपरम्पराप्रसङ्गात्, सदद्वैतव्याकोपमङ्गीकृत्य तस्या असत्वाद् विधानेऽपि विना प्रमाणमद्वैतसङ्कोच एव दूषणम्, पञ्चमप्रकाराश्रयणं त्वत्यन्ताप्रसिद्धम् । अस्तु तर्हि चैतन्यात्मि
३४१
चेति - प्रारब्धकर्म तत्कार्यव्यतिरिक्ता खिलाज्ञानप्रभवप्रपञ्चनिवृत्त्यवस्थायां पुरुषधुरन्धरः प्रारब्धकर्मफलं भुञ्जानः सन्, सकलसंसारमज्ञानकार्य बाधितमपि किञ्चित्कालमनुवर्तत इति बाधितानुवृत्त्या पश्यन् सन्, स्वात्मन्येव रमत इति स्वात्माराम: विधि-निषेधाधिकारशून्य :- विद्दितकर्मकरणे तत्फलकामलक्षणराग: पुरुषस्य विशेषणत्वादधिकारः, निषिद्धकर्मानाचरणे निषिद्धकर्मफलद्वेषोऽधिकारिविशेषणत्वादधिकारः, अथवा निषिद्धकर्माचरणे निषिद्धकर्मफलकामोऽधिकारिविशेषणत्वादधिकारस्तदुभयशून्यः, यथा चक्रभ्रमणकारणापगमेऽपि कञ्चित् कालं पूर्वोत्पन्नवे गाख्यसंस्कार विशेषवशाञ्चकं भ्रमति एवं संस्कारमात्रात् सम्यक्कर्मा. नुनपरो भवतीति सदाचारः, प्रारब्धक्षयं प्रारब्धकर्मविनाशम् प्रतीक्षत इति प्रतीक्षमाणः, जीवन्मुक्त इत्येवमुच्यतेकथ्यत इत्यर्थः । जीवन्मुक्त्यनन्तरं परममुक्तिरस्य भवतीत्युपदर्शयति- अस्येति - अस्य परममुक्तिरित्यनेनान्वयः । सशक्तिकेति - आवरणशक्ति-विक्षेपशक्तिसमन्वितेत्यर्थः । निरवशेषेति - अशेषकार्यकारणात्मकेत्यर्थः । परममुक्तिरित्यनन्तरं भवतीति शेषः । नन्वज्ञाननिवृत्तौ सत्यां परममुक्तिरुपपादिता, परमज्ञाननिवृत्तिरेव विकल्पजर्जरितेति शङ्कते - नन्विति । " ज्ञानजन्यत्वा " इत्यस्य स्थाने ज्ञानजन्यत्व " इति पाठो युक्तः, अज्ञाननिरृतेः सत्यत्वाभ्युपगमे तस्याः सर्वदा सवं सर्वदा मुक्क्यापत्तिभयान्नास्त्येवाभ्युपगम्यमिति कादाचित्क्यास्तस्या ज्ञानजन्यत्वमुपेयं स्यात्, तथा च द्वैतप्रसङ्गः तस्या असत्यश्वाभ्युपगमे न सा कदाचिद् भवतीत्यज्ञानमेव सर्वदाऽवतिष्ठित इत्यज्ञाननिवृत्तौ मुक्तिर्भवतीति यदुद्देश्यं तद्भावलक्षणोद्देश्यत्वस्य विरोध:, भज्ञाननिवृत्तेः सदसदुभयरूपत्वे विशेषः स्पष्ट एव सत्यत्वाऽसत्यत्वयोः परस्परनिषेधरूपयोरेकत्रासम्भवात् वस्तुतः " उद्देश्यत्व " इत्यस्य स्थाने " उद्देश्यासिद्धि " इति पाठः सम्यक्, तथा च विरोधस्य द्विधाऽऽश्रयणं कर्तव्यं न भवतीति बोध्यम् । ननु सत्यत्वाऽसत्यस्वाभ्यां वक्तुमशक्यत्वादज्ञान निवृत्तिरनिर्वर्तनीयैवास्त्विति