________________
३३८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
वाच्यम्, निर्विशेषात्मबोधेऽपि " इतिहासपुराणाद्यैर्वेदार्थमुपबृंहयेत् " [
] इत्यादिना
1
1
पुराणप्राकृतवाक्यश्रवणादेः दे: प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् । एतच्च श्रवणाद्यावृत्तं तवधहेतुः, दृष्टार्थत्वात्, तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमति " [ आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते । न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् । ' तत् त्वम् ' इति पदयोः परोक्षत्वा परोक्षत्वविशिष्ट चैतन्यरूपपृथगर्थवाचकयोः श्रूयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इति गौणम्, मुख्ये संभवति तस्यान्याय्यत्वात् । नापि " मनो ब्रह्म " [ इत्यादिवदुपासनार्थम् श्रुतहानाश्रुतकल्पनाप्रसङ्गात् । मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादेव, अस्य निषेधे नजर्थेऽन्वयः, तस्य नियमविध्यङ्गत्वमित्यनेनान्वयः । अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति । इत्थं श्रवणविधेर्न नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेप हेतुमुपदर्शयति- निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाक्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् सत्प्रतिषेधार्थं वेदान्तवाक्यश्रवणं नियम्यते, अत एव श्रोतव्यः श्रुतिवाक्येभ्य: ' [ ] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्न साधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधित्वप्रसङ्गदोषाभावादित्यर्थः । तत् किं निर्विशेषात्मज्ञानार्थं वेदान्तवाक्यश्रवणमेधैव कर्तव्यमुत तदा वृत्तिरपेक्षितेत्यपेक्षायामाह - एतच्चेति- अनन्त रोपदिष्टस्वरूपं चेत्यर्थः । श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः । आवृत्तं भूयोऽभ्यस्तम् । नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि तेन यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन तिस्तद्वारा निर्विशेषात्मज्ञानं सम्भवतीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात् यदा तु दृष्टमपि तत्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्या वेदनायाह- दृष्टार्थत्वादिति । तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः साम्राध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानवानिह अन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग- शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थ विशुद्ध प्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति- तदेवमिति । परिपाकश्च दा श्रवणादीनाम् । असौ पुरुषधुरन्धरः । ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्तौ स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कष प्रतिक्षिपतिन चेति । "स्वतः स्वभङ्गः" इत्यस्य स्थाने " स्वतस्त्वभङ्गः " इति पाठो युक्तः । श्रवगादितः परमात्मसाक्षात्कारप्रतिबन्धका पगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति । तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च स्वाश्रयज्ञानकारणातिरिकभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं तव प्रामाण्यस्योत्पत्तौ प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीत्याशयः । तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेणाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तथोर्जहदजहल्लक्षणा, तत एवाखण्डब्रह्मस्वरूप बोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति तत्-त्वमिति पदयोरिति । परोक्षत्वेति परोक्षत्व विशिष्ट चैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य त्वपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रूयमाणं सिंहो देवदत्त इतिवद् गौणं नेत्यर्थः । निषेधे हेतुमाह- मुख्ये इति - मुख्ये सामानाधिकरण्य इत्यर्थः । तस्य गौणस्य सामानाधिकरण्यस्य । सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- " मनो ब्रह्म " [ ] इत्यत्र आरोपित ब्रह्माभेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वा दिविशिष्ट चैतन्यलक्षणब्रह्मा भेदकमपरोक्षत्व विशिष्ट चैतन्यं पदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्कां प्रतिक्षिपति- नापीति । निषेधे हेतुमाहश्रुतद्दानेति श्रुतस्य तत्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य गौणसामाना