Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 187
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । साधनान्तरस्य प्रा[ य ]क्षिकी प्राप्तिस्तत्र सा च न निर्विशेषा आत्मज्ञाने श्रवणातिरिक्तस्याप्राप्तेरिति कथं नियमविधिः, न च व्रीहितुषविमोकत्व पुरस्कारेणावघातातिरिक्तस्येवात्मज्ञानत्वपुरस्कारेण श्रवणातिरिक्तस्य प्रत्यक्षादेः प्राप्तेरदोषफलतावच्छेदकावच्छिन्न साधनान्तरप्राप्तेरपेक्षितत्वात् अत एवापूर्वापूर्वव्रीहितुत्रविमोकोऽपि दलनादिना कर्तुं शक्यत इत्यवघातो नियम्यते, आत्मज्ञानमात्रे प्रत्यक्षादिप्रसरानियमविध्यादरे च सुखमात्रे साधनान्तरप्राप्तेः " यजेत " [ ] इत्यादावपि तत्प्रसङ्गतः, अत एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविष्यङ्गत्वं 'यजेत' इत्यादावतिप्रसङ्गादेवेति श्रीद्दीनवहन्यादेवेत्येवंस्वरूपो नियमविधिरेव, अत्र नखविदारणादिनाऽपि तुषविमोकः सम्भवति, नियमविधिना तत्प्रतिक्षेपः क्रियते, अवघाततो वितुषीकृतैरेव व्रीहिभिर्यजेत न तु नखविदारणादिना विदुषीकृतैरिति तथा चावघाततो वितुषीकरणलक्षणदृष्टप्रयोजनमपि भवति, दृष्टफलकयज्ञोपयोग्यदृष्टलक्षणप्रयोजनमपि भवतीत्येवं तत्रत्यनियम विधेर्यथा दृष्टादृष्टार्थत्वम्, तथा प्रकृतेऽपि श्रवणादिनियमविधितो दृष्टमपि प्रयोजनं भवति, अदृष्टमपि प्रयोजनं भवतीति किमत्रादृष्टप्रयोजनमुररीक्रियत इत्यपेक्षायामाह - अदृष्टस्यापीति । न चेत्यस्य व्यवहितेन इति वाच्यमित्यनेन सम्बन्धः । नियमविधिस्थले त्रीहीनवहन्तीत्यादिनियमविधिस्थले । फले तुषविमोकादिलक्षणफले । साधनान्तरस्य अवघातभिन्ननखविदारणादिलक्षणकारणस्य । 'प्रा [त्य ]क्षिकी" इत्यस्य स्थाने "पाक्षिकी " इति पाठो युक्त: 46 ' विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥ " [ ] इति वचनात् यदा अवघातो न क्रियते किन्तु नखविदारणादिकमेव विधीयते तदानीं नखविदारणादिलक्षणसाधनान्तरस्य प्राप्तिरस्ति, अतस्तत्प्रतिषेधार्थं नियमविधिराश्रीयते । तत्र श्रवणादिविधिस्थले, सा च न आत्मज्ञान लक्षण फले श्रवणाद्यतिरिक्तसाधनस्य पाक्षिकी प्राप्तिर्न पुनः । कथं नेत्यपेक्षायामाह - निर्विशेषेति- " निर्विशेषा आत्मज्ञाने इत्यस्य स्थाने " निर्विशेषाऽऽत्मशाने " इति पाठो युक्तः । कथमित्याक्षेपे न कथञ्चिदित्यर्थः तथा चात्मज्ञानार्थं श्रवणादेरत्यन्ताप्राप्तत्वादपूर्व विधिरेवायं भवितुमर्हतीति भावः । अन्तरा शङ्कामुत्थाप्य प्रतिक्षिपति-न चेति यथा सामान्यतो ब्रीहितुष