शङ्कासमाधानमाशङ्कते - अस्त्विति उक्ताशङ्कास्वारस्याज्ज्ञानजन्यत्वस्य तत्रेष्टत्वेन तत्र ज्ञानजन्यत्वप्रसङ्गस्येष्टापादनरूपतयाऽदूषणत्वमिति पूर्वं ज्ञानजन्यत्वेति स्थाने ज्ञानाजन्यत्वेति पाठ एवं भवितुमर्हति सतीति विकल्पे सत्त्वं सर्वदा सत्त्वमेव विवक्षितं द्वैतप्रसङ्गश्च पृथगेव दूषणमिति बोध्यम् । अत्र यज्जन्यं तदनिर्वचनीयमिति व्याप्तिबलादेवाज्ञाननिवृत्तेर्जन्यत्वलक्षणहेतुबलादनिर्वचनीयत्वं साध्यतेऽतस्तादृशव्याप्तौ प्राचीनवचनसंवादमाद- तदुक्तमिति- मायिकत्वम्अनिर्वचनीयत्वं तस्य समर्थकं - साधकमिति मायिकत्व समर्थकमित्यस्यार्थः । निरुक्तसमाधानाशङ्कां प्रतिक्षिपति - मैवमिति । अनिवर्चनीयस्येति यदनिर्वचनीयं तज्ज्ञाननिर्वत्यमिति नियमेन " अज्ञान निवृत्तिर्ज्ञाननिवर्त्या अनिर्वचनीयत्वाद्," इत्यनुमानतोऽशान निवृत्तिनिवृत्तिसिद्धौ ' अज्ञाननिवृत्तिर्ज्ञान निवर्त्यनिर्वचनीयत्वाद्' इत्यनुमानात् तस्या अप्येवं निवृत्तिरेवं तस्या अपीत्यैवं निवृत्तिपरम्परालक्षणानवस्थानप्रसङ्गादित्यर्थः । न च सत्येवाज्ञाननिवृत्तिः, तस्या असत्त्वाद्, अज्ञानतत्कार्यस्यानिर्वचनीयस्य विधावपि न तस्य सत्त्वं किन्तु ब्रह्मण एवं सत्त्वमित्यद्वैतस्य ममाभ्युपगतस्य सदद्वैतरूपत्वमेवेत्येवं सदद्वैतवादो न व्याहन्यते सद्वैताभावादिति यद्युच्यते, तदाऽद्वैतस्य सदद्वैतरूपत्वेन सङ्कोचो निष्प्रमाणको दूषणमेवेत्याहसदद्वैतव्याकोपमङ्गीकृत्येति- सदद्वैतान्याकोपभङ्गीकृत्येति पाठो युक्तः, सदद्वैतव्याकोपः सदद्वैतव्याघातो मा भवत्वि - त्यैवमङ्गीकृत्येत्यर्थः । तस्याः अज्ञाननिवृत्तेः । विधानेऽपि अनिर्वचनीयाज्ञान- तत्कार्ययोर्निवृश्यभावाद् विधानेऽपि अनिवचनीयतया विषयभ्युपगमेऽपि । विना प्रमाणमिति - एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किञ्चनेत्याद्याः श्रुतयोऽद्वैत एव प्रमाणं न सद्वैत इति प्रमाणमन्तरेणेत्यर्थः । अद्वैतसङ्कोच इति - अद्वैतपदस्य सदद्वैतपरत्वमित्यर्थः । यद्यत्र सङ्कोचे प्रमाणं स्यात् तदा प्रामाणिकसङ्कोचो न दूषणम्, यथा- पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेत्यत्र व्युत्पत्तौ सम्पन्नो व्रीहिरित्यत्रैकवचनविभक्त्यात्मकपदार्थस्यैकत्वस्य ब्रीहिपदार्थतावच्छेदके व्रीहिखेऽन्वयस्य त्रीहावेकत्वान्वये तत्र सम्पत्तेर्वहुत्व
+8