Book Title: Nayopadesha Part 2
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 186
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। %3 निदिध्यासनं ३ चेति । श्रवणं नाम- वेदान्तानां शक्ति-तात्पर्यावधारणानुकूलो व्यापारः, श्रुतस्यार्थस्य युक्तिः सन्धान मननम् , विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्ययप्रवाहीकरणं निदिध्यासनम् । एतेषां श्रवणं प्रधानम् , इतरे फलोपकार्याने, श्रोतव्यादिवाक्येषु प्राथमिकत्वात् श्रवणविधेरैवार्थवादिकफला कल्पनयेतरयोस्तत्क]ल्पनालेशनिवृत्तेः । श्रवणस्य तत्त्वज्ञाने प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकतया प्राधान्यम् , असति श्रवणे प्रामाणासंभावनया तत्त्वज्ञानानुदयात्, अत्यन्तानवगतार्थे गृहीतशहितात्पर्यकस्य शब्दस्यैव प्रमाजनकत्वात् तन्निर्वाहकस्य श्रवणस्य प्राधान्यमिति तात्पर्यम् । विधिश्चात्र नियमारूय एव दृष्टा, दृष्टार्थत्वात् , दृष्टस्यापि तत्त्वज्ञानोपयोगित्वात् । न च, नियमविधिस्थले फले ब्रह्मस्वरूपोपदेष्टारमाचार्यम् , अनुसृतः सन् । श्रवणादीत्यनेन किं प्राथमित्यपेक्षायामाह-श्रवणादिकं रिवति । श्रवणमनन-निदिध्यासनानां क्रमेण स्वरूपात्मकलक्षणमुपदर्शयति-श्रवणं नामेति । वेदान्तानां तत्त्वमसीत्यादिमहावाक्यानाम् । शक्तितात्पर्येति-तत्पदस्य मायावच्छिन्नचैतन्ये शकिः, स्वम्पदस्यान्तःकरणावच्छिन्नचैतन्ये शक्तिः, शक्यार्थयोर्निरुकविशिष्टचैतन्ययोरभेदेनान्वयोऽनुपपन इत्यन्वयानुपपत्त्या जहृदजहत्स्वार्थलक्षणया तत्वमसीति वाक्यं शुदचैतन्यमेवावबोधयतीति तस्य शुद्धचैतन्य एव तात्पर्यमित्येवं शकि-तात्पर्यावधारणानुकुलो य उपक्रमोपसंहारादिषटतात्पर्यलिङ्गान्वेषणलक्षणो व्यापारः श्रवणमित्यर्थः, उक्तस्वरूपस्य श्रवणस्य कर्तव्यत्वावेदकं तत्स्वरूपावेदकं च पद्यकदम्बकं पञ्चदश्यां यथा"अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥1॥ बाढं सन्ति पदाव्यस्य हेतवः श्रुत्यनेकता। असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ २ ॥ शाखाभेदात् कामभेदाच्छूतं कर्मान्यथाऽन्यथा । एवमत्रापि मा शङ्कीत्यतः श्रवणमाचरेत् ।। ३ ।। वेदान्तानामशेषाणामादि-मध्याऽवसानतः । ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ ” इति । मननस्वरूपं प्रकटयति- श्रुतस्येति- श्रवणनिष्टङ्कितस्येत्यर्थः । यक्तितः प्रमाण-तर्कोपेतहेतुतः । सन्ध अनुमितिविषयीकरणम् , यस्य येन रूपेण श्रवणं तस्मिस्तपस्यानुमित्यात्मकं यज्ज्ञानं तन्मननमित्यर्थः। निदिध्यासनस्वरूपमावेदयति-विजातीयेति-- अनुमित्यात्मकं यदात्ममननं तद्विजातीयोऽन्यविषयकप्रत्यक्षादिरूपः प्रत्ययस्तस्य तिरस्कारेणअन्तराऽन्तराऽन्याशज्ञानजननतो यदात्मानुमितिप्रवाहस्य विच्छेदस्तत्परिहारेणेति यावत् , सजातीयप्रत्ययस्यात्मानुमितिप्रत्ययस्य प्रवाहीकरणं- प्रवाहरूपेणावस्थापनं निदिध्यासनमित्यर्थः । एतेषां श्रवण-मनन-निदिध्यासनानां मध्ये । श्रवणं श्रुतिप्रभवात्मज्ञानम् । प्रधानं आत्मसाक्षात्कारलक्षणात्मतत्त्वज्ञानात्मकफलवत्त्वान्मुख्यम्, इतरे मनन-निदिभ्यासने । फलोपकार्याने फलमात्मतत्त्वसाक्षात्कारलक्षणं तत्साधनं श्रवणमपि फलवत्त्वात् फलं तद्रूपं यदुपकार्य प्रधानत्वात् तस्याङ्गेतदुपकारके, फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति नियमात् । कथं श्रवणस्यैव फलवत्त्वं येन तदत्वं मनननिदिध्यासनयोरित्यपेक्षायामाह-श्रोतव्यादिवाक्येष्विति- "आत्मा वाऽरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात् कर्तव्यः” [ ] इति वाक्येष्वित्यर्थः । प्राथमिकत्वात् प्रथम श्रूयमाणत्वात् । श्रवणविधेः श्रोतव्य इति विधेः । अर्थवादिकफलकल्पनया अर्थवादोक्तफलकल्पनया । इतरयोः मनन-निदिध्यासनविध्योः । तत्कल्पनाक्लेशनिवृत्तेः फलान्तरकल्पनाप्रयासामावात् । श्रवणस्य मनन-निदिध्यासनापेक्षया प्राधान्यं व्यवस्थापयति-श्रवणस्येति अस्य प्राधान्यमित्यनेनान्वयः। कस्मिन् फले प्राधान्यमित्याकाङ्खायामाह-तत्त्वज्ञान इति । प्रधानभूतशब्दप्रमाणस्वरूपनिर्वाहकत्वमेव श्रवणस्य व्यवस्थापयति-असति श्रवण इति । ननु श्रवणाभावेऽपि शब्दप्रमाणातिरिकप्रमाणदेव तत्त्वलानं भविष्यतीति कुतः प्रमाणासंभावनेत्यत आह- अत्यन्तानचगतार्थ इति । तन्निर्वाहकस्य प्रमाजनकशब्दस्वरूपनिर्वाहकस्य । “ विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥ १ ॥” इति वचनाद् विधेस्वैविध्ये श्रवणविधिः किमेतेष्वित्यपेक्षयामाह-विधिश्चात्रेति- "दृष्टा दृष्टार्थत्वात् , दृष्टस्यापि" इत्यस्य स्थाने " दृष्टादृष्टार्थत्वात् , अदृष्टस्यापि" इति पाठो युक्तः, यथा ब्रीहिनवहन्तीत्यत्र नापूर्वविधिः, प्रमाणान्तराप्राप्तस्य प्रापको विधिरपूर्वविधिरित्युच्यते, तुषविमोकार्थ ब्रीहेरवहननं प्रत्यक्षादिप्रमाणेनैवोपलभ्यत इति तत् प्रमाणान्तरप्राप्तमेव, किन्तु

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274