विमोकं प्रति अवघातोsपि कारणं नखविदारणादिकमपि कारणमिति नखविदारणादिसाधनान्तरस्य प्राप्तौ तदानीमवघातस्याप्राप्तौ नियमविधिस्तथा प्रकृतेऽपि सामान्यत आत्मज्ञाने श्रवणमपि कारणं प्रत्यक्षादिकमपि कारणमिति यदा प्रत्यक्षादिनाssस्मानं ज्ञातुं प्रवर्तते तदानीं प्रत्यक्षादिसाधनान्तरस्य प्राप्तौ श्रवणस्याप्राप्तौ नियमविधिः स्यादिति शङ्कार्थः । “रदोष फल " इत्यस्य स्थाने " रदोषः, फलः " इति पाठो युक्तः । अवान्तराशङ्कानिषेधे हेतुमुपदर्शयति- फलतेति - व्रीहीन वहन्तीत्यत्रावघातरूपसाधनस्य फलतावच्छेदकं तुषविमोकत्वं तदवच्छिन्नस्य तुषविमोकस्य साधनान्तरं नखविदलनादिकं तत्प्राप्तेर्नियमविधिनाऽपेक्षितत्वात् प्रकृते तु श्रवणादिलक्षणसाधनस्य फलतावच्छेद के निर्विशेषात्मज्ञानत्वं तदवच्छिन्नस्यनिर्विशेषात्मज्ञानस्य साधनान्तरं न प्रत्यक्षादिकं प्रत्यक्षादिप्रमाणतो निर्विशेषात्मज्ञानानुदयादिति साधनान्तरप्राप्यभावे तन्निबन्धनाप्राप्तेरभावान्न नियमविधिसम्भव इत्यर्थः । अत एव फलतावच्छेदकावच्छिन्न साधनान्तर प्राप्तर्नियम विधिनाऽपेक्षितत्वादेव। अपूर्वेतियस्य यस्य व्रीहेर्नखेन विदारणं न सम्भवति तस्याप्यूर्ध्वाधीव्यवस्थित प्रस्तरद्वय करणकदलनादिना तुषविमोकः सम्भवत्येवेस्येवेति तुषविमोकत्वावच्छिन्ने साधनान्तर प्रात्या तत्प्रतिषेधायावघातो नियम्यत इत्यर्थः । यदि च निर्विशेषात्मज्ञाने प्रत्यक्षादिप्रमाणान्तर प्रवृत्तावपि आत्मज्ञानमात्रे प्रत्यक्षादिसाधनान्तर प्रवृतिः श्रवणादिविधेर्नियमविधित्वमुपपाद्यते, तदा फलतावच्छेद कावच्छिन्न साधनान्तर प्रवृत्तेरनपेक्षितत्वं फलजातीयं यत् किञ्चित् फलं प्रति साधनान्तरप्राप्तेरपेक्षितत्वमित्यस्य नियमविभ्यु पोद्बलकस्य स्वस्तितत्वेन स्वर्गकामो यजेतेत्यादावपि " यन्न दुःखेन सम्भिनं च प्रस्तमनन्तरम् ॥ अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम् ॥ १ ॥ " [ ] इति वचनलक्षितसुखविशेषलक्षणस्वर्गजातीयसुखमात्रं प्रति सकून्चन्दन- वनितादिलक्षण साधनान्तरप्राप्तेरपि नियमविध्यज्ञस्वतो नियमविधित्वमेव तस्य प्रसज्येत स्वीकृतस्यापूर्वविधित्वस्योच्छेद एव स्यादित्याह- आत्मज्ञानमात्र इति । तत्प्रसङ्गतः इत्यस्य स्थाने " तत्प्रसङ्गः " इति पाठो युक्तः, तखिलप्रत्ययस्य सार्वविभकत्व तथा पाठोऽपि युक्त एव तस्य नियमविधित्वप्रसन्न इत्यर्थः । अत एव स्वर्गकामो यजेतेत्यादौ नियमविधित्व " "" *ર્ ३३७

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274