________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
%
D
यदि पारमार्थिकं कथं त्वंपदार्थैक्यसिद्धिः, तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादिकल्पितमेव, एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यतः " सत् त्वमसि " [ ] आदिवाक्य. सामध्येनैव निरस्तसमस्तप्रपश्चात्म्यैक्यसिद्धिः, सोऽयमित्यत्रेव पदाद् भेदभ्रमानिवृत्तेमहावाक्याश्रयणस्यावश्यकत्वम् । तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति "क्षीयन्ते चास्य कर्माणि" [ ] इति श्रुतेः । न च देहनाशप्रसङ्गः, प्रारब्धस्याविनाशात् तस्य " तावदेव चिरं यावन विभोक्ष्येऽथ सम्पत्स्ये " [
] इति श्रुतेः, कर्मविपाकेन प्रारब्धनिवृत्तावप्युक्तशालेण ज्ञानानिवय॑त्वाभिधानात् , ततश्च ज्ञानेन तदानीमेवाज्ञाने सर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धादनिवृत्तिः, तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधि
परोक्षास्वादिकस्य चेतन्यधर्मस्य कल्पितत्वमस्तु, तदन्यस्य प्रपश्चस्य कल्पितत्त्वं कथमित्यपेक्षायामाह-तदेवमिति- तत्-तस्मात्, एवम्-उक्तप्रकारेण । भोग्यं सक्-चन्दन-वनितादिकं यदि पारमार्थिकं स्यात् तदा सन्निरूपितभोकृत्वादिकमपि चैतन्यस्य कल्पितं न भवेदिति भोक्तवादेः कल्पितत्वान्यथानुपपत्त्या भोग्यादेः कल्पितत्वमास्थयमित्याह-भोक्तृत्वादेरिति । एव. मिति-उक्तप्रकारेण तत्पदार्थगतजगत्कर्तृत्वादेः कल्पितत्वं यच्चैतन्याद्वैतान्यथानुपपत्त्या सिद्धं तदपि जगतः कल्पितत्वमन्तरेणानुपपन्न मिति जगतः कल्पितत्वमास्थ्यमित्यतस्तस्वमसीति वाक्य सामर्थ्यात् सिध्यच्चैतन्याद्वैतं निरस्तसमस्तप्रपञ्चमेव सिध्यतीत्यर्थः, यथा च सोऽयमित्यत्र पूर्वकालीनस्वविशिष्टवर्तमानकालीनस्वविशिष्टयोमेंदग्रहे जाग्रति सति अभेदग्रहो न भवतीति लक्षणया देवदत्तव्यक्तिमात्रप्रतीतिजनकत्वान्महावाक्यत्वं तथा तत्त्वमसीत्यत्र तत्पदशक्यार्थ-त्वंपदशक्यार्थयोविशिष्टचैतन्ययोर्मेदभ्रमे सत्यभेदज्ञानामावतो भेदभ्रमस्य पदादनिवृत्तलक्षणया तत्त्वमसीति वाक्यतोऽखण्डचैतन्यप्रतीतिरिति तस्य महावाक्यस्वमखण्डार्थप्रतीतिजनकत्वलक्षणमास्थेयमित्यर्थः । पुरुषधुरन्धरे उत्पन्नब्रह्मसाक्षात्कारस्य फलमुपदर्शयति-तदिद. मिति । उत्पन्नमवेत्येवकारेणात्मतत्त्वसाक्षात्कारानन्तरं क्षणमात्रमप्यनन्तजन्मार्जितकर्मराशिविनाशोत्पत्तौ विलम्बो न दर्शितम् । ननु " नाभुकं क्षोयते कमे कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कमे शुभाशुभम् ॥१॥"
