Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 189
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । करण्यम्, गुणगुणिभावाद्यसम्भवात्, निर्गुणाऽस्थूलादिवचनविरोधाश्च । नापि यः सर्पः सा रज्जुरितिबदू बाधीयम् उभयोश्चिद्रूपतया बाघायोगाद् मुक्तयभावप्रसङ्गाच, नहि स्वबाधार्थं जीवप्रवृत्तिरुपपद्यते । तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभाव प्रतीत्यनन्तरं लक्षणया सोऽयं देवदत्त इति - द्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपतेर्लक्षणाबीजविरोधासमाधानाच्च । इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच जहदजहती ( भागलक्षणा च गीयते ) । नन्वेवं चैतन्याद्वैत सिद्धावपि कथं प्रपञ्चस्य पारमार्थिकत्वाभाव इति चेत् १ उच्यते--यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदार्थैक्यसिद्धिः, एवं तत्पदार्थेऽपि परोक्षवादि ३३९ धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः । भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह- मुख्यत्वेऽपीति- समानाधि करण्यस्य मुख्यत्वेऽपीत्यर्थः । नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मकद्रव्यवाचकपदेन सामानाधिकरण्यं संभवति नीलात्मक गुणवत्त्वस्योत्पलात्मके गुणिनि सद्भावात् प्रकृते तरपदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्य सगुण चैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणि भावाद्य संभवादिति । यदि निरुक्तसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्यु पेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह - निर्गुगेति । ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाषीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्कां प्रतिक्षिपति नापीति । निषेधे हेतुमाह- उभयोरिति तत्पदार्थ खम्पदार्थयोरित्यर्थः । ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह- मुक्तयभावप्रसङ्गाचेति । कथं मुक्तयभावप्रसङ्ग इत्यपेक्षायामाद- नहीति- अस्य ' उपपद्यते ' इत्यनेनान्वयः । स्वेति- स्वपदार्थस्य मुक्तत्यर्थिनो Satara बाघार्थं मम बावो भवत्वित्येतदर्थं जीवस्य प्रवृत्तिर्नवपद्यत इत्यर्थः । यदि न गौणं सामानाधिकरण्यं नापि मुख्यं नापि बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमर्हतीत्याकाङ्क्षायामुपसंहरति- तस्मादिति- उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः । पदार्थयोरिति तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वंपदार्थमन्यतो व्यावर्तयति त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया यद्वयावर्तकं यद्विशेषणं तद्वयावत्यं तद्विशेष्यमिति नियमादुभयोर्विशेषण- विशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत्-त्वंपदयोर्विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मस्वरूपे शुद्ध चैतन्ये जहदजहल्लक्षणया विशुद्ध प्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा- सोऽयं देवदत्त इति वाक्याच्छुद्धदेवदत्तव्यक्तौ निरुक्तलक्षणया शुद्धदेवदत्तव्यक्ति प्रतीतिरित्यर्थः । सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः । पद्मद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि । अन्यथा एकपद एवं लक्षणाभ्युपगमे । अखण्डेति एकपदस्य शुद्धचेतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीयपदराक्यार्थस्य विशिष्ट वैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तेरित्यर्थः । लक्षणेति तत्-त्वंपदशक्यार्थयोरभेदे नान्वयासम्भवलक्षणविरोध एव लक्षणा बीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तलक्ष्ये द्वितीय पदशक्यार्थस्याभेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोधपरिहारार्थं पदद्वये लक्षणाऽऽवश्यकीत्यर्थः । अस्या लक्षणाया जहदजहल्लक्षणास्वं भागलक्षणात्वपर्यवसितं दर्शयति- इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात्, एवं स्वपदस्य शक्ये अपरोक्षत्वविशिष्टचैतन्ये विशेषणांशस्यापरोक्षत्व वैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच्च जहदबहती - शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजहतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः । शङ्कते - नन्वेवमिति एवमुक्तप्रकारेण अद्वितीयं चैतन्यमप्यस्तु प्रपञ्चस्य पारमार्थिकत्वमप्यस्तु, न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपन्नं येन चैतन्याद्वैतान्यथानुपपत्त्या सिध्येतापि प्रपञ्चस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः । समाधत्ते - उच्यत इति । पदार्थे यदि भोक्तृत्वादिकं पारमार्थिकं त्वं पारमार्थिकं तदा भोक्तृत्वादिविशिष्ट चैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्ट चैतन्यमेकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न ख्रिष्यतीत्याह- यदीति - " परोक्ष्यत्वादि" इत्यस्य स्थाने " परोक्षत्वादि " इति पाठः समीचीनः । नन्वेवं भोव

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274