________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
करण्यम्, गुणगुणिभावाद्यसम्भवात्, निर्गुणाऽस्थूलादिवचनविरोधाश्च । नापि यः सर्पः सा रज्जुरितिबदू बाधीयम् उभयोश्चिद्रूपतया बाघायोगाद् मुक्तयभावप्रसङ्गाच, नहि स्वबाधार्थं जीवप्रवृत्तिरुपपद्यते । तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभाव प्रतीत्यनन्तरं लक्षणया सोऽयं देवदत्त इति - द्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपतेर्लक्षणाबीजविरोधासमाधानाच्च । इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच जहदजहती ( भागलक्षणा च गीयते ) । नन्वेवं चैतन्याद्वैत सिद्धावपि कथं प्रपञ्चस्य पारमार्थिकत्वाभाव इति चेत् १ उच्यते--यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदार्थैक्यसिद्धिः, एवं तत्पदार्थेऽपि परोक्षवादि
३३९
धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः । भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह- मुख्यत्वेऽपीति- समानाधि करण्यस्य मुख्यत्वेऽपीत्यर्थः । नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मकद्रव्यवाचकपदेन सामानाधिकरण्यं संभवति नीलात्मक गुणवत्त्वस्योत्पलात्मके गुणिनि सद्भावात् प्रकृते तरपदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्य सगुण चैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणि भावाद्य संभवादिति । यदि निरुक्तसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्यु पेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह - निर्गुगेति । ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाषीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्कां प्रतिक्षिपति नापीति । निषेधे हेतुमाह- उभयोरिति तत्पदार्थ खम्पदार्थयोरित्यर्थः । ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह- मुक्तयभावप्रसङ्गाचेति । कथं मुक्तयभावप्रसङ्ग इत्यपेक्षायामाद- नहीति- अस्य ' उपपद्यते ' इत्यनेनान्वयः । स्वेति- स्वपदार्थस्य मुक्तत्यर्थिनो Satara बाघार्थं मम बावो भवत्वित्येतदर्थं जीवस्य प्रवृत्तिर्नवपद्यत इत्यर्थः । यदि न गौणं सामानाधिकरण्यं नापि मुख्यं नापि बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमर्हतीत्याकाङ्क्षायामुपसंहरति- तस्मादिति- उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः । पदार्थयोरिति तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वंपदार्थमन्यतो व्यावर्तयति त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया यद्वयावर्तकं यद्विशेषणं तद्वयावत्यं तद्विशेष्यमिति नियमादुभयोर्विशेषण- विशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत्-त्वंपदयोर्विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मस्वरूपे शुद्ध चैतन्ये जहदजहल्लक्षणया विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा- सोऽयं देवदत्त इति वाक्याच्छुद्धदेवदत्तव्यक्तौ निरुक्तलक्षणया शुद्धदेवदत्तव्यक्ति प्रतीतिरित्यर्थः । सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः । पद्मद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि । अन्यथा एकपद एवं लक्षणाभ्युपगमे । अखण्डेति एकपदस्य शुद्धचेतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीयपदराक्यार्थस्य विशिष्ट वैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तेरित्यर्थः । लक्षणेति तत्-त्वंपदशक्यार्थयोरभेदे नान्वयासम्भवलक्षणविरोध एव लक्षणा बीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तलक्ष्ये द्वितीय पदशक्यार्थस्याभेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोधपरिहारार्थं पदद्वये लक्षणाऽऽवश्यकीत्यर्थः । अस्या लक्षणाया जहदजहल्लक्षणास्वं भागलक्षणात्वपर्यवसितं दर्शयति- इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात्, एवं स्वपदस्य शक्ये अपरोक्षत्वविशिष्टचैतन्ये विशेषणांशस्यापरोक्षत्व वैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच्च जहदबहती - शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजहतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः । शङ्कते - नन्वेवमिति एवमुक्तप्रकारेण अद्वितीयं चैतन्यमप्यस्तु प्रपञ्चस्य पारमार्थिकत्वमप्यस्तु, न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपन्नं येन चैतन्याद्वैतान्यथानुपपत्त्या सिध्येतापि प्रपञ्चस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः । समाधत्ते - उच्यत इति । पदार्थे यदि भोक्तृत्वादिकं पारमार्थिकं त्वं पारमार्थिकं तदा भोक्तृत्वादिविशिष्ट चैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्ट चैतन्यमेकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न ख्रिष्यतीत्याह- यदीति - " परोक्ष्यत्वादि" इत्यस्य स्थाने " परोक्षत्वादि " इति पाठः समीचीनः । नन्वेवं भोव