इत्यादिवचनात् कर्मणां क्षयस्य भोगादेव निर्णीतस्वादप्रमाणकं तत्त्वज्ञानतो निखिलकर्मक्षयं न प्रामाणिकः श्रद्धास्यतीत्यतस्तत्र श्रुति प्रमाणयति-क्षीयन्ते चेति-" तस्मिन् दृष्टे परावरे" इति चरणमत्रानुसन्धेयम्, तथा च तस्मिन् आत्मनि, परश्वासाववरश्च परावरस्तस्मिन् परावरे, अल्पज्ञापेक्षया तदधिकपदार्थज्ञो जीवोऽपि पर उत्कृष्टो भवति तस्य व्यपोहाय अवरेति, न विद्यते वर उत्कृष्टो यस्मात् सोऽवर इति- सर्वोत्कृष्ट इति, तस्मिन् . दृष्टे सति, अस्थ- पुरुषधुरन्धरस्य, कर्माणि - इति बहुवचनादशेषानन्तजन्मार्जितकर्माणि, क्षीयन्ते - विनश्यन्तीत्यर्थः । नन्वखिलकर्मान्तरन्देहधारणानुकूल प्रारब्धकर्मणोऽपि तत्त्वज्ञानतो विनाशात् तद्वतो देहधारणमपि न स्यादित्याशय प्रतिक्षिपतिन चेति । प्रारब्धकर्मणो भोगादेव क्षय इति निर्णयात् 'क्षीयन्ते चास्य कर्माणि' इत्यत्र कर्मपदेन प्रारब्धकर्मतरकमैंक विवक्षितमिति तत्त्वज्ञानिनोऽपि प्रारम्धकर्मणो भोगादेव क्षय इति यावदुपभोगं तस्य सद्भावान्न देहविनाश इति प्रतिक्षेपहेतुमुपदर्शयति-प्रारब्धस्येति- प्रारब्धकर्मण इत्यर्थः । तत्र श्रुति प्रमाणयति-तस्येति- तस्य " तावदेव इत्यस्य स्थाने " तस्य तावदेव" इति मुद्रणं युक्तम् , तस्येत्यारभ्य श्रुतिः, तस्य-तत्त्वज्ञानिनः, यावत्- यावत्कालम्, न विभोक्ष्येउपभोगप्रभवप्रारब्धकर्मविनाशो न भवति, तावदेव - तावत्कालमेव, चिरम् - अशरीरादिस्वरूपावाप्तिविलम्बो भवति, अथभोगतःप्रारब्धकर्मक्षयानन्तरम्, सम्पत्स्ये- अखण्डात्मस्वरूपावाप्तिलक्षणसम्पत्तिमद् भवतीत्यर्थः। उक्तश्रत्यभिप्रेतार्थमुपदर्शयतिकर्मविपाकनेति- फलदानाभिमुख कर्मोदयेनेत्यर्थः । प्रारब्धनिवृत्तौ प्रारब्धकर्मनिवृत्तिसम्भवेऽपि । उक्तशास्त्रेण तस्य तावदेव चिरमित्यादिश्रुत्या । झानानिवर्त्यत्वाभिधानात् प्रारब्धकर्मणो ज्ञानानिवर्त्यत्वस्योक्तः । उपसंहरति- ततश्चेतिउक्तशास्त्रस्वारस्याच्चेत्यर्थः । ज्ञानेनेत्यस्य निवर्तयितव्ये इत्यनेनान्त्रयः । ज्ञानेन शुद्धचैतन्यसाक्षात्कारण । तदानीमेव स्वोत्पत्त्यनन्तरक्षण एव । अज्ञाने सर्वात्मना निवर्तयितव्ये अशेषविक्षेपशक्त्यशेषावरणशक्ति-तदुक्तसर्वप्रपञ्चात्मककार्यकारणात्मना मायाऽविद्याशब्दवाच्येऽज्ञाने निवर्तयितव्ये। प्रारब्धेति- प्रारब्धकर्मणा प्रतिबन्धाद् देहाद्यात्मना निरुकाज्ञानानिवृत्तिः, प्रारब्धकर्मरूपप्रतिबन्धकाभावसहकृतस्यैवात्मसाक्षात्काररूपज्ञानस्य देहाद्यात्मनाऽज्ञाननिवर्तकत्वमित्यर्थः । तस